Skip to content

Malavikagnimitram

Act 1

(प्रथमोऽङ्कः।)

एकैश्वर्ये स्थितोऽपि प्रणतबहुफले यः स्वयं कृत्तिवासाः कान्तासंमिश्रदेहोऽप्यविषयमनसां यः पुरस्ताद्यतीनाम्। अष्टाभिर्यस्य कृत्स्नं जगदपि तनुभिर्बिभ्रतो नाभिमानः सन्मार्गालोकनाय व्यपनयतु स वस्तामसीं वृत्तिमीशः॥१॥

(नान्द्यन्ते।)

सूत्रधारः — (नेपथ्याभिमुखमवलोक्य) मारिष इतस्तावत्। (प्रविश्य।)

पारिपार्श्विकः — भाव अयमस्मि।

सूत्रधारः — अभिहितोऽस्मि परिषदा कालिदासग्रथितवस्तु मालविकाग्निमित्रं नाम नाटकमस्मिन् वसन्तोत्सवे प्रयोक्तव्यमिति। तदारभ्यतां सङ्गीतकम्।

पारिपार्श्विकः — मा तावत्। प्रथितयशसां भाससौमिल्लकविपुत्रादीनां प्रबन्धानतिक्रम्य वर्तमानकवेः कालिदासस्य क्रियामिमां द्रष्टुं कथं परिषदो बहुमानः।

सूत्रधारः — अये विवेकविश्रान्तमभिहितम्। पश्य, पुराणमित्येव न साधु सर्वं न चापि काव्यं नवमित्यवद्यम्। सन्तः परीक्ष्यान्यतरद्भजन्ते मूढः परप्रत्ययनेयबुद्धिः॥२॥

पारिपार्श्विकः — आर्यमिश्राः प्रमाणम्।

सूत्रधारः — तेन हि त्वरतां भवान्। शिरसा प्रथमगृहीतामाज्ञामिच्छामि परिषदः कर्तुम्। देव्या इव धारिण्याः सेवादक्षः परिजनोऽयम्॥३॥

(निष्क्रान्तौ।)

(प्रस्तावना।) (ततः प्रविशति चेटी।)

चेटी — आणत्तम्हि देवीए धारिणीए अइरप्पउत्तोवदेसं चलिअं णाम णट्टअं अन्दरेण कीरिसी मालविअत्ति णट्टाअरिअं अज्जगणदासं पुच्छिदुं। ता जाय संगीदसालं गच्छेमि। (इति परिक्रामति।) (आज्ञप्तास्मि देव्या धारिण्या अचिरप्रयुक्तोपदेशं चलितं नाम नाट्यमन्तरेण कीदृशी मालविकेति नाट्याचार्यमार्यगणदासं प्रष्टुम्। तद्यावत्सङ्गीतशालां गच्छामि।) (ततः प्रविशत्याभरणहस्ता द्वितीया चेटी।)

प्रथमा — (द्वितीयां दृष्ट्वा) हला कोमुदिए कुदो दे इअं धीरदा। जं समीवेण वि मं अदिक्कमंती इदो दिट्ठिं ण देसि। (सखि कौमुदिके, कुतस्त इयं धीरता। यस्समीपेनापि मामतिक्रामन्तीतो दृष्टिं न ददासि।)

द्वितीया — अम्भो बउलावलिआ। सहि इदं देवीए सिप्पिसआसादो आणीदं णाअमुद्दासणाहं अंगुलीअअं सिणिद्धं णिज्ज्ञाअन्ती तुह उवालम्भे पडिदम्हि। (अम्भो बकुलांवलिका। सखि इदं देव्याः शिल्पिसकाशादानीतं नागमुद्रासनाथमङ्गुलीयके स्निग्धं निध्यायन्ती तवोपालम्भे पतितास्मि।)

बकुलावलिका — (विलोक्य) ठाणे खु सज्जदि दिट्ठी। इमिणा अंगुलीअएण उब्भिण्णकिरणकेसरेण कुसुमिदो विअ दे अग्गहत्थो पडिभादि। (स्थाने खलु सज्जति दृष्टिः। अनेनाङ्गुलीयकेनोद्भिन्नकिरणकेसरेण कुसुमित इव तेऽग्रहस्तः प्रतिभाति।)

कौमुदिका — हला तुमं कहिं पत्थिदासि। (हला त्वं कुत्र प्रस्थितासि।)

बकुलावलिका — देवीए वअणेण णट्टाअरिअं अज्जगणदासं पुच्छिदुं उवदेसग्गहणे कीरिसी मालविअत्ति। (देव्या वचनेन नाट्याचार्यमार्यगणदासं प्रष्टुमुपदेशग्रहणे कीदृशी मालविकेति।)

कौमुदिका — हला ईरिसेण वावारेण असण्णिहिदा वि दिट्ठा कहं एसा भट्टिणा। (हला ईदृशेन व्यापारेणासन्निहितापि दृष्टा कथमेषा भर्ता।)

बकुलावलिका — आम् देवीए पस्सगदो सो जणो चित्ते दिट्ठो। (आम् देव्याः पार्श्वगतः स जनश्चित्रे दृष्टः।)

कौमुदिका — कहं विअ। (कथमिव।)

बकुलावलिका — सुणाहि। चित्तसालं गदा देवी पच्चग्गवण्णराअं चित्तलेहं आलोअन्ती चिरं चिठ्ठदि। तस्सिं अन्तरे उवट्ठीदो भट्टा। (शृणु। चित्रशालां गता देवी प्रत्यग्रवर्णरागां चित्ररेखामालोकयन्ती चिरं तिष्ठति। तस्मिन्नन्तर उपस्थितो भर्ता।)

कौमुदिका — तदो तदो। (ततस्ततः।)

बकुलावलिका — उवआराणन्दरं एक्कासणोवविट्ठेण भट्टिणा चित्तगदाए देवीए परिअणमज्झगअदं आसण्णपरिआरिणिं देक्खिअ देवी पुच्छिदा। (उपचारानन्तरमेकासनोपविष्टेन भर्त्रा चित्रगताया देव्याः परिजनमध्यगतामासन्नपरिचारिणीं दृष्वा देवी पृष्टा।)

कौमुदिका — किंत्ति। (किमिति।)

बकुलावलिका — देवि अपुव्वा इअं दारिआ तुह आसण्णा लिहिदा किंणामहेअत्ति। (देवि अपूर्वेयं दारिका तवासन्ना किंनामधेयेति।)

कौमुदिका — णं आकिदिविसेसेसु आदरो पदं करेदि। तदो तदो। (नन्वाकृतिविशेषेष्वादरः पदं करोति। ततस्ततः।)

बकुलावलिका — तदो अवहीरिदवअणो भट्टा संकिदो देवीं पुणो पुणो णिव्बन्धिदुं पउत्तो। जाव देवी ण कहेदि दाव कुमारीए वसुलच्छीए आचक्खिदं आउत्त एसा मालविअत्ति। (ततोऽवधीरितवचनो भर्ता शङ्कितो देवीं पुनः पुनर्निर्बन्द्धुं प्रवृत्तः। यावद्देवी न कथयति तावत्कुमार्या वसुलक्ष्म्याख्यातमावुत्त एषा मालविकेति।)

कौमुदिका — (सस्मितम्) सरिसं खु बालभावस्स। अदो वरं कहेहि। (सदृशं खलु बालभावस्य। अतः परं कथय।)

बकुलावलिका — किं अण्णं। सम्पदं मालविआ सविसेसं भट्टिणो दंसणपहादो रक्खीअदि। (किमन्यत्। साम्प्रतं मालविका सविशेषं भर्तुर्दर्शनपथाद्रक्ष्यते।)

कौमुदिका — हला अणुचिठ्ठ अत्तणो णिओअं। अहं वि एदं अङ्गुलीअअं देवीए उवणइस्सं। (हला अनुतिष्ठात्मनो नियोगम्। अहमप्येतदङ्गुलीयकं देव्या उपनेष्यामि।) (इति निष्कान्ता।)

बकुलावलिका — (परिक्रम्यावलोक्य च।) एसो णट्टाअरिओ अज्जगणदासो संगीदसालादो दाणिं णिक्कमइ। जाव से अत्ताणं दंसेमि। (एष नाट्याचार्य आर्यगणदासः सङ्गीतशालात इदानीं निष्क्रामति। यावदस्यात्मानं दर्शयामि।) (इति परिक्रामति।)

(प्रविश्य) गणदासः — कामं खलु सर्वस्यापि कुलविद्या बहुमता। न पुनरस्माकं नाट्यं प्रति मिथ्यागौरवम्। कुतः देवानामिदमामनन्ति मुनयः कान्तं क्रतुं चाक्षुषं रुद्रेणेदमुमाकृतव्यतिकरे स्वाङ्गे विभक्तं द्विधा। त्रैगुण्योद्भवमत्र लोकचरितं नानारसं दृश्यते नाट्यं भिन्नरुचेर्जनस्य बहुधाप्येकं समाराधनम्॥४॥

बकुलावलिका — (उपसृत्य) अज्ज वन्दामि। (आर्य वन्दे।)

गणदासः — भद्रे चिरं जीव।

बकुलावलिका — अज्ज देवी पुच्छदि अवि उवदेसग्गहणे णादिकिलेसेदि वो सिस्सा मालविअत्ति। (आर्य देवी पृच्छति अप्युपदेशग्रहणे नातिक्लेशयति वः शिष्या मालविकेति।)

गणदासः — विज्ञाप्यतां देवी परमनिपुणा मेधाविनी चेति। किं बहुना। यद्यत्प्रयोगविषये भाविकमुपदिश्यते मया तस्यै। तत्तद्विशेषकरणात्प्रत्युपदिशतीव मे बाला॥५॥

बकुलावलिका — (आत्मगतम्) इरावदिं अदिक्कमन्तिं विअ पेक्खामि। (प्रकाशम्) किदत्था दाणिं वो सिस्सा जस्सिं गुरुअणो एवं तुस्सदि। (इरावतीमतिक्रामन्तीमिव पश्यामि। कृतार्थेदानीं वः शिष्या यस्यां गुरुजन एवं तुष्यति।)

गणदासः — भद्रे तद्विधानामसुलभत्वात्पृच्छामि। कुतो देव्यास्तत्पात्रमानीतम्।

बकुलावलिका — अत्थि देवीए वण्णावरो भादा वीरसेणो णाम। सो भट्टिणा अन्दवालदुग्गे णम्मदाऊले ठाविदो। तेण सिप्पाहिआरे इअं जोग्गा दारिअत्ति भइणीए उवाअणं पेसिदा। (अस्ति देव्या वर्णावरो भ्राता वीरसेनो नाम। स भर्त्रा अन्तपालदुर्गे नर्मदाकूले स्थापितः। तेन शिल्पाधिकार इयं योग्या दारिकेति भगिन्यै उपायनं प्रेषिता।)

गणदासः — (स्वगतम्) आकृतिविशेषप्रत्ययादेनामनूनवस्तुकां संभावयामि। (प्रकाशम्) भद्रे मयापि यशस्विना भवितव्यम्। पश्य पात्रविशेषे न्यस्तं गुणान्तरं व्रजति शिल्पमाधातुः। जलमिव समुद्रशुक्तौ मुक्ताफलतां पयोदस्य॥६॥

बकुलावलिका — अज्ज कहिं दाणि वो सिस्सा। (आर्य कुत्रेदानीं वः शिष्या।)

गणदासः — इदानीमेव पञ्चाङ्गाभिनयमुपदिश्य मया विश्रम्यतामित्यभिहिता दीर्घिकावलोकनगवाक्षगता प्रवातमासेवमाना तिष्ठति।

बकुलावलिका — तेण हि अणुजाणादु मं अज्जो। जाव से अज्जस्स परिदोसणिवेदणेण उच्छाहं वड्ढेमि। (तेन ह्यनुजानातु मामार्यः। यावदस्या आर्यस्य परितोषनिवेदनेनोत्साहं वर्धयामि।)

गणदासः — दृश्यतां सखी। अहमपि लब्धक्षणः स्वगृहं गच्छामि। (इति निष्क्रान्तौ।)

(मिश्रविष्कम्भकः।)

(ततः प्रविशत्येकान्तस्थितपरिजनो मन्त्रिणा लेखहस्तेनान्वास्यमानो राजा।)

राजा — (अनुवाचितलेखममात्यमवलोक्य।) वाहतक, किं प्रतिपद्यते वैदर्भः।

अमात्यः — देव, आत्मविनाशम्।

राजा — लिखितं निर्देशमिदानीं श्रोतुमिच्छामि।

अमात्यः — इदमिदानीमनेन प्रतिलिखितम्—"पूज्येनाहमादिष्टः 'भवतः पितृव्यपुत्रः कुमारो माधवसेनः प्रतिश्रुतसम्बन्धो ममोपान्तिकमागच्छन्नन्तरा त्वदीयेनान्तपालेनावस्कद्य गृहीतः। स त्वया मदपेक्षया सकलत्रसोदर्यो मोचयितव्य' इति। तन्न वो न विदितं यत्तुल्याभिजनेषु भूमिहरेषु राज्ञां प्रवृत्तिरीदृक्। अतोऽत्र मध्यस्थः पूज्यो भवितुमर्हति। सोदर्या पुनरस्य ग्रहणविप्लवे विनष्टा। तदन्वेषणाय प्रयतिष्ये। अथावश्यमेव माधवसेनः पूज्येन मोचयितव्यः, श्रूयतामभिसन्धिः। मौर्यसचिवं विमुञ्चति यदि पूज्यः संयतं मम श्यालम्। मोक्ता माधवसेनं ततोऽहमपि बन्धनात्सद्यः"॥७॥ इति।

राजा — (सरोषम्) कथं कार्यविनिमयेन मयि व्यवहरत्यनात्मज्ञः। वाहतक, प्रकृत्यमित्रः प्रतिकूलचारी च मे वैदर्भः। तद्यातव्यपक्षे स्थितस्य पूर्वसङ्कल्पितमुन्मूलनाय वीरसेनप्रमुखं दण्डचक्रमाज्ञापय।

अमात्यः — यदाज्ञापयति देवः।

राजा — अथवा किं भवान् मन्यते।

अमात्यः — शास्त्रदृष्टमाह देवः। कुतः अचिराधिष्ठितराज्यः शत्रुः प्रकृतिष्वरूढमूलत्वात्। नवसंरोहणशिथिलस्तरुरिव सुकरः समुद्धर्तुम्॥८॥

राजा — तेन ह्यवितथं तन्त्रकारवचनम्। इदमेव निमित्तमादाय समुद्योज्यतां सेनापतिः।

अमात्यः — तथा। (इति निष्क्रान्तः। परिजनश्च यथाव्यापारं राजानमभितः स्थितः।)

(प्रविश्य) विदूषकः — आणत्तोम्हि तत्तहोदा रण्णा। गोदम चिन्तेहि दाव उवाअं जह मे जदिच्छादिठ्ठपडिकिदी मालविआ पच्चक्खदंसणा होदित्ति। मए वि तं तह किदं। जाव से णिवेदेमि। (इति परिक्रामति।) (आज्ञप्तोऽस्मि तत्रभवता राज्ञा। गौतम चिन्तय तावदुपायं यथा मे यदृच्छादृष्टप्रतिकृतिर्मालविका प्रत्यक्षदर्शना भवतीति। मयापि तत्तथा कृतम्। यावदस्मै निवेदयामि।)

राजा — (विदूषकं दृष्ट्वा) अयमपरः कार्यान्तरसचिवोऽस्मानुपस्थितः।

विदूषकः — (उपसृत्य) बड्ढदु भवं। (वर्धतां भवान्।)

राजा — (सशिरःकम्पम्) इत आस्यताम्। (विदूषक उपविष्टः।)

राजा — वयस्य कश्चिदुपेयोपायदर्शने व्यापृतं ते प्रज्ञाचक्षुः।

विदूषकः — पओअसिद्धिं पुच्छ। (प्रयोगसिद्धिं पृच्छ।)

राजा — कथमिव।

विदूषकः — (कर्णे) एव्वं विअ। (एवमिव।)

राजा — साधु वयस्य निपुणमुपक्रान्तम्। इदानीं दुरधिगमसिद्धावप्यस्मिन्नारम्भे वयमाशंसामहे। कुतः अर्थं सप्रतिबन्धं प्रभुरधिगन्तुं सहायवानेव। दृश्यं तमसि न पश्यति दीपेन विना सचक्षुरपि॥९॥

(नेपथ्ये) अलमलं बहु विकत्थ्य। राज्ञः समक्षमेवावयोरधरोत्तरव्यक्तिर्भविष्यति।

राजा — सखे त्वत्सुनीतिपादपस्य कुसुममुद्भिन्नम्।

विदूषकः — फलं वि देक्खिस्ससि। (फलमपि द्रक्ष्यसि।) (ततः प्रविशति कञ्चुकी।)

कञ्चुकी — देव अमात्यो विज्ञापयति। अनुष्ठिता प्रभोराज्ञा। एतौ पुनर्हरदत्तगणदासौ उभावभिनयाचार्यौ परस्परजयोद्यतौ। त्वां द्रष्टुमिच्छतः साक्षाद्भावाविव शरीरिणौ॥१०॥

राजा — प्रवेशय तौ।

कञ्चुकी — यदाज्ञापयति देवः। (इति निष्क्रम्य पुनस्ताभ्यां सह प्रविश्य) इत इतो भवन्तौ।

हरदत्तः — (राजानमवलोक्य) अहो दुरासदो राजमहिमा। तथाहि न च न परिचितो न चाप्यगम्य- श्चकितमुपैमि तथापि पार्श्वमस्य। सलिलनिधिरिव प्रतिक्षणं मे भवति स एव नवो नवोऽयमक्ष्णोः॥११॥

गणदासः — महत् खलु पुरुषाकारमिदं ज्योतिः। तथा हि— द्वारे नियुक्तपुरुषानुमतप्रवेशः सिंहासनान्तिकचरेण सहोपसर्पन्। तेजोभिरस्य विनिवर्तितदृष्टिपातै- र्वाक्यादृते पुनरिव प्रतिवारितोऽस्मि॥१२॥

कञ्चुकी — एष देवः। उपसर्पतां भवन्तौ।

उभौ — (उपसृत्य।) विजयतां देवः।

राजा — स्वागतं भवद्भ्याम्। (परिजनं विलोक्य।) आसने तावदत्रभवतोः। (उभौ परिजनोपनीतयोरासनयोरुपविष्टौ।)

राजा — किमिदं शिष्योपदेशकाले युगपदाचार्ययोरुपस्थानम्।

गणदासः — देव श्रूयताम्। मया तीर्थादभिनयविद्या शिक्षिता। दत्तप्रयोगश्चास्मि। देवेन देव्या च परिगृहीतः।

राजा — दृढं जाने। ततः किम्।

गणदासः — सोऽहममुना हरदत्तेन प्रधानपुरुषसमक्षमयं न मे पादरजसापि तुल्य इत्यधिक्षिप्तः।

हरदत्तः — देव अयमेव मयि प्रथमं परिवादकरः। अत्रभवतः किल मम च समुद्रपल्वलयोरिवान्तरमिति। तदत्रभवानिमं मां च शास्त्रे प्रयोगे च विमृशतु। देव एव नौ विशेषज्ञः प्राश्निकः।

विदूषकः — समत्थं पडिण्णादं। (समर्थं प्रतिज्ञातम्।)

गणदासः — प्रथमः कल्पः। अवहितो देवः श्रोतुमर्हति।

राजा — तिष्ठतु तावत्। पक्षपातमत्र देवी मन्यते। तत्तस्याः पण्डितकौशिक्या सहितायाः समक्षमेव न्याय्यो व्यवहारः।

विदूषकः — सुट्ठु भवं भणादि। (सुष्ठु भवान् भणति।)

आचार्यौ — यद्देवाय रोचते।

राजा — मौद्गल्य, अमुं प्रस्तावं निवेद्य पण्डितकौशिक्या सार्धमाहूयतां देवी।

कञ्चुकी — यदाज्ञापयति देवः। (इति निष्क्रम्य सपरिव्राजिकया देव्या सह प्रविश्य।) इत इतो देवी।

देवी — (परिव्राजिकां विलोक्य) भअवदि, हरदत्तस्स गणदासस्स अ संरम्भे कहं पेक्खसि। (भगवति हरदत्तस्य गणदासस्य च संरम्भे कथं पश्यसि।)

परिव्राजिका — अलं स्वपक्षावसादशङ्कया। न परिहीयते प्रतिद्वन्द्विनो गणदासः।

देवी — जइ वि एव्वं तह वि राअपरिग्गहो से पहाणत्तणं उवहरदि। (यद्यप्येवं तथापि राजपरिग्रहोऽस्य प्रधानत्वमुपहरति।)

परिव्राजिका — अयि राज्ञीशब्दभाजनमात्मानमपि तावच्चिन्तयतु भवती। पश्य अतिमात्रभासुरत्वं पुष्यति भानोः परिग्रहादनलः। अधिगच्छति महिमानं चन्द्रोऽपि निशापरिगृहीतः॥१३॥

विदूषकः — अविहा अविहा उवठ्ठिदा पीठमद्दिअं पण्डिदकोसिअं पुरोकदुअ देवी। (अविहा अविहा उपस्थिता पीठमर्दिकां पण्डितकौशिकीं पुरस्कृत्य देवी।)

राजा — पश्याम्येनाम्। यैषा मङ्गलालङ्कृता भाति कौशिक्या यतिवेषया। त्रयी विग्रहवत्येव सममध्यात्मविद्यया॥१४॥

परिव्राजिका — (उपसृत्य) विजयतां देवः।

राजा — भगवति अभिवादये।

परिव्राजिका — महासारप्रसवयोः सदृशक्षमयोर्द्वयोः। धारिणीभूतधारिण्योर्भव भर्ता शरच्छतम्॥१५॥

देवी — जेदु अज्जउत्तो। (जयत्वार्यपुत्रः।)

राजा — स्वागतं देव्यै। (परिव्राजिकां विलोक्य।) भगवति क्रियतामासनपरिग्रहः। (सर्वे यथार्हमुपविशन्ति।)

राजा — भगवति अत्रभवतोर्हरदत्तगणदासयोः परस्परविज्ञानसङ्घर्षो जातः। तदत्र भगवत्या प्राश्निकपदमध्यासितव्यम्।

परिव्राजिका — (सस्मितम्) अलमुपालम्भेन। पत्तने विद्यमानेऽपि ग्रामे रत्नपरीक्षा।

राजा — मा मैवम्। पण्डितकौशिकी खलु भगवती। पक्षपातिनावनयोरहं च देवी च।

आचार्यौ — सम्यगाह देवः। मध्यस्था भगवती गुणदोषौ नः परिच्छेत्तुमर्हति।

राजा — तेन हि प्रस्तूयतां विवादः।

परिव्राजिका — देव प्रयोगप्रधानं हि नाट्यशास्त्रम्। किमत्र वाग्व्यवहारेण।

राजा — कथं वा देवी मन्यते।

देवी — जइ मं पुच्छसि एदाणं विवादो एव्व ण मे रोअदि। (यदि मां पृच्छसि, एतयोर्विवाद एव न मे रोचते।)

गणदासः — न मां देवी समानविद्यतः परिभवनीयमनुमन्तुमर्हति।

विदूषकः — होदु देक्खामो उरब्भसंवादं। किं मुहा वेअणदाणेण। (भवतु द्रक्ष्याम उरभ्रसम्पातम्। किं मुधा वेतनदानेन।)

देवी — णं कलहप्पिओसि। (ननु कलहप्रियोऽसि।)

विदूषकः — मा दाव। अण्णोण्णकलहिदाणं मत्तहत्थीणं एक्कदरस्सिं अणिज्जिदे कदो उवसमो। (मा तावत्। अन्योन्यकलहितयोर्मत्तहस्तिनोरेकतरस्मिन्ननिर्जिते कुत उपशमः।)

राजा — ननु स्वाङ्गसौष्ठवामिनयमुभयोर्दृष्टवती भगवती।

परिव्राजिका — अथ किम्।

राजा — तदिदानीमतः परं किमाभ्यां प्रत्याययितव्यम्।

परिव्राजिका — तदेव वक्तुकामास्मि। क्लिष्टा क्रिया कस्यचिदात्मसंस्था सङ्क्रान्तिरन्यस्य विशेषयुक्ता। यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव॥१६॥

विदूषकः — सुदं भअवदीए वअणं अज्जेहिं। एसो पिण्डिदत्थो उवदेसदंसणेण णिण्णओत्ति। (श्रुतं भगवत्या वचनमार्याभ्याम्। एष पिण्डितार्थः उपदेशदर्शनेन निर्णय इति।)

हरदत्तः — परमुचितं नः।

गणदासः — देवि एवं स्थितम्।

देवी — जदा उण मन्दमेहा सिस्सा उवदेसं मलिणेदि तदा आअरिअस्स दोसो णं। (यदा पुनर्मन्दमेधा शिष्योपदेशं मलिनयति तदाचार्यस्य दोषो नु।)

राजा — देवि एवमुपपद्यते।

गणदासः — विनेतुरद्रव्यपरिग्रहोऽपि बुद्धिलाघवं प्रकाशयति।

देवी — (स्वगतम्) कहं दाणिं। (गणदासं विलोक्य जनान्तिकम्।) अलं अज्जउत्तस्स उच्छाहकारणं मणोरहं पूरिअ। (प्रकाशं।) विरम णिरत्थआदो आरम्भादो। (कथमिदानीम्। अलमार्यपुत्रस्योत्साहकारणं मनोरथं पूरयित्वा। विरम निरर्थकादारम्भात्।)

विदूषकः — सुट्ठु होदी भणादि। भो गणदास सङ्गीदावदेसेण सरस्सईउवाअणमोदआइं खादमाणस्स किं दे सुलहणिग्गहेण विवादेण। (सुष्ठु भवती भणति। भो गणदास सङ्गीतापदेशेन सरस्वत्युपायनमोदकानि खादतः किं ते सुलभनिग्रहेण विवादेन।)

गणदासः — सत्यमयमेवार्थो देवीवचनस्य। श्रूयतामवसरप्राप्तमिदम्। लब्धास्पदोऽस्मीति विवादभीरो- स्तितिक्षमाणस्य परेण निन्दाम्। यस्यागमः केवलजीविकैव तं ज्ञानपण्यं वणिजं वदन्ति॥१७॥

देवी — अइरोवणीदा दे सिस्सा। ता अवरिणिठ्ठिदस्स उवदेसस्स अण्णाअं पदंसणं। (अचिरोपनीता ते शिष्या। तदपरिनिष्ठितस्य उपदेशस्यान्याय्यं प्रदर्शनम्।)

गणदासः — अत एव मे निर्बन्धः।

देवी — तेण हि दुवे वि भअवदीए उवदेसं दंसह। (तेन हि द्वावपि भगवत्या उपदेशं दर्शयतम्।)

परिव्राजिका — देवि नैतन्न्याय्यम्। सर्वज्ञस्याप्येकाकिनो निर्णयाभ्युपगमो दोषाय।

देवी — (आत्मगतम्।) मुद्धे किं मं जग्गदिं वि सुत्तं विअ करेसि। (इति सासूयं परावर्तते।) (मुग्धे किं मां जाग्रतीमपि सुप्तामिव करोषि।) (राजा देवीं परिव्राजिकायै दर्शयति।)

परिव्राजिका — (विलोक्य।) अनिमित्तमिन्दुवदने किमत्रभवतः पराङ्मुखी भवसि। प्रभवन्त्योऽपि हि भर्तृषु कारणकोपाः कुटुम्बिन्यः॥१८॥

विदूषकः — णं कारणादो एव्व अत्तणो पक्खो रक्खिदव्वो त्ति। (गणदासं विलोक्य।) दिठ्ठिआ कोवव्वाएण देवीए परित्तादो भवं। सुसिक्खिदो वि सव्वो उवदेसदंसणे ण णिउणो होदि। (ननु कारणादेव आत्मनः पक्षो रक्षितव्य इति। दिष्ट्या कोपव्याजेन देव्या परित्रातो भवान्। सुशिक्षितोऽपि सर्व उपदेशदर्शने न निपुणो भवति।)

गणदासः — देवि श्रूयताम्। एवं जनो गृह्णाति। तदिदानीं विवादे दर्शयिष्यन्तं क्रियासङ्क्रान्तिमात्मनः। यदि मां नानुजानासि परित्यक्तोऽस्म्यहं त्वया॥१९॥

(आसनादुत्तिष्ठति।)

देवी — (स्वगतम्।) का गई। (प्रकाशम्।) पहवदि आअरिओ सिस्सअणस्स। (का गतिः। प्रभवत्याचार्यः शिष्यजनस्य।)

गणदासः — चिरमपदे शङ्कितोऽस्मि। (राजानमवलोक्य) अनुज्ञातं देव्या। तदाज्ञापयतु देवः। कस्मिन्नभिनेयवस्तुन्युपदेशं दर्शयिष्यामि।

राजा — यदादिशति भगवती।

परिव्राजिका — किमपि देव्या मनसि वर्तते। तच्छङ्कितास्मि।

देवी — भण विस्सद्धं। णं पहविस्सं अत्तणो परिअणस्स। (भण विस्रब्धम्। ननु प्रभविष्याम्यात्मनः परिजनस्य।)

राजा — मम चेति ब्रूहि।

देवी — भअवदि भण दाणिं। (भगवति भणेदानीम्।)

परिव्राजिका — चतुष्पदोद्भवं छलितं दुष्प्रयोजमुदाहरन्ति। तत्रैकार्थसंश्रयमुभयोः प्रयोगं पश्यामः। तावता ज्ञायत एवात्रभवतोरुपदेशान्तरम्।

उभौ — यदाज्ञापयति भगवती।

विदूषकः — तेण हि दुवे वि वग्गा पेक्खाघरए सङ्गीदरअणं कदुअ अत्तहोदो दूदं पेसअन्तु। अहवा मिअङ्गसद्दो एव्व णो उठ्ठावइस्सदि। (तेन हि द्वावपि वर्गौ प्रेक्षागृहे सङ्गीतरचनां कृत्वात्रभवतो दूतं प्रेषयताम्। अथवा मृदङ्गशब्द एव नो उत्थापयिष्यति।)

हरदत्तः — तथा। (इत्युत्तिष्ठति।) (गणदासो देवीं विलोकयति।)

देवी — ण खु विअअपच्चत्थिणी अहं अज्जस्स। विअई होहि। (न खलु विजय प्रत्यर्थिन्यहमार्यस्य। विजयी भव।)

(उभौ प्रस्थितौ।)

परिव्राजिका — इतस्तावदाचार्यौ।

उभौ — (परिवृत्य) इमौ स्वः।

परिव्राजिका — निर्णयाधिकारे ब्रवीमि। सर्वाङ्गसौष्ठवाभिव्यक्तये विरलनेपथ्ययोः पात्रयोः प्रवेशोऽस्तु।

आचार्यौ — नेदमावयोरुपदेश्यम्। (इति निष्क्रान्तौ।)

देवी — (राजानवमलोक्य।) जइ राअकज्जेसु वि ईरिसी उवाअणिउणदा अज्जउत्तस्स तदा सोहणं हवे। (यदि राजकार्येष्वपीदृश्युपायनिपुणतार्यपुत्रस्य तदा शोभनं भवेत्।)

राजा — देवि अलमन्यथा गृहीत्वा न खलु मनस्विनि मया प्रयुक्तमिदम्। प्रायः समानविद्याः परस्परयशः पुरोभागाः॥२०॥

(नेपथ्ये मृदङ्गशब्दः। सर्वे कर्णं ददति।)

परिव्राजिका — हन्त प्रवृत्तं सङ्गीतकम्। तथा ह्येषा जीमूस्तनितविशङ्किभिर्मयूरै- रुद्ग्रीवैरनुरसितस्य पुष्करस्य। निर्हादिन्युपहितमध्यमस्वरोत्था मायूरी मदयति मार्जना मनांसि॥२१॥

राजा — देवि सामाजिका भवामः।

देवी — (स्वगतम्) अहो अविणयो अज्जउत्तस्स। (अहो अविनय आर्यपुत्रस्य।) (सर्वे उत्तिष्ठन्ति)

विदूषकः — (अपवार्य।) भो वयस्स धीरं गच्छ। मा तत्तहोदी धारिणी विसंवादइस्सदि। (भो वयस्य धीरं गच्छ। मा तत्रभवती धारिणी विसंवादयिष्यति।)

राजा — धैर्यावलम्बिनमपि त्वरयति मां मुरजवाद्यरागोऽयम्। अवतरतः सिद्धिपथं शब्दः स्वमनोरथस्येव॥२२॥

(इति निष्क्रान्ताः सर्वे।)

(इति प्रथमोऽङ्कः।)

Act 2

द्वितीयोऽङ्कः। (ततः प्रविशति सङ्गीतरचनायां कृतायामासनस्थः सवयस्यो राजा धारिणी परिव्राजिका विभवतश्च परिवारः।)

राजा — भगवति अत्रभवतोराचार्ययोः कतरस्य प्रथममुपदेशं द्रक्ष्यामः।

परिव्राजिका — ननु समानेऽपि ज्ञानवृद्धभावे वयोवृद्धत्वाद्गणदासः पुरस्कारमर्हति।

राजा — तेन हि मौद्गल्य एवमत्रभवतोरावेद्य स्वनियोगमशून्यं कुरु।

कञ्चुकी — यदाज्ञापयति देवः। (इति निष्क्रान्तः)

(प्रविश्य) गणदासः — देव शर्मिष्ठायाः कृतिर्लयमध्या चतुष्पदा। तस्याश्चतुर्थवस्तुकं प्रयोगमेकमनाः श्रोतुमर्हति देवः।

राजा — आचार्य बहुमानादवहितोऽस्मि। (निष्क्रान्तो गणदासः।)

राजा — (जनान्तिकम्) वयस्य नेपथ्यगृहगतायाश्चक्षुर्दर्शनसमुत्सुकं तस्याः। संहर्तुमधीरतया व्यवसितमिव मे तिरस्करणीम्॥१॥

विदूषकः — (अपवार्य।) भो उवठ्ठिदं णअणमहु। सण्णिहिदअक्खिअं अ। ता अप्पमत्तो दाणिं पेक्खदु भवं। (भो उपस्थितं नयनमधु। सन्निहितमक्षिकं च। तदप्रमत्त इदानीं प्रेक्षतां भवान्।)

(ततः प्रविशत्याचार्यप्रत्यवेक्ष्यमाणाङ्गसौष्ठवा मालविका)

विदूषकः — (जनान्तिकम्) पेक्खदु भवं। ण खु से पडिच्छन्दादो परिहीअदि महुरदा। (प्रेक्षतां भवान्। न खल्वस्याः प्रतिच्छन्दात् परिह्रीयते मधुरता।)

राजा (जनान्तिकम्) — वयस्य चित्रगतायामस्यां कान्तिविसंवादशङ्कि मे हृदयम्। सम्प्रति शिथिलसमाधिं मन्ये येनेयमालिखिता॥२॥

गणदासः — वत्से मुक्तसाध्वसा सत्त्वस्था भव।

राजा (आत्मगतम्) — अहो सर्वस्थानानवद्यता रूपस्य। दीर्घाक्षं शरदिन्दुकान्ति वदनं बाहू नतावंसयोः सङ्क्षिप्तं निबिडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव। मध्यः पाणिमितो नितम्बि जघनं पादावरालाङ्गुली छन्दो नर्तयितुर्यथैव मनसि श्लिष्टं तथास्याः वपुः॥३॥

मालविका — (उपवहनं कृत्वा चतुष्पदं वस्तु गायति) दुल्लहो पिओ तस्सिं भव हिअअ णिरासं अम्हो अपङ्गओ मे पप्फुरइ किं वि वामओ। एसो सो चिरदिठ्ठो कहं उवणइदव्वो णाह मं पराहीणं तुइ गणअ सतिण्हं॥४॥ (इति यथारसमभिनयति।) (दुर्लभः प्रियस्तस्मिन् भव हृदय निराशम् अहो अपाङ्गको मे प्रस्फुरति किमपि वामकः। एष स चिरदृष्टः कथमुपनेतव्यो नाथ मां पराधीनां त्वयि गणय सतृष्णाम्॥)

विदूषकः (जनान्तिकम्) — भो वयस्स चउष्पदवत्थुअ दुवारीकदुअ तुइ उवक्खित्तो विअ अप्पा तत्तहोदीए। (भो वयस्य, चतुष्पदवस्तुकं द्वारीकृत्य त्वय्युपक्षित इवात्मा तत्रभवत्या।)

राजा (जनान्तिकम्) — सखे एवमावयोर्हृदयम्। अनया खलु जनमिममनुरक्तं विद्धि नाथेति गेये वचनमभिनयन्त्या स्वाङ्गनिर्देशपूर्वम्। प्रणयगतिमदृष्ट्वा धारिणीसन्निकर्षा- दहमिव सुकुमारप्रार्थनाव्याजमुक्तः॥५॥

(मालविका गीतान्ते निष्क्रमितुमिच्छति।)

विदूषकः — भोदि चिठ्ठ। किं वि वो विसुमरिदो कमभेदो। तं दाव पुच्छिस्सम्। (भवति तिष्ठ। किमपि वो विस्मृतः क्रमभेदः। तं तावत्प्रक्ष्यामि।)

गणदासः — वत्से स्थीयताम्। उपदेशविशुद्धा यास्यसि। (मालविका निवृत्य स्थिता।)

राजा (आत्मगतम्) – अहो सर्वास्ववस्थासु चारुता शोभां पुष्यति। तथा हि। वामं सन्धिस्तिमितवलयं न्यस्य हस्तं नितम्बे कृत्वा श्यामाविटपसदृशं स्रस्तमुक्तं द्वितीयम्। पादाङ्गुष्ठालुलितकुसुमे कुट्टिमे पातिताक्षं नृत्तादस्याः स्थितमतितरां कान्तमृज्वायतार्धम्॥६॥

देवी — णं गोदमवअणं वि अज्जो हिअए करेदि। (ननु गौतमवचनमप्यार्यो हृदये करोति)

गणदासः — देवि मा मैवम्। देवप्रत्ययात्सम्भाव्यते सूक्ष्मदर्शिता गौतमस्य। पश्य। मन्दोऽप्यमन्दतामेति संसर्गेण विपश्चितः। पङ्कच्छिदः फलस्येव निकषेणाविलं पयः॥७॥ (विदूषकं विलोक्य।) शृणुमो विवक्षितमार्यस्य।

विदूषकः (गणदासं विलोक्य।) — सक्खिणिं दाव पुच्छ। पच्छा जो मए कमभेदो लक्खिदो तं भणिस्सं। (साक्षिणीं तावत्पृच्छ। पश्चाद्यो मया क्रमभेदो लक्षितः तं भणिष्यामि।)

गणदासः — भगवति, यथादृष्टमभिधीयतां गुणो वा दोषो वा।

परिव्राजिका — यथादर्शनं सर्वमनवद्यम्। कुतः। अङ्गैरन्तर्निहितवचनैः सूचितः सम्यगर्थः पादन्यासो लयमनुगतस्तन्मयत्वं रसेषु। शाखायोनिर्मृदुरभिनयस्तद्विकल्पानुवृत्तौ भावो भावं नुदति विषयाद्रागबन्धः स एव॥८॥

गणदासः — देवः कथं मन्यते।

राजा — गणदास, स्वपक्षे शिथिलाभिमाना वयं संवृत्ताः।

गणदासः — अद्य नर्तयितास्मि। उपदेशं विदुः शुद्धं सन्तस्तमुपदेशिनः। श्यामायते न युष्मासु यः काञ्चनमिवाग्निषु॥९॥

देवी — दिठ्ठिआ परिक्खआराहणेण अहिअं वड्ढइ अज्जो। (दिष्ट्या परीक्षकाराधनेनाधिकं वर्धत आर्यः।)

गणदासः — देवीपरिग्रहश्च मे वृद्धिहेतुः। (विदूषकं विलोक्य।) गौतम, वदेदानीं यत्ते मनसि वर्तते।

विदूषकः — पुढमोवदेसदंसणे पुढमं बम्हणस्स पूआ कादव्वा। सा णं वो विसुमरिदा। (प्रथमोपदेशदर्शने प्रथमं ब्राह्मणस्य पूजा कर्तव्या। सा ननु वो विस्मृता।)

परिव्राजिका — अहो प्रयोगाभ्यन्तरः प्रश्नः।

विदूषकः — अइ पण्डितंमण्णे किं अण्णं। मोदअखण्डणे वि असमत्था तुमं किं जाणासि। पसण्णचन्दपादसरिसेहिं केसपासेहिं एदाणं भीसिअसि। (अयि पण्डितम्मन्ये, किमन्यत्। मोदकखण्डनेऽप्यसमर्था त्वं किं जानासि। प्रसन्नचन्द्रपादसदृशैः केशपाशैरेतान्भीषयसे।)

(सर्वे प्रहसिताः। मालविका च मन्दस्मितं करोति।)

राजा (आत्मगतम्) — उपात्तसारश्चक्षुषा मे स्वविषयः। यदनेन स्मयमानमायताक्ष्याः किंचिदभिव्यक्तदशनशोभि मुखम्। असमग्रलक्ष्यकेसर- मुच्छ्वसदिव पङ्कजं दृष्टम्॥१०॥

गणदासः — महाब्राह्मण, न खलु नेपथ्यसङ्गीतकमिदम्। अन्यथा कथं त्वामर्चनीयं नार्चयिष्यामः।

विदूषकः — मए णाम मुद्धचादएण विअ सुक्खघणगज्जिदे अन्दरिक्खे जलपाणं इच्छिदं। (मया नाम मुग्धचातकेनेव शुष्कघनगर्जितेऽन्तरिक्षे जलपानमिष्टम्।)

परिव्राजिका — एवमेव।

विदूषकः — भअवदि, पण्डिदपरिदोसप्पच्चआ णं मूढा जादी। जइ भअवदीए सोहणं भणिदं तदो इमं से पारितोसिअं पयच्छम्मि। (इति राज्ञो हस्तात्कटकमाकर्षति।) (भगवति, पण्डितपरितोषप्रत्यया ननु मूढा जातिः। यदि भगवत्या शोभनं भणितं तत इदमस्यै पारितोषिकं प्रयच्छामि।)

देवी — चिट्ठ चिट्ठ। गुणन्तरं अआणन्तो किंति तुमं आहरणं देसि। (तिष्ठ तिष्ठ। गुणान्तरमजानन्किमिति त्वमाभरणं ददासि।)

विदूषकः — परकेरअं ति कदुअ। (परकीयमिति कृत्वा।)

देवी (आचार्यं विलोक्य) — अज्ज गणदास, णं दंसिदोवदेसा वो सिस्सा। (आर्य गणदास, ननु दर्शितोपदेशा वः शिष्या।)

गणदासः — वत्से प्रतिष्ठस्वेदानीम्। (मालविका सहाचार्येण निष्क्रान्ता।)

विदूषकः — (राजानं विलोक्य। जनान्तिकम्।) एत्तिओ मे मदिविहवो भवन्तं सेविदुम्। (एतावान्मे मतिविभवो भवन्तं सेवितुम्।)

राजा (जनान्तिकम्।) — अलमलं परिच्छेदेन। अद्य हि भाग्यास्तमयभिवाक्ष्णोर्हृदयस्य महोत्सवावसानमिव। द्वारपिधानमिव धृतेर्मन्ये तस्यास्तिरस्करणम्॥११॥

विदूषकः — साहु तुमं दरिद्दो आदुरो विअ वेज्जेण उवणिज्जमाणं ओसहं इच्छसि। (साधु त्वं दरिद्र आतुर इव वैद्येनोपनीयमानमौषधमिच्छसि।)

(प्रविश्य।) हरदत्तः — देव मदीयमिदानीमुपदेशमवलोकयितुं क्रियतां प्रसादः।

राजा (आत्मगतम्।) — अवसितो मे दर्शनार्थः। (दाक्षिण्यमवलम्ब्य। प्रकाशम्।) हरदत्त, ननु पर्युत्सुका एव वयम्।

हरदत्तः — अनुगृहीतोऽस्मि।

वैतालिकः — (नेपथ्ये) विजयतां देवः। उपारूढौ मध्याह्नः। तथाहि। पत्रच्छायासु हंसा मुकुलितनयना दीर्घिकापद्मिनीनां सौधान्यत्यर्थतापाद्वलभिपरिचयद्वेषिपारावतानि। बिन्दूत्क्षेपान्पिपासुः परिपतति शिखी भ्रान्तिमद्वारियन्त्रं सर्वैरुस्रैः समग्रस्त्वमिव नृपगुणैर्दीप्यते सप्तसप्तिः॥१२॥

विदूषकः — अविहा अविहा। बम्हणस्स भोअणवेला संवृत्ता। अत्तहोदो वि। उइदवेलादिक्कमे चिकिस्सआ दोसं उदाहरन्ति। हरदत्त किं दाणिं भणसि। (अविहा अविहा। ब्राह्मणस्य भोजनवेला संवृत्ता। अत्रभवतोऽपि। उचितवेलातिक्रमे चिकित्सका दोषमुदाहरन्ति। हरदत्त, किमिदानीं भणसि।)

हरदत्तः — नास्ति मे वचनस्यान्यस्यावकाशोऽत्र।

राजा (हरदत्तमवलोक्य।) — तेन हि त्वदीयमुपदेशं श्वो वयं द्रक्ष्यामः। विश्राम्यतु भवान्।

हरदत्तः — यदाज्ञापयति देवः। (इति निष्क्रान्तः।)

देवी — णिव्वत्तेदु अज्जउत्तो मज्जणविहिं। (निर्वर्तयत्वार्यपुत्रो मज्जनविधिम्।)

विदूषकः — होदि, विसेसेण भोअणं तुवरावेदु। (भवति, विशेषेण भोजनं त्वरयतु।)

परिव्राजिका (उत्थाय।) — स्वस्ति भवते। (इति सपरिजनया देव्या सह निष्क्रान्ता)

विदूषकः — भो ण केवलं रूवे सिप्पे वि अद्दुदीया मालविआ। (भोः न केवलं रूपे शिल्पेऽप्यद्वितीया मालविका।)

राजा — वयस्य अव्याजसुन्दरीं तां विज्ञानेन ललितेन योजयता। परिकल्पितो विधात्रा बाणः कामस्य विषदिग्धः॥१३॥ किं बहुना, चिन्तयितव्योऽस्मि ते।

विदूषकः — भवदा वि अहं। दिढं खु विवणिकन्दू विअ उअरब्भन्दरं डज्झइ। (भवताप्यहम्। दृढं खलु विपणिकन्दुरिवोदराभ्यन्तरं दह्यते।)

राजा — एवमेव भवान् सुहृदर्थे त्वरताम्।

विदूषकः — गहिदक्खणोम्हि। किं दु मेहावलीरुद्धजोह्णा विअ पराहीणदंसणा तत्तहोदी मालविआ। भवं वि सूणोवरिअरो गिद्धो विअ आमिसलोलुओ भीरुओ अ। ता अणादुरो भविअ कज्जसिद्धिं पत्थयन्तो मे रुच्चइ। (गृहीतक्षणोऽस्मि। किं तु मेघावलीरुद्धज्योत्स्नेव पराधीनदर्शना तत्रभवती मालविका। भवानपि सूनोपरिचरो गृध्र इव आमिषलोलुपो भीरुकश्च। तस्मादनातुरो भूत्वा कार्यसिद्धिं प्रार्थयमानो मे रोचसे।)

राजा — सखे कथमनातुरो भविष्यामि। यदा सर्वान्तःपुरवनिताव्यापारं प्रति निवृत्तहृदयस्य। सा वामलोचना मे स्नेहस्यैकायनीभूता॥१४॥

(इति निष्क्रान्ताः सर्वे।)

इति द्वितीयोऽङ्कः।

Act 3

तृतीयोऽङ्कः।

(ततः प्रविशति परिव्राजिकायाः परिचारिका।)

परिचारिका — आणत्तम्हि भअवदीए। उवाअणत्थं बीजपूरअं गेव्हिअ आअच्छत्ति। ता जाव पमदवणपालिअं महुअरिअं अण्णेसामि। (परिक्रम्य अवलोक्यं च।) एसा तवणीआसोअं ओलोअन्ती चिट्ठइ। जाव णं उवसप्पे। (आज्ञप्तास्मि भगवत्या। 'उपायनार्थं बीजपूरकं गृहीत्वागच्छ' इति। तद्यावत् प्रमदवनपालिकां मधुकरिकामन्विष्यामि। एषा तपनीयाशोकमवलोकयन्ती तिष्ठति। यावदेनामुपसर्पामि।)

(ततः प्रविशत्युद्यानपालिका।)

परभृतिका — (उपसृत्य।) महुअरिए अवि सुहो दे उज्जाणव्वावारो। (मधुकरिके, अपि सुखस्त उद्यानव्यापारः।)

मधुकरिका — अम्मो परहुदिआ। सहि साअदं दे। (अम्मो परभृतिका। सखि स्वागतं ते।)

परभृतिका — हला भअवदी आणवेदि अरित्तपाणिणा अम्हारिसजणेण तत्तहोदी देवी देक्खिदव्वा। ता बीजपूरएण सुस्सूसिदुं इच्छम्मित्ति। (हला, भगवत्याज्ञापयति 'अरिक्तपाणिनास्मादृशजनेन तत्रभवती देवी द्रष्टव्या। तद्बिजपूरकेण शुश्रूषितुमिच्छामि' इति।)

मधुकरिका — णं सण्णिहिदं एव्व बीजपूरअं। कहेहि दाव अण्णोण्णसङ्घरिसिदाणं णट्टाअरिआणं उवदेसं देक्खिअ कदरो भअवदीए पसंसिदो। (ननु सन्निहितमेव बीजपूरकम्। कथय तावदन्योन्यसङ्घर्षितयोर्नाट्याचार्ययोरुपदेशं दृष्ट्वा कतरो भगवत्या प्रशंसितः।)

परभृतिका — दुवे वि किल आअमिणो पओअणिउणा अ। किंदु सिस्सागुणविसेसेण उण्णमिदो गणदासो। (द्वावपि किलागमिनो प्रयोगनिपुणौ च। किं तु शिष्यागुणविशेषेण उन्नमितो गणदासः)

मधुकरिका — अह मालविआगदं कोलीणं कहं सुणीअदि। (अथ मालविकागतं कौलीनं कथं श्रूयते।)

परभृतिका — बलिअं खु साहिलासो भट्टा तस्सिं। केवलं देवीए धारिणीए चित्तं रक्खन्तो अत्तणो पहुत्तणं ण दंसेदि। मालविआ वि इमेसु दिअहेसु अणुहूदमुत्ता विअ मालदीमाला मिलायमाणा लक्खिअदि। अदो वरं ण आणे। विसज्जेहि मं। (बलवत् खलु साभिलाषो भर्ता तस्याम्। केवलं देव्या धारिण्याश्चित्तं रक्षन्नात्मनः प्रभुत्वं न दर्शयति। मालविकाप्येषु दिवसेष्वनुभूतमुक्तेव मालतीमाला म्लायमाना लक्ष्यते। अतः परं न जाने। विसर्जय माम्।)

मधुकरिका — एदं साहावलम्बि बीजपूरअं गेह्ण। (एतच्छाखावलम्बि बीजपूरकं गृहाण।)

परभृतिका — (नाट्येन गृहीत्वा) हला तुमं वि इदो वरं पेसलअरं साहुअणसुस्सूसाए फलं पाविदा होहि। (हला त्वमपि इतः परं पेशलतरं साधुजनशुश्रूषायाः फलं प्राप्ता भव।)

(इति प्रस्थिता।)

मधुकरिका — सहि समं एव्व गच्छम्ह। अहं वि इमस्स चिराअमाणकुसुमुग्गमस्स तवणीआसोअस्स दोहदणिमित्तं देवीए विण्ण वेमि। (सखि सममेव गच्छावः। अहमप्यस्य चिरायमाणकुसुमोद्गमस्य तपनीयाशोकस्य दोहदनिमित्तं देव्यै विज्ञापयामि।)

परभृतिका — जुज्जइ। अहिआरो खु तुह। (युज्यते! अधिकारः खलु तव।) (इति निष्क्रान्ते।)

प्रवेशकः। (ततः प्रविशति कामयमानावस्थो राजा विदूषकश्च।)

राजा — (आत्मानं विलोक्य) शरीरं धामं स्यादसति दयितालिङ्गनसुखे भवेत्सास्रं चक्षुः क्षणमपि न सा दृश्यत इति। तया सारङ्गाक्ष्या त्वमसि न कदाचिद्विरहितं प्रसक्ते निर्वाणे हृदय परितापं वहसि किम्॥१॥

विदूषकः — अलं भवदो धीरदं उज्झिअ परिदेविदेण। दिट्ठा मए तत्तहोदीए मालविआए पिअसही बउलावलिआ। सुणाविदा अ मए जं भवदा सन्दिट्ठ। (अलं भवतो धीरतामुज्झित्वा परिदेवितेन। दृष्टा मया तत्रभवत्या मालविकायाः प्रियसखी बकुलावलिका। श्राविता च मया यद्भवता सन्दिष्टम्।)

राजा — ततः किमुक्तवती।

विदूषकः — विण्णवेहि भट्टारं। अणुगहीदम्हि इमिणा णिओएण। किं दु सा तवस्सिणी देवीए अहिअदरं रक्खिअमाणा णाअरक्खिदोविअ णिहीण सुहं समासादइदव्वा भविस्सदि। तह वि घडइस्सं ति। (विज्ञापय भर्तारम्। 'अनुगृहीतास्मि अनेन नियोगेन। किं तु सा तपस्विनी देव्या अधिकतरं रक्ष्यमाणा नागरक्षित इव निधिर्न सुखं समासादयितव्या भविष्यति। तथापि घटयिष्यामि' इति।)

राजा — भगवन् सङ्कल्पयोने, प्रतिबन्धवत्स्वपि विषयेष्वभिनिवेश्य तथा प्रहरसि यथा जनोऽयं कालान्तरक्षमो न भवति। (सविस्मयं) क्व रुजा हृदयप्रमाथिनी क्व च ते विश्वसनीयमायुधम्। मृदु तीक्ष्णतरं यदुच्यते तदिदं मन्मथ दृश्यते त्वयि॥२॥

विदूषकः — णं भणामि तस्सिं साहणिज्जे कज्जे किदो मए उवाओवक्खेवो। ता पज्जवत्थावेदु भवं अत्ताणं। (ननु भणामि तस्मिन् साधनीये कार्ये कृतो मयोपायोपक्षेपः। तत्पर्यवस्थापयतु भवानात्मानम्।)

राजा — अथेमं दिवसशेषमुचितव्यापारविमुखेन चेतसा क न खलु यापयामि।

विदूषकः — णं भवं अज्ज पुढमं वसन्दावदारसूअआइं रत्तासोअकोरआइं उवाअणं पेसिअ प्पववसन्दूसवावदेसेण इरावदीए णिउणिआमुहेण पत्थिदो। इच्छामि अज्जउत्तेण सह डोलाहिरोहणं अणुहोदुं ति। भवदा वि से पडिण्णादं। ता पमदवणं एव्व गच्छम्ह। (ननु भवानद्यं प्रथमं वसन्तावतारसूचकानि रक्ताशोककोरकाण्युपायनं प्रेष्य नववसन्तोत्सवापदेशेन इरावत्या निपुणिकामुखेन प्रार्थितः 'इच्छाम्यार्यपुत्रेण सह दोलाधिरोहणमनुभवितुम्' इति। भवताप्यस्यै प्रतिज्ञातम्। तत्प्रमदवनमेव गच्छावः।)

राजा — न क्षममिदम्।

विदूषकः — कहं विअ। (कथमिव।)

राजा — वयस्य निसर्गनिपुणाः स्त्रियः। कथं मामन्यसङ्क्रान्तहृदयमुपलालयन्तमपि ते सखी न लक्षयिष्यति। अतः पश्यामि। उचितः प्रणयो वरं विहन्तुं बहवः खण्डनहेतवो हि दृष्टाः। उपचारविधिर्मनस्विनीनां न तु पूर्वाभ्यधिकोऽपि भावशून्यः॥३॥

विदूषकः — णारुहदि भवं सव्वं अन्देउरपडिट्ठिदं दक्खिण्णं एक्कपदे पिट्ठदो कादुं। (नार्हति भवान् सर्वमन्तःपुरप्रतिष्ठितं दाक्षिण्यमेकपदे पृष्ठतः कर्तुम्।)

राजा — (विचिन्त्य) तेन हि प्रमदवनमार्गमादेशय।

विदूषकः — इदो इदो भवं। (इत इतो भवान्।)

(उभौ परिक्रामतः।)

विदूषकः — णं एदं पमदवणं पवणचलिदाहिं पल्लवंगुलीहिं तुअरावेदि विअ भवन्दं। ता पविसदु भवं। (नन्वेतत्प्रमदवनं पवनचलिताभिः पल्लवाङ्गुलीभिस्त्वरयतीव भवन्तम्। तत्प्रविشतु भवान्।)

राजा — (स्पर्शसुखं रूपयित्वा।) अभिजातः खलु वसन्तः। सखे पश्य आमत्तानां श्रवणसुभगैः कूजितैः कोकिलानां सानुक्रोशं मनसिजरुजः सह्यतां पृच्छतेव। अङ्गे चूतप्रसवसुरभिर्दक्षिणो मारुतो मे सान्द्रस्पर्शः करतल इव व्यापृतो माधवेन॥४॥

विदूषकः — एहि। पविस णिव्वुदिलाहाअ। (एहि। प्रविश निर्वृतिलाभाय।) (उभौ प्रविशतः।)

विदूषकः — भो वअस्स अवहाणेण दिठ्ठिं देहि। एदं खु भवन्दं विलोहइदुकामाए पमदवणलच्छीए जुवइवेसलज्जत्तअं वसंदकुसुमणेवत्थं गहिदं। (भो वयस्य अवधानेन दृष्टिं देहि। एतत्खलु भवन्तं विलोभयितुकामया प्रमदवनलक्ष्म्या युवतिवेषलज्जयितृकं वसन्तकुसुमनेपथ्यं गृहीतम्।)

राजा — ननु विस्मयादवलोकयामि। रक्ताशोकरुचा विशेषितगुणो बिम्बाधरालक्तकः प्रत्याख्यातविशेषकं कुरबकं श्यामावदातारुणम्। आक्रान्ता तिलकक्रियापि तिलकैर्लग्नद्विरेफाञ्जनैः सावज्ञेव मुखप्रसाधनविधौ श्रीर्माधवी योषिताम्॥५॥

(उभौ उद्यानशोभां निरूपयतः।) (ततः प्रविशति पर्युत्सुका मालविका।)

मालविका — अविण्णादहिअअं भट्टारं अहिलसन्ती अत्तणो वि दाव लज्जेमि। कुदो विहवो सिणिद्वसहिअणस्स इमं वुत्तन्तं आअक्खिदुं। ण आणे अप्पडीआरगरुअ वेणं केत्तिअं कालंमअणो मं णइस्सदि। (कतिचिन्पदानि गत्वा।) कहिं णु खु पत्थिदम्ही। (विचिन्त्य) आं सन्दिट्ठिंम्हि देवीए जह 'मालविए गोदमचावलादो डोलापरिब्भट्ठाए सरुजा मह चलणा। तुमं दाव तवणीआसोअस्स दोहलं णिव्वट्ठेहि। जइ सो पञ्चरत्तब्भन्दरे कुसुमं दंसेदि तदो अहं तुह (अन्तरा निश्वस्य) अहिलासपूरइत्तअं पसादं दाइस्सं' ति। ता जाव णिओअभूमिं पुढमं गदा होमि। जाव अणुपदं मह चलणालङ्कारहत्थाए बउलावलिआए आअन्तव्वं। परिदेविस्सं दाव विस्सद्धं मुहुत्तअं। (इति परिक्रामति) (अविज्ञातहृदयं भर्तारमभिलषन्त्यात्मनोऽपि तावल्लजे। कुतो विभवः स्निग्धसखीजनस्येमं वृत्तान्तमाख्यातुम्। न जाने अप्रतीकारगुरुकां वेदनां कियन्तं कालं मदनो मां नेष्यति। कुत्र नु खलु प्रस्थितास्मि। आम् सन्दिष्टास्मि देव्या यथा 'मालविके गौतमचापलाद् दोलापरिभ्रष्टायाः सरुजौ मम चरणौ। त्वं तावत्तपनीयाशोकस्य दोहदं निर्वर्तय। यदि स पञ्चरात्राभ्यन्तरे कुसुमं दर्शयति ततोऽहं तव (अन्तरा निःश्वस्य) अभिलाषपूरयितृकं प्रसादं दास्यामि' इति। तद्यावन्नियोगभूमिं प्रथमं गता भवामि। यावदनुपदं मम चरणालङ्कारहस्तया बकुलावलिकया आगन्तव्यम्। परिदेविष्ये तावद् विस्रब्धं मुहूर्तकम्।)

विदूषकः — (दृष्ट्वा) ही ही इअं खु सीहुपाणुव्वेजिदस्स मच्छण्डिआ उवणदा। (ही ही इयं खलु शीधुपानोद्वेजितस्य मत्स्यण्डिका उपनता।)

राजा — अये किमेतत्।

विदूषकः — एसा खु णादिपज्जत्तवेसा पज्जूहुआ विअ एआइणी मालविआ अदूरे वट्टइ। (एषा खलु नातिपर्याप्तवेषा पर्युत्सुकेव एकाकिनी मालविका अदूरे वर्तते।)

राजा — (सहर्षम्) कथं मालविका।

विदूषकः — अह इं। (अथ किम्)

राजा — शक्यमिदानीमात्मानमवलम्बितुम्। त्वदुपलभ्य समीपगतां प्रियां हृदयमुच्छ्वसितं मम विक्लवम्। तरुदृतं पथिकस्य पिपासतः सलिलमारसितादिव सारसात्॥६॥ अथ क्व तत्रभवती।

विदूषकः — एषा णं तरुराइमज्झादो णिक्कन्ता इदो एव्व परिवट्टन्ती दीसह। (एषा ननु तरुराजिमध्यान्निष्क्रान्ता इत एव परिवर्तमाना दृश्यते।)

राजा — सखे पूर्वस्मादवस्थान्तरमुपारूढा तत्रभवती। तथा हि। शरकाण्डपाण्डुगण्डस्थलेयमाभाति परिमिताभरणा। माधवपरिणतपत्रा कतिपयकुसुमेव कुन्दलता॥८॥

विदूषकः — एसा वि भवं विअ मअणव्वाहिणा परमिठ्ठा भविस्सदि। (एषापि भवानिव मदनव्याधिना परामृष्टा भविष्यति।)

राजा — सौहार्दमेवं पश्यति।

मालविका — अअं सो सुउमार दोहलावेख्खी अगहिदकुसुमणेवत्थो उक्कण्ठिदं मं अणुकरेदि असोओ। जाव से पच्छाअसीदले सिलापट्टए णिसण्णा अत्ताणं विणोदेमि। (अयं स सुकुमारदोहदापेक्षी अगृहीतकुसुमनेपथ्य उत्कण्ठितां मामनुकरोत्यशोकः। यावदस्य प्रच्छायशीतले शिलापट्टके निषण्णात्मानं विनोदयामि।)

विदूषकः — सुदं भवदा उक्कण्ठिदहित्तिं तत्तहोदीए मन्तिदं। (श्रुतं भवता उत्कण्ठितास्मीति तत्रभवत्या मन्त्रितम्।)

राजा — नैतावता भवन्तं प्रसन्नतर्कं मन्ये। कुतः। वोढा कुरबकरजसां किसलयपुटभेदशीकरानुगतः। अनिमित्तामुत्कण्ठामपि जनयति मलयवातोऽयम्॥९॥

(मालविका उपविष्टा।)

राजा — वयस्य इतस्तावदावां लतान्तरितौ भवावः।

विदूषकः — इरावदिं विअ अदूरे समत्येमि। (इरावतीमिवादूरे समर्थये।)

राजा — न हि कमलिनीं दृष्ट्वा ग्राहमवेक्षते मतङ्गजः। (इति विलोकयन्स्थितः।)

मालविका — हिअअ णिरबलम्बादो मणोरहादो विरम। किं मं आआसेसि। (हृदय निरवलम्बान्मनोरथाद्विरम। किं मामायासयसि।)

(विदूषकः राजानमवेक्षते।)

राजा — (आत्मगतम्) प्रिये पश्य वामतां स्नेहस्य। औत्सुक्यहेतुं विवृणोषि न त्वं तत्वावबोधैकरसो न तर्कः। तथापि रम्भोरु करोमि लक्ष्य- मात्मानमेषां परिदेवितानाम्॥१०॥

विदूषकः — सम्पदं भवदो णिस्संसअं भविस्सदि। एसा अप्पिदमअणसन्देसा विवित्ते णं बउलावलिआ उवठ्ठिदा। (सांप्रतं भवतो निःसंशयं भविष्यति। एषार्पितमदनसन्देशा बिविते ननु बकुलावलिकोपस्थिता।)

राजा — अपि स्मरेदस्मदभ्यर्थनाम्।

विदूषकः — किं दाणिं एसा दासीए सुदा तुह गरुअं सन्देसं विसुमरिस्सदि। अहं वि दाव दाणिं एदं ण विसुमरेमि। (किमिदानीमेषा दास्याः सुता तव गुरुकं सन्देशं विस्मरिष्यति। अहमपि तावदिदानीमेतं न विस्मरामि।)

(प्रविश्य चरणालङ्कारहस्ता बकुलावलिका।)

बकुलावलिका — अवि सुहं सहीए। (अपि सुखं सख्याः।)

मालविका — अम्मो बउलावलिआ। सहि साअदं दे। उवविस। (अम्भो बकुलावलिका। सखि स्वागतं ते। उपविश।)

बकुलावलिका — (उपविश्य) हला तुमं दाव दाणिं देवीए जोग्गदाए णिउत्ता। ता एक्कं दे चलणं उबणेहि। जाव सालत्तअं सणेउरं करेमि। (हला त्वं तावदिदानीं देव्या योग्यतया नियुक्ता। तदेकं ते चरणमुपनय। यावत्सालत्ककं सनूपुरं करोमि।)

मालविका — (स्वगतम्) हिअअ अलं सुहिददाए अअं विहवो उवठ्ठिदोत्ति। कहं दाणिं अत्ताणं मोचएअं। अहवा एदं एव्व मह मिच्चुमण्डणं भविस्सदि। (हृदय अलं सुखिततया अयं विभव उपस्थित इति। कथमिदानीमात्मानं मोचयेयम्। अथवा एतदेव मे मृत्युमण्डनं भविष्यति।)

बकुलावलिका — किं विआरेसि। उस्सुआ खु एदस्स तवणींआसोअस्स कुसुमुग्गमे देवी। (किं विचारयसि। उत्सुका खल्वेतस्य तपनीयाशोकस्य कुसुमोद्गमे देवी।)

राजा — कथमशोकदोहदनिमित्तोऽयमारम्भः।

विदूषकः — किं णु खु ण आणासि अकालणादो देवी इमं अन्देउरणेवत्थेण ण संजोअइस्सदित्ति। (किं नु खलु न जानासि अकारणाद्देवी इमां अन्तःपुरनेपथ्येन न संयोजयिष्यतीति।)

मालविका — (पादमुपहरन्ती) हला मरिसेहि दाणिं। (हला मर्षयेदानीम्।)

बकुलावलिका — अयि शरीरं सि मे। (नाट्येन चरणालङ्कारमारभते।) (अयि शरीरमसि मे।)

राजा — चरणान्तानिवेशितां प्रियायाः सरसां पश्य वयस्य रागरेखाम्। प्रथमामिव पल्लवप्रसूतिं हरदग्धस्य मनोभवद्रुमस्य॥११॥

विदूषकः — चलणाणुरूवो खु तत्तहोदीए अहिआरो उवक्खित्तो। (चरणानुरूपः खलु तत्रभवत्या अधिकार उपक्षिप्तः।)

राजा — सम्यगभिहितं भक्ता। नवकिसलयरागेणाग्रपादेन बाला स्फुरितनखरुचा द्वौ हन्तुमर्हस्यनेन। अकुसुमितमशोकं दोहदापेक्षया वा प्रणिहितशिरसं वा कान्तमार्द्रापराधम्॥१२॥

विदूषकः — पारइस्ससि तत्तहोदीए अवरद्धुं। (पारयिष्यसि तत्रभवत्या अपराद्धुम्।)

राजा — प्रतिगृहीतं वचः सिद्धिदर्शिनो ब्राह्मणस्य।

(ततः प्रविशति युक्तमदा इरावती चेटी च।)

इरावती — हञ्जे णिउणिए सुणामि बहुसो मदो किल इत्थिआजणस्स विसेसमण्डणं ति। अवि सञ्चो अअं लोअवादो। (हञ्जे निपुणिके शृणोमि बहुशो मदः किल स्त्रीजनस्य विशेषमण्डनमिति। अपि सत्योऽयं लोकवादः।)

निपुणिका — पुढमं लोअवादो एव्व। अज्ज उण सञ्चो संवुत्तो। (प्रथमं लोकवाद एव। अद्य पुनः सत्यः संवृत्तः।)

इरावती — अलं मइ सिणेहेण। कुदो दाणिं अवगदं डोलाधरं पुढमं गदो भट्टत्ति। (अलं मयि स्नेहेन। कुत इदानीमवगतं दोलागृहं प्रथमं गतो भर्तेति।)

निपुणिका — भट्टिणीए अखण्डिदादो पणआदो। (भट्टिन्या अखण्डितात्प्रणयात्।)

इरावती — अलं सेवाए। मज्झत्थदं गेण्हिअ भणाहि। (अलं सेवया। मध्यस्थतां गृहीत्वा भण।)

निपुणिका — वसन्दोवाअणलोलुवेण अज्जगोदमेण कहिदं। तुवरदु भट्टिणी। (वसन्तोपायनलोलुपेनार्यगौतमेन कथितम्। त्वरतां भट्टिनी।)

इरावती — (अवस्थासदृशं परिक्रम्य।) हञ्जे मएण मिलाअमाणं मं अज्जउत्तदंसणे हिअअं तुवरावेदि। चलणा उण मग्गे ण प्पसरन्ति। (हञ्जे मदेन म्लायमानां मामार्यपुत्रदर्शने हृदयं त्वरयति। चरणौ पुनमार्गे न प्रसरतः।)

निपुणिका — णं सम्पत्तम्ह डोलाघरअं। (ननु संप्राप्ते स्वो दोलागृहम्।)

इरावती — णिउणिए ण एत्थ अज्जउत्तो दीसइ। (निपुणिके नात्रार्यपुत्रो दृश्यते।)

निपुणिका — ओलोएदु भट्टिणी। परिहासणिमित्तं कहिं वि गूढेण भट्टिणा होदव्वं। अम्हे वि इमं पिअङ्गुलदापरिक्खित्तं असोअसिलापट्टअं पविसम्ह। (अवलोकयतु भट्टिनी। परिहासनिमित्तं कुत्रापि गूढेन भर्त्रा भवितव्यम्। आवामपीमं प्रियङ्गुलतापरिक्षिप्तमशोकशिलापट्टकं प्रविशावः।)

(इरावती तथा करोति।)

निपुणिका — (परिक्रम्य विलोक्य।) ओलोएदु भट्टिणी। चूदङ्कुरंविइण्णन्तीणं अम्हाणं पिपीलिआहिं दठ्ठं। (अवलोकयतु भट्टिनी। चूताङ्कुरं विचिन्वत्योरावयोः पिपीलिकामिर्दष्टम्।)

इरावती — किं विअ एदं। (किमिवैतत्।)

निपुणिका — एसा बउलावलिआ असोअपाअवच्छाआए मालविआए चलणालङ्कारं णिव्वट्टेदि। (एषा बकुलाबलिका अशोकवृक्षच्छायायां मालविकायाश्चरणालङ्कारं निर्वर्तयति।)

इरावती — (शङ्कां रूपयित्वा।) अबूमी इअं मालविआए। किं तक्केसि। (अभूमिरियं मालविकायाः। किं तर्कयसि।)

निपुणिका — तक्केमि डोलापरिब्भट्टाए सलुजचलणाए असोअदोहलाहिआरे णिउत्ता मालविअत्ति। अण्णहा कहं देवी सअं धारिदं णेउरजुअलं परिकअणस्स अणुजाणिस्सदि। (तर्कयामि दोला-परिभ्रष्टया-सरुजचरणया देव्या अशोकदोहदाधिकारे नियुक्ता मालविकेति। अन्यथा कथं देवी स्वयं धारितं नूपुरयुगलं परिजनस्यानुशास्यति)

इरावती — महदी खु से सम्भावणा। (महती खल्वस्याः सम्भावना।)

निपुणिका — किं उण ण अण्णेसीअदि भट्टा। (किंपुनर्नान्विष्यते भर्ता।)

इरावती — हंजे मे चलणा अण्णदो ण प्पवट्टन्ति। मणो वि किं वि विआरेदि। आसङ्किदस्स दाव अन्तं गमिस्सं। (मालविकां निर्वर्ण्य आत्मगतम्।) ठाणे खु कादरं मे हिअअं। (हञ्जे मे चरणावन्यतो न प्रवर्तेते। मनोऽपि किमपि विचारयति। आशङ्कितस्य तावदन्तं गमिष्यामि। स्थाने खलु कातरं मे हृदयम्।)

बकुलावलिका — (चरणं दर्शयन्ती।) हला मालविए अवि रोअदि दे अअं चलणराअरेहाविण्णासो। (हला मालविके अपि रोचते तेऽयं चरणरागरेखाविन्यासः।)

मालविका — अत्तणो चलणगदोत्ति लज्जेमि णं पसंसिदुं। कहेहि केण पसाहणकलाए अहिविणीदासि। (आत्मनश्वरणगत इति लज्जे एनं प्रशंसितुम्। कथय केन प्रसाधनकलायामभिविनीतासि।)

बकुलावलिका — एत्थ खु भट्टिणो सिस्सम्हि। (अत्र खलु भर्तुः शिष्यास्मि।)

विदूषकः — तुवरेहि दाणिं गुरुदक्खिणाए। (त्वरस्वेदानीं गुरुदक्षिणायै।)

मालविका — दिट्ठिआ ण गव्विदासि। (दिष्टया न गर्वितासि।)

बकुलावलिका — उवदेसाणुरूवे चलणे लम्भिअ दाणिं गव्विदा भविस्सं। (स्वगतम्।) हन्त सिद्धं मे दोषं। (रागं विलोक्य प्रकाशम्।) सहि एक्कल्स दे चलणस्स अवसिदो राअणिक्खेवो।केवलं मुहमारुदो लम्भइदव्वो। अहवा पवादो एव्व अअं पदेसो। (उपदेशानुरूपे चरणे लब्ध्वा इदानीं गर्विता भविष्यामि। हन्त, सिद्धं मे दौत्यम्। सखि एकस्य ते चरणस्यावसितो रागनिक्षेपः। केवलं मुखमारुतो लम्भयितव्यः। अथवा प्रवात एवायं प्रदेशः।)

राजा — सखे पश्य पश्य। आर्द्रालक्तकमस्याश्चरणं मुखमारुतेन वीजयितुम्। प्रतिपन्नः प्रथमतरः सम्प्रति सेवावकाशो मे॥१३॥

विदूषकः — कुदो दे अणुसओ। चिरं भवदा एदं कमेण अणुहोदव्वं। (कुतस्तेऽनुशयः। चिरं भवतैतत्क्रमेण अनुभवितव्यम्।)

बकुलावलिका — सहि अरुणसदपत्तं विअ सोहदि दे चलणं। सव्वहा भट्टिणो अङ्कपरिवट्टिणी होहि। (सखि अरुणशतपत्रमिव शोभते ते चरणम्। सर्वथा भर्तुरङ्कपरिवर्तिनी भव।)

(इरावती निपुणिकामुखमवेक्षते।)

राजा — ममेयमाशीः।

मालविका — हला अवअणीअं मन्तेसि। (हला अवचनीयं मन्त्रयसे।)

बकुलावलिका — मन्तिदव्वं एव्व मए मन्तिदं। (मन्त्रयितव्यमेव मया मन्त्रितम्।)

मालविका — पिआ खु अहं तुह। (प्रिया खल्वहं तव।)

बकुलावलिका — ण केवलं मह। (न केवलं मम)

मालविका — कस्स वा अण्णस्स। (कस्य वान्यस्य।)

बकुलावलिका — गुणेसु अहिणिवेसिणो भट्टिणो वि। (गुणेष्वभिनिवेशिनो भर्तुरपि।)

मालविका — अलिअं मन्तासि। एदं एव्व मइ णत्थि। (अलीकं मन्त्रयसे। एतदेव मयि नास्ति।)

बकुलावलिका — सञ्चं तुइ णत्थि। भट्टिणो किसे सुन्दरपण्डुरेसु अङ्गेसुदीसइ। (सत्यं त्वयि नास्ति। भर्तुः कृशेषु सुन्दरपाण्डुरेष्वङ्गेषु दृश्यते।)

निपुणिका — पुढमगणिदं विअ हृदासाए उत्तरं। (प्रथमगणितमिव हताशाया उत्तरम्।)

बकुलावलिका — अणुराओ अणुराएण परिक्खिदव्वोत्ति सुअणवअणं पमाणीकरेहि। (अनुरागोऽनुरागेण परीक्षितव्य इति सुजनववचनं प्रमाणीकुरु।)

मालविका — किं अत्तणो छन्देण मन्तेसि। (किमात्मनश्छन्देन मन्त्रयसे।)

बकुलावलिका — णहि णहि। भट्टिणो खु एदाइं पणअमउआइं बिम्बन्तरिदाइं अक्खराइं। (नहि नहि। भर्तुः खल्वेतानि प्रणयमृदुकानि बिम्बान्तरितान्यक्षराणि।)

मालविका — हला देविं चिन्तिअ ण मे हिअअं विस्ससदि। (हला देवीं चिन्तयित्वा न मे हृदयं विश्वसिति)

बकुलावलिका — मुद्धे भमरसम्बाधोति वसन्तावदारसव्वस्सभूदो किं ण चूदपसवो ओदंसणिज्जो। (मुग्धे भ्रमरसम्बाध इति वसन्तावतारसर्वस्वभूतः किं न चूतप्रसवोऽवतंसनीयः।)

मालविका — तुमं दाव दुज्जादे मह अच्चन्तसहाइणी होहि। (त्वं तावद् दुर्जाते ममात्यन्तसहायिनी भव।)

बकुलावलिका — विमद्दसुरही बउलावलिआ खु अहं। (विमर्दसुरभिर्बकुलावलिका खल्वहम्।)

राजा — साधु बकुलावलिके साधु। भावज्ञानानन्तरं प्रस्तुतेन प्रत्याख्याने दत्तयुक्तोत्तरेण। वाक्येनेयं स्थापिता स्वे निदेशे स्थाने प्राणाः कामिनां दूत्यधीनाः॥१४॥

इरावती — हञ्जे पेक्ख पेक्ख। कारिदा एव्व एदस्सिं बउलावलिआए पदं मालविआ। (हञ्जे पश्य पश्य। कारितैवैतस्मिन् बकुलावलिकया पदं मालविका।)

निपुणिका — भट्टिणि णिव्विआरस्स वि ऊसुअदाजणओ उवदेसो। (भट्टिनि निर्विकारस्याप्युत्सुकताजनक उपदेशः।)

इरावती — ठाणे सङ्किदं मे हिअअं। गहिदत्था अणन्तरं चिन्तइस्सं। (स्थाने शङ्किदं मे हृदयम्। गृहीतार्थानन्तरं चिन्तयिष्यामि।)

बकुलावलिका — एसो दुदीओ वि समत्तपडिकम्मो दे चलणो। जाव दुवे वि सणेउरे करोमि। (नाट्येन नूपुरयुगलमामुच्य।) हला उट्ठेहि अणुचिट्ठ देवीए असोअविआसइत्तअं णिओअं। (उभे उत्तिष्ठतः।) (एष द्वितीयोऽपि समाप्तपरिकर्मा ते चरणः। यावद् द्वावपि सनूपुरौ करोमि। हला उत्तिष्ठ। अनुतिष्ठ देव्या अशोकविकासयितृकं नियोगम्।)

इरावती — सुदं देवीए णिओओत्ति दाणिं। (श्रुतं देव्या नियोग इतीदानीम्।)

बकुलावलिका — एसो उवारूढराओ उवभोअख्खमो पुरदो दे दीसह। (एष उपारूढराग उपभोगक्षमः पुरतस्ते दृश्यते।)

मालविका — (सहर्षम्) किं भट्टा। (किं भर्ता।)

बकुलावलिका — (सस्मितम्) ण दाव भट्टा। एसो असोअसाहावलम्बी पल्लवगुच्छो। ओदंसेहि दाव णं। (न तावद्भर्ता। एषोऽशोकशाखावलम्बी पल्लवगुच्छः। अवतंसय तावदेनम्।)

विदूषकः — अवि सुदं भवदा। (अपि श्रुतं भवता।)

राजा — सखे पर्याप्तमेतावता कामिनाम्। अनातुरोत्कण्ठितयोः प्रसिध्यता समागमेनापि रतिर्न मां प्रति। परस्परप्राप्तिनिराशयोर्वरं शरीरनाशोऽपि समानुरागयोः॥१५॥

(मालविका रचितपल्लवावतंसा सलीलमशोकाय पादं प्रहिणोति।)

राजा — वयस्य पश्य। आदाय कर्णकिसलयमस्मादियमत्र चरणमर्पयति। उभयोः सदृशविनिमयादात्मानं वञ्चितं मन्ये॥१६॥

मालविका — अवि णाम अम्हाणं संभावणा सफला हवे। (अपि नाम आवयोः सम्भावना सफला भवेत्।)

बकुलावलिका — हला णत्थि दे दोसो णिग्गुणो अअं असोओ जइ कुसुमुब्भेदमन्थरो भवे जो ईरिसं चरणसक्कारं लहेइ। (हला नास्ति ते दोषः निर्गुणोऽयमशोकः यदि कुसुमोद्भेदमन्थरो भवेद्य ईदृशं चरणसत्कारं लभते।)

राजा — अनेन तनुमध्यया मुखरनूपुराराविणा नवाम्बुरुहकोमलेन चरणेन सम्भावितः। अशोक यदि सद्य एव कुसुमैर्न सम्पत्स्यसे वृथा वहसि दोहदं ललितकामिसाधारणम्॥१७॥ सखे वचनावसरपूर्वं प्रवेष्टुमिच्छामि।

विदूषकः — एहि णं परिहासइस्सं। (एह्येनां परिहासयिष्यामि।)

(उभौ प्रवेशं कुरुतः।)

निपुणिका — भट्टिणी भट्टा एत्थ एव्व पविसदि। (भट्टिनि भर्ता अत्रैव प्रविशति।)

इरावती — इदं मह पुढमं चिन्तिदं हिअएण। (इदं मम प्रथमं चिन्तितं हृदयेन।)

विदूषकः — (उपसृत्य) होदि जुत्तं णाम अत्तहोदो पिअवअस्सोअसोओ अअं वामपादेण ताडितुं। (भवति युक्तं नामात्रभवतः प्रियवयस्योऽशोकोऽयं वामपादेन ताडयितुम्।)

उभे — (ससम्भ्रमम्) अम्मो भट्टा। (अम्मो भर्ता।)

विदूषकः — बउलावलिए तुए गहिदत्थाए ईरिसं अविणअं करेन्ती किं सही ण णिवारिदा। (बकुलावलिके त्वया गृहीतार्थयां ईदृशमविनयं कुर्वती किं सखी न निवारिता।)

(मालविका भयं रूपयति।)

निपुणिका — भट्टिणि पेक्ख किं पवुत्तं अज्जगोदमेण। (भट्टिनि पश्य किं प्रवृत्तमार्यगौतमेन।)

इरावती — कहं बम्हबन्धू अण्णहा जिविस्सदि। (कथं ब्रह्मबन्धुरन्यथा जीविष्यति।)

बकुलावलिका — अज्ज एसा देवीए णिओअं अणुचिट्ठदि। एदस्सिं अदिक्कमे परवदी इअं। पसीददु भट्टा। (आत्मना सममेनां प्रणिपातयति।) (आर्य एषा देव्या नियोगमनुतिष्ठति। एतस्मिनतिक्रमे परवतीयम्। प्रसीदतु भर्ता।)

राजा — यद्येवमनपराद्धासि। उत्तिष्ठ भद्रे। (हस्तेन गृहीत्वोत्थापयति।)

विदूषकः — जुज्जइ। देवी एत्थ माणइदव्वा। (युज्यते। देव्यत्रमानयितव्या।)

राजा — (विहस्य) किसलय मृदोर्विलासिनि कठिने निहितस्य पादपस्कन्धे। चरणस्य न ते बाधा सम्प्रति वामस्य वामोरु॥१८॥

(मालविका लज्जां नाटयति।)

इरावती — (सासूयम्) अहो अविणीदहिअओ खु अज्जउत्तो। (अहो अविनीतहृदयः खल्वार्यपुत्रः।)

मालविका — बउलावलिए एहि। अणुठ्ठिदं अत्तणो णिओअं देवीए णिवेदम्ह। (बकुलावलिके एहि। अनुष्ठितमात्मनो नियोगं देव्यै निवेदयामः।)

बकुलावलिका — तेण हि विण्णवेहि भट्टारं विसज्जेहि त्ति। (तेन हि विज्ञापय भर्तारं विसर्जयेति।)

राजा — भद्रे यास्यसि। मम तावदुपपन्नावसरमर्थित्वं श्रूयताम्।

बकुलावलिका — अवहिदा सुणाहि। आणवेदु भट्टा। (अवहिता शृणु। आज्ञापयतु भर्ता।)

राजा — धृतिपुष्पमयमपि जनो बध्नाति न तादृशं चिरात्प्रभृति। स्पर्शामृतेन पूरय दोहदमस्याप्यनन्यरुचेः॥१९॥

इरावती — (सहसोपसृत्य) पूरेहि पूरेहि। असोओ कुसुमं दंसेदि ण वा। अअं उण पुप्फइ फलइ अ। (पूरय पूरय। अशोकः कुसुमं दर्शयति न वा। अयं पुनः पुष्प्यति फलति च।)

(सर्वे इरावतीं दृष्ट्वा सम्भ्रान्ताः।)

राजा — (अपवार्य) वयस्य का प्रतिपत्तिरत्र।

विदूषकः — किं अण्णं। जङ्घाबलं एव्व। (किमन्यत्। जङ्घाबलमेव।)

इरावती — बउलावलिए साहु तुए उवक्कन्तं। मालविए तुमं दाव करेहि सफलपत्थणं अज्जउत्तं। (बकुलावलिके साधु त्वयोपक्रान्तम्। मालविके त्वं तावत् कुरु सफलप्रार्थनमार्यपुत्रम्।)

उभौ — पसीददु भट्टिणी। का अम्हे भट्टिणो पणअपरिग्गहस्स। (इति निष्क्रान्ते।) (प्रसीदतु भट्टिनी। के आवां भर्तुः प्रणयपरिग्रहस्य।)

इरावती — अहो अविस्ससणीआ पुरिसा। मए क्खु अत्तणो वञ्चणा वाहजणगीदिरत्ताए हरिणीए विअ असङ्किदाए ण विण्णादा। (अहो अविश्वसनीयाः पुरुषा। मया खल्वात्मनो वञ्चना व्याधजनगीतिरक्तया हरिण्येवाशङ्कितया न विज्ञाता।)

विदूषकः — (जनान्तिकम्) पडिओजेहि कि वि दाणिं। किं अण्णं कम्मगहिदेण कुम्भीलएण सन्धिच्छेअणं सिक्खिदोम्हित्ति वत्तव्यं होइ। (प्रतियोजय किमपीदानीम्। किमन्यत् कर्मगृहीतेन कुम्भीलकेन सन्धिच्छेदनं शिक्षितोऽस्मीति वक्तव्यं भवति।)

राजा — सुन्दरि, न मे मालविकायां कश्चिदर्थः। मया त्वं चिरायसीति यथाकथंचिदात्मा विनोदितः।

इरावती — विस्ससणीओ सि। मए ण विण्णादं ईरिसं विणोदवत्थुअं अज्जउत्तेण उबलद्धंति। अण्णहा मन्दभाइणीए एव्वं ण किज्जइ। (विश्वसनीयोऽसि। मया न विज्ञातमीदृशं विनोदवस्तुकमार्यपुत्रेण उपलब्धमिति। अन्यथा मन्दभागिन्या एवं न क्रियते।)

विदूषकः — मा दाव अत्तहोदी अत्तहोदो दक्खिण्णस्स उवरोहं भणादु। समात्वत्तिदिट्ठेण देवीए परिअणेण संकहा वि जइ अवराहो ठाविअदि एत्थ तुमं एव्व पमाणं। (मा तावदत्रभवती अत्रभवतो दाक्षिण्यस्योपरोधं भणतु। समापत्तिदृष्टेन देव्याः परिजनेन सङ्कथापि यद्यपराधः स्थाप्यते अत्र त्वमेव प्रमाणम्।)

इरावती — णं संकहा णाम होदु। किंति अत्ताणं आआसइस्सं। (ननु संकथा नाम भवतु। किमित्यात्मानमायासयिष्ये।) (रुष्टा प्रस्थिता।)

राजा — (अनुसरन्) प्रसीदतु भवती।

(इरावती रशनासन्दितचरणा व्रजत्येव।)

राजा — सुन्दरि न शोभते प्रणयिजने निरपेक्षता।

इरावती — सढ, अविस्ससणीअहिअओ सि। (शठ, अविश्वसनीयहृदयोऽसि।)

राजा — शठ इति मयि तावदस्तु ते परिचयवत्यवधीरणा प्रिये। चरणपतितया न चण्डि तां विसृजसि मेखलयापि याचिता॥२०॥

इरावती — इअं वि हदासा तुमं एव्व अणुसरदि। (इयमपि हताशा त्वामेवानुसरति।) (इति रशनामादाय राजानं ताडयितुमिच्छति।)

राजा — वयस्य एषा हि बाष्पासारा हेमकाञ्चीगुणेन श्रोणी बिम्बादव्यपेक्षाच्युतेन। चण्डी चण्डं हन्तुमभ्युद्यता मां विद्युद्दाम्ना मेघराजीव विन्ध्यम्॥२१॥

इरावती — किं मां भूओ वि अवरद्धं करेसि। (किं मां भूयोऽप्यपराद्धां करोषि।) (इति रशनां हस्तेनावलम्बते।)

राजा — अपराधिनि मयि दण्डं संहरसि किमुद्यतं कुटिलकेशि। वर्धयसि विलसितं स्वं दासजनायात्र कुप्यसि च॥२२॥ (आत्मगतम्) नूनमिदानीमनुज्ञातम्। (इति पादयोः पतति।)

इरावती — ण क्खु इमे मालविआए चलणा जे दे फरिसदोहलं पूरइस्सन्ति। (न खल्विमौ मालविकायाश्चरणौ यौ ते स्पर्शदोहदं पूरयिष्यतः।) (इति सचेटी निष्क्रान्ता।)

विदूषकः — उट्ठेहि। किदप्पसादो सि। (उत्तिष्ठ। कृतप्रसादोऽसि।)

राजा — (उत्थाय इरावतीमपश्यन्।) कथं गतैव प्रिया।

विदूषकः — वयस्स देवेहिं इमस्स अविणअस्स अपसारिदा णिअंतणा। दाव सिग्घदरं अवक्कमाम जाव अङ्गारओ रासिं विअ सा अणुवक्कं ण करेइ। (वयस्य देवैरस्याविनयस्यापसारिता नियन्त्रणा। तावच्छीघ्रतरमपक्रमावः यावदङ्गारको राशिमिव सा अनुवक्रं न करोति।)

राजा — अहो मनसिजवैषम्यम्। मन्ये प्रियाहृतमनास्तस्याः प्रणिपातलङ्घनं सेवाम्। एवं प्रणयवती सा मयि शक्यमुपेक्षितुं कुपिता॥२३॥

(इति परिक्रम्य निष्क्रान्ताः सर्वे)

इति तृतीयोऽङ्कः॥

Act 4

चतुर्थोङ्कः।

(ततः प्रविशति पर्युत्सुको राजा प्रतीहारी च।)

राजा — (आत्मगतम्।) तामाश्रित्य श्रुतिपथगतामास्थया लब्धमूलः सम्प्राप्तायां नयनविषयं रूढरागप्रवालः। हस्तस्पर्शोर्मुकुलित एव व्यक्तरोमोद्गमत्वात् कुर्यात्क्लान्तं मनसिजतरुर्मा रसज्ञं फलस्य॥१॥

(प्रकाशम्) सखे गौतम।

प्रतीहारी — जेदु भट्टा। असण्णिहिदो गोदमो। (जयतु भर्ता। असन्निहितो गौतमः।)

राजा — (आत्मगतम्) आः, मालविकावृत्तान्तज्ञानाय प्रेषितः।

विदूषकः — (प्रविश्य) जेदु भवं। (जयतु भवान्।)

राजा — जयसेने जानीहि तावत् क्व देवी धारिणी कथं वा सरुजचरणत्वाद्विनोद्यत इति।

प्रतीहारी — जं देवो आणवेदि। (यद्देव आज्ञापयति।) (इति निष्क्रान्ता।)

राजा — गौतम को वृत्तान्तस्तत्रभवत्यास्ते सख्याः।

विदूषकः — जो बिडालगहिदाए परहुदिआए। (यो बिडालगृहीतायाः परभृतिकायाः।)

राजा — (सविषादम्) कथमिव।

विदूषकः — सा खु तवस्सिणी ताए पिङ्गलच्छीए सारभण्डभूमिगेहे मिच्चुमुहे विअ णिक्खित्ता। (सा खलु तपस्विनी तया पिङ्गलाक्ष्या सारभाण्डभूमिगृहे मृत्युमुख इव निक्षिप्ता।)

राजा — ननु मत्सम्पर्कमुपलभ्य।

विदूषकः — अह इं। (अथ किम्।)

राजा — गौतम क एवं विमुखोऽस्माकं येन चण्डीकृता देवी।

विदूषकः — सुणादु भवं। परिव्वाजिआ मे कहेदि। हिओ किल तत्तहोदी इरावदी रुजाविहत्थचलणं देविं सुहपुच्छिआ आअदा। (शृणोतु भवान्। परिव्राजिका मे कथयति। ह्यः किल तत्रभवती इरावती रुजाविहस्तचरणां देवीं सुखपृच्छिका आगता।)

राजा — ततस्ततः।

विदूषकः — तदो देवीए सा पुच्छिदा किं उण लक्खिदो वल्लहजगोत्ति। तदो ताए उत्तं कुदो वा दे उवआरो। जं दे परिअणस्सवल्लहत्तणं जाणन्ती वि पुच्छसित्ति। (ततो देव्या सा पृष्टा किं पुनर्लक्षितो वल्लभजन इति। ततस्तयोक्तं कुतो वा ते उपचारः। यत्तव परिजनस्य वल्लभत्वं जानत्यपि पृच्छसीति।)

राजा — निर्भेदादृतेऽपि मालविकायामयमुपन्यासः शङ्कयति। ततस्ततः।

विदूषकः — तदो ताए अणुबन्धिज्जमाणाए भवदो अविणअं अन्तरेण परिगहिदत्था किदा देवी। (ततस्तयानुबध्यमानया भवतोऽविनयमन्तरेण परिगृहीतार्था कृता देवी।)

राजा — अहो दीर्घरोषता तत्रभवत्याः। अतः परं कथय।

विदूषकः — किं अदो वरं। मालविआ बउलावलिआ अ णिअलवदीओ अदिट्ठसुज्जपादं अदिट्ठसुज्जपादं पादालवासं णाअकण्णआ विअ अणुहोन्ति। (किमतःपरम्। मालविका बकुलावलिका च निगलवत्यावदृष्टसूर्यपादं पातालवासं नागकन्यके इवानुभवतः।)

राजा — कष्टं कष्टम्। मधुररवा परभृतिका भ्रमरी च विबुद्धचूतसङ्गिन्यौ। कोटरमकालवृष्ट्या प्रबलपुरोवातया गमिते॥२॥ वयस्य, अप्यत्र कस्यचिदुपक्रमस्य गतिः स्यात्।

विदूषकः — कहं भविस्सदि। जं सारभण्डे वावुदा माहविआ देवीए सन्दिट्ठा। मह अङ्गुलीअअमुद्दं अदेक्खिअ ण मोत्तव्वा तुए इअं हदासा मालविआ बउलावलिआ अत्ति। (कथं भविष्यति। यत्सारभाण्डे व्यापृता माधविका देव्या सन्दिष्टा। ममाङ्गुलीयकमुद्रामदृष्ट्वा न मोक्तव्या त्वयेयं हताशा मालविका बकुलावलिका चेति।)

राजा — (निश्वस्य सपरामर्शम्।) सखे किमत्र कर्तव्यम्।

विदूषकः — (विचिन्त्य) अत्थि एत्थ उवाओ। (अस्त्यत्रोपायः।)

राजा — क इव।

विदूषकः — (सदृष्टिक्षेपम्) को वि अदिट्ठो सुणादि। कण्णे दे कहेमि। (उपश्लिष्य कर्णे) एव्वं विअ। (कोऽप्यदृष्टः शृणोति। कर्णे ते कथयामि। एवमिव।)

राजा — साधु प्रयुज्यतां सिद्धये।

प्रतीहारी — (प्रविश्य) देव पवादसअणे देवी णिसण्णा रत्तचन्दणधारिणा परिअणहत्थगदेण चलणेण भअवदीए कहाहिं विणोदीअमणा चिट्ठदि। (देव प्रवातशयने देवी निषण्णा रक्तचन्दनधारिणा परिजनहस्तगतेन चरणेन भगवत्या कथाभिर्विनोद्यमाना तिष्ठति।)

राजा — अस्मत्प्रवेशयोग्योऽयमवसरः।

विदूषकः — ता गच्छदु भवं। अहं वि देविं पेक्खिदुं अरित्तपाणी भविस्सं। (तस्मात् गच्छतु भवान्। अहमपि देवीं द्रष्टुमरिक्तपाणिर्भविष्यामि।)

राजा — जयसेनायास्तावत्संवेद्य गच्छ।

विदूषकः — तह। (कर्णे) भोदि एव्वं विअ। (इति निष्क्रान्तः।) (तथा। भवति एवमिव।)

राजा — जयसेना तेन हि प्रवातशयनमार्गमादेशय।

प्रतीहारी — इदो इदो देवो। (इत इतो देवः।)

(ततः प्रविशति शयनस्था देवी परिव्राजिका विभवतश्च परिवारः।)

देवी — भअवदि अदिरमणीअं कहावत्थु। तदो तदो। (भगवति अतिरमणीयं कथावस्तु। ततस्ततः।)

परिव्राजिका — (सदृष्टिक्षेपम्) अतः परं पुनः कथयिष्यामि। तत्रभवानीश्वरः सम्प्राप्तः।

देवी — अम्मो भट्टा। (अभ्युत्थातुमिच्छति।) (अम्मो भर्ता।)

राजा — अलमलमुपचारयन्त्रणया। अनुचितनूपुरविरहं नार्हसि तपनीयपीठिकालम्बम्। चरणं रुजापरीतं कलभाषिणि मां च पीडयितुम्॥३॥

देवी — जेदु अज्जउत्तो। (जयत्वार्यपुत्रः।)

परिव्राजिका — विजयतां देवः।

राजा — (परिव्राजिकां प्रणम्योपविश्य।) देवि अपि सह्या ते वेदना।

देवी — अत्थि मे विसेसो। (अस्ति मे विशेषः।)

(ततः प्रविशति यज्ञोपवीतबद्धाङ्गुष्ठः सम्भ्रान्तो विदूषकः।)

विदूषकः — परित्ताअदु परित्ताअदु। सप्पेण मिच्चुणा दट्ठोम्हि। (परित्रायतां परित्रायताम्। सर्पेण मृत्युना दष्टोऽस्मि।)

(सर्वे विषण्णाः।)

राजा — कष्टं कष्टम्। क्व भवान् परिभ्रान्तः।

विदूषकः — देवि पेक्खिस्सं ति आआरपुप्फग्गहणकालणादो पमदवणं गदोम्हि। (देवीं द्रष्टुमीत्याचारपुष्पग्रहणकारणात्प्रमदवनं गतोऽस्मि।)

देवी — हद्धि हद्धि। णं अहं एव्व बम्हणस्स जीविअसंसअणिमित्तं जादा। (हा धिक् हा धिक्। नन्वहमेव ब्राह्मणस्य जीवितसंशयनिमित्तं जाता।)

विदूषकः — तहिं असोअत्थवअस्स कालणादो पसारिदे मे हत्थे कोडरणिग्गदेण सप्परूवेण कालेण दट्ठोम्हि। णं एदाइं दुवे दन्तपदाइं। (इति दर्शयति।) (तत्राशोकस्तबककारणात्प्रसारिते मे हस्ते कोटरनिर्गतेन सर्परूपिणा कालेन दष्टोऽस्मि। नन्वेते द्वे दन्तपदे।)

परिव्राजिका — तेन हि दंशच्छेदः पूर्वकर्मेति श्रूयते। स तावदस्य क्रियताम्। छेदो दंशस्य दाहो वा क्षतेर्वा रक्तमोक्षणम्। एतानि दष्टमात्राणामायुषः प्रतिपत्तयः॥४॥

राजा — सम्प्रति विषवैद्यानां कर्म। जयसेने क्षिप्रमाहूयतां ध्रुवसिद्धिः।

प्रतीहारी — जं देवो आणवेदि। (इति निष्क्रान्ता।) (यद्देव आज्ञापयति।)

विदूषकः — अहो पावेण मिञ्चुणा गहीदोम्हि। (अहो पापेन मृत्युना गृहीतोऽस्मि।)

राजा — मा कातरो भूः। अविषोऽपि कदाचिद्दंशो भवेत्।

विदूषकः — कहं ण भाइस्सं। सिमसिमाअन्ति मे अङ्गाइं। (इति विषवेगं रूपयति।) (कथं न भेष्यामि। सिमसिमायन्ति मे अङ्गानि।)

देवी — ही ही असुहं दंसिदं विआरेण। हला अवलम्बह णं। (ही ही अशुभं दर्शितं विकारेण। हला अवलम्बध्वमेनम्।)

(परिजनः ससम्भ्रममवलम्बते।)

विदूषकः — (राजानमवलोक्य।) भो भवदो बालवअस्सोम्हि। ता अविआरेण वुद्धाए मे जणणीए जोअक्खेमं वहेहि। (भो भवतो बालवयस्योऽस्मि। तदविचारेण वृद्धाया मे जनन्या योगक्षेमं वह।)

राजा — मा भैषीः। अचिरात्त्वां विषवैद्यश्चिकित्सते। स्थिरो भव।

जयसेना — (प्रविश्य) देव धुवसिद्धी विण्णवेदि। इह एव्व आणीअदु गोदमोत्ति। (देव ध्रुवसिद्धिर्विज्ञापयति। इहैवानीयतां गौतम इति।)

राजा — तेन हि वर्षवरपरिगृहीतमेनं तत्रभवतः सकाशं प्रापय।

जयसेना — तह। (तथा।)

विदूषकः — (देवीं विलोक्य) भोदि जीवेअं वा ण वा। जं मए अत्तभवन्तं सेवन्तेण दे अवरद्धं तं मरिसेहि। (भवति जीवेयं वा न वा। यन्मया अत्रभवन्तं सेवमानेन तेऽपराद्धं तन्मर्षय।)

देवी — दीहाऊ होहि। (दीर्घायुर्भव।)

(निष्क्रान्तो विदूषकः प्रतीहारी च।)

राजा — प्रकृतिभीरुस्तपस्वी। ध्रुवसिद्धेरपि यथार्थनाम्नः सिद्धिं मन्ये।

जयसेना — (प्रविश्य) जेदु भट्टा। धुवसिद्धी विण्णवेदि। उअकुम्भविहाणे सप्पमुद्दिअं किं वि कप्पइदव्वं। ता अण्णेसीअदुत्ति। (जयतु भर्ता। ध्रुवसिद्धिर्विज्ञापयति। उदकुम्भविधाने सर्पमुद्रितं किमपि कल्पयितव्यम्। तदन्विष्यतामिति।)

देवी — इदं सप्पमुद्दिअं अंगुलीअअं। पच्छा मह एव्व हत्थे देहिं णं। (इति प्रयच्छति। जयसेना नाट्येन गृह्णाति।) (इदं सर्पमुद्रितमङ्गुलीयकम्। पश्चान्ममैव हस्ते देह्येतत्।)

राजा — जयसेने कर्मसिद्धावाशु प्रतिपत्तिमानय।

जयसेना — जं देवो आणवेदि। (इति निष्क्रान्ता।) (यद्देव आज्ञापयति।)

परिव्राजिका — देव यथा मे हृदयमाचष्टे तथा निर्विषो गौतमः।

राजा — भूयादेवम्।

जयसेना — (प्रविश्य) देव णिउत्तविसवेओ अज्जगोदमो मुदुत्तेण पइदित्थो संवुत्तो। (देव निवृत्तविषवेग आर्यगौतमो मुहूर्तेन प्रकृतिस्थः संवृत्तः।)

देवी — दिट्ठिआ वअणीआदो मुत्तम्हि। (दिष्टया वचनीयान्मुक्तास्मि।)

जयसेना — एसो उण अमञ्चो वाहदओ विण्णवेदि। राअकज्जं बहु मन्तिदव्वं। ता दंसणेण अणुग्गहं इच्छामित्ति। (एष पुनरमात्यो वाहतको विज्ञापयति। राजकार्यं बहु मन्त्रयितव्यम्। तद्दर्शनेनानुग्रहमिच्छामीति।)

देवी — गच्छदु अज्जउत्तो कज्जसिद्धीए। (गच्छत्वार्यपुत्रः कार्यसिद्धये।)

राजा — (उत्थाय) देवि आतपाक्रान्तोऽयमुद्देशः। शीतक्रियाचास्य प्रशस्ता। तदन्यत्र नीयतां शयनीयम्।

देवी — बालिआ अज्जउत्तवअणं अणुचिट्ठह। (बालिकाः आर्यपुत्रवचनमनुतिष्ठत।)

परिजनः — तह। (तथा।)

(इति निष्क्रान्ता देवी परिव्राजिका परिजनश्च।)

राजा — जयसेने गूढपथेन मां प्रमदवनं प्रापय।

जयसेना — इदो इदो देवो। (इत इतो देवः।)

राजा — (परिक्रम्य) जयसेने ननु समाप्तकृत्यो गौतमः।

जयसेना — अह इं। (अथ किम्।)

राजा — इष्टाधिगमनिमित्तं प्रयोगमेकान्तसाधुमपि मत्वा। सन्दिग्धमेव सिद्धौ कातरमाशङ्कते चेतः॥५॥

विदूषकः — (प्रविश्य) जेदु भवं। सिद्धाइं मे सव्वमङ्गलकम्माइं। (जयतु भवान्। सिद्धानि मे सर्वमङ्गलकर्माणि।)

राजा — जयसेने त्वमपि नियोगमशून्यं कुरु।

जयसेना — जं देवो आणवेदि। (इति निष्क्रान्ता।) (यद्देव आज्ञापयति।)

राजा — वयस्य क्षुद्रा माधविका। न खलु किंचिद्विचारितमनया।

विदूषकः — देवीए अंगुलीअअमुद्दिअं पेक्खिअ कहं विआरेदि। (देव्या अङ्गुलीयकमुद्रिकां दृष्ट्वा कथं विचारयति।)

राजा — न खलु मुद्रामधिकृत्य ब्रवीमि। तयोर्बद्धयोः किंनिमित्तोऽयं मोक्षः। किं वा देव्या परिजनमतिक्रम्य भवान् सन्दिष्टः। इत्येव मनया प्रष्टव्यम्।

विदूषकः — णं पुच्छिदोम्हि। पञ्चुप्पण्णबुद्धिणा मए कहिदम्। (ननु पृष्टोऽस्मि। प्रत्युत्पन्नबुद्धिना मया कथितम्।)

राजा — कथ्यताम्।

विदूषकः — भणिदं मए। देव्वचिन्तेएहिं विण्णाविदो राआ। सोवसग्गं वो णक्खत्तं। सव्वबन्धमोक्खो करीअदुत्ति। (भणितं मया। दैवचिन्तकेर्विज्ञापितो राजा। सोपसर्गं वो नक्षत्रम्। सर्वबन्धमोक्षः क्रियतामिति।)

राजा — (सहर्षम्) ततस्ततः।

विदूषकः — तं सुणिअ देवीए इरावदीए चित्तं रक्खन्तीए राआ किल मोएदित्ति तुमं एव्व णं मोएहित्ति अहं सन्दिट्ठोम्हित्ति। तदो जुज्जइत्ति ताए सम्पादिदो अत्थो। (तच्छ्रुत्वा देव्या इरावत्याश्चित्तं रक्षन्त्या राजा किल मोचयतीति त्वमेवैनां मोचयेत्यहं सन्दिष्टोऽस्मि इति। ततो युज्यत इति तया सम्पादितोऽर्थः।)

राजा — (विदूषकं परिष्वज्य) सखे प्रियोऽहं तव। न हि बुद्धिगुणेनैव सुहृदामर्थदर्शनम्। कार्यसिद्धिपथः सूक्ष्मः स्नेहेनाप्युपलभ्यते॥६॥

विदूषकः — तुवरदु भवं। समुद्दघरए पिअसहीसहिअं मालविअं ठाविअ भवन्तं पच्चुग्गदोम्हि। (त्वरतां भवान्। समुद्रगृहके प्रियसखीसहितां मालविकां स्थापयित्वा भवन्तं प्रत्युद्गतोऽस्मि।)

राजा — अहमेनां सम्भावयामि। गच्छाग्रतः।

विदूषकः — एदु भवं। (परिक्रम्य) एदं समुदघरअं। (एतु भवान्। इदं समुद्रगृहम्।)

राजा — (साशङ्कम्) वयस्य एषा कुसुमापचयव्यग्रहस्ता सख्यास्ते इरावत्याः परिचारिका चन्द्रिका समागच्छति। इतस्तावदावां भित्तिनिगूढौ भवावः।

विदूषकः — अहो कुम्भीलएहिं कामुएहिं अ पलिहलणिज्जा खु चन्दिआ। (अहो कुम्भीलकैः कामुकैश्च परिहरणीया चन्द्रिका।)

(उभौ यथोक्तं कुरुतः।)

राजा — गौतम कथं नु ते सखी मां प्रतिपालयति। एह्येनां गवाक्षमाश्रित्यावलोकयावः।

विदूषकः — तह। (इति विलोकयन्तौ स्थितौ।) (तथा।)

(ततः प्रविशति मालविका बकुलावलिका च।)

बकुलावलिका — हला पणम भट्टारं। (हला प्रणम भर्तारम्।)

राजा — मन्ये प्रतिकृतिं मे दर्शयतीति।

मालविका — (सहर्षम्) णभो दे (द्वारमवलोक्य सविषादम्) कहिं भट्टा। हला विप्पलम्भेसि मं। (नमस्ते। कुत्र भर्ता। हला। विप्रलम्भयसि माम्।)

राजा — सखे हर्षविषादाभ्यामत्रभवत्याः प्रीतोऽस्मि। सूर्योदये भवति या सूर्यास्तमये च पुण्डरीकस्य। वदनेन सुवदनायास्ते समवस्थे क्षणादूढे॥७॥

बकुलावलिका — णं एसो चित्तगदो भट्टा। (नन्वेष चित्रगतो भर्ता।)

उभे — (प्रणिपत्य) जेदु भट्टा। (जयतु भर्ता।)

मालविका — हला तदा अहं सम्मुहट्ठिदा भट्टिणो रूवस्स तह ण वितिण्हम्हि जह अज्ज मए विभाविदो चित्तगदो भट्टा। (हला तदाहं सम्मुखस्थिता भर्तू रूपस्य तथा न वितृष्णास्मि यथाद्य मया विभावितश्चित्रगतो भर्ता।)

विदूषकः — सुदं भवदा। अत्तहोदीए जह दिट्ठो चित्ते ण तह दिट्ठों भवं ति मंतिदं। मुहा दाणिं मञ्जूसा विअ रअणभण्डं जोव्वणगव्वं वहेसि। (श्रुतं भवता। अत्रभवत्या यथा दृष्टश्चित्रे न तथा दृष्टो भवानिति मन्त्रितम्। मुधेदानीं मञ्जूषेव रत्नभाण्डं यौवनगर्वं वहसि।)

राजा — सखे कुतूहलवानपि निसर्गशालीनः स्त्रीजनः। पश्य— कार्त्स्न्ये न निर्वर्णयितुं च रूप- मिच्छन्ति तत्पूर्वसमागतानाम्। न च प्रियेष्वायतलोचनानां समग्रपातीनि विलोचनानि॥८॥

मालविका — हला का एसा ईसिपरिवत्तिदवअणा भट्टिणा सिणिद्धाए दिट्ठीए णिज्झाईअदि। (हला कैषा ईषत्परिवर्तितवदना भर्त्रा स्निग्धया दृष्टया निध्यायते।)

बकुलावलिका — णं इअं भट्टिणो पासगदा इरावदी। (नन्वियं भर्तुः पार्श्वगतेरावती।)

मालविका — हला भट्टा अदक्खिणो विअ पडिभादि। जो सव्वं देवीजणं उज्झिअ एक्काए मुद्दे बद्धलक्खो। (हला भर्ता अदक्षिण इव प्रतिभाति। यः सर्वं देवीजनमुज्झित्वा एकस्या मुखे बद्धलक्ष्यः।)

बकुलावलिका — (आत्मगतम्) चित्तगदं भट्टारं परमत्थं गेह्णिअि असूअदि इअं। होदु कीलिस्सं दाव एदाए। (प्रकाशम्) हला भट्टिणो वल्लहा एसा। (चित्रगतं भर्तारं परमार्थं गृहीत्वाऽसूयतीयम्। भवतु क्रीडिष्यामि तावदेतया। हला भर्तुर्वल्लभैषा।)

मालविका — तदो किं दाणिं अत्ताणं आआसेमि। (इति सासूयं परावर्तते।) (ततः किमिदानींमात्मानमायासयामि।)

राजा — पश्य सख्या मुखम्। भ्रूभङ्गभिन्नतिलकं स्फुरिताधरोष्ठं सासूयमाननमितः परिवर्तयन्त्या। कान्तापराधकुपितेष्वनया विनेतुः सन्दर्शितेव ललिताभिनयस्य शिक्षा॥९॥

विदूषकः — अणुणअसज्जो दाणिं होहि। (अनुनयसज्ज इदानीं भव।)

मालविका — अज्जगोदमो वि एत्थ एव सेवदि णं। (पुनः स्थानान्तराभिमुखी भवितुमिच्छति) (आर्यगौतमोऽप्यत्रैव सेवत एनम्।)

बकुलावलिका — (मालविकां रुद्धा) ण खु कुविदा दाणिं तुमं। (न खलु कुपितेदानीं त्वम्।)

मालविका — जइ मं चिरं कुविदं मण्णसि एसो पञ्चाणीअदि कोवो। (यदि मा चिरं कुपितां मन्यसे एष प्रत्यानीयते कोपः।)

राजा — (उपसृत्य) कुप्यसि कुवलयनयने चित्रार्पितचेष्टया किमेवमयि। ननु तव साक्षादयमहनन्यसाधारणो दासः॥१०॥

बकुलावलिका — जेदु भट्टा। (जयतु भर्ता।)

मालविका — (आत्मगतम्) कहं चित्तगदो भट्टा मए असूइदो। (सव्रीडवदना अञ्जलिं करोति। राजा मदनकातर्ये रूपयति।) (कथं चित्रगतो भर्ता मयासूयितः।)

विदूषकः — किं भवं उदासीणो विअ। (किं भवानुदासीन इव।)

राजा — अविश्वसनीयत्वात्सख्यास्ते।

विदूषकः — मा दाव। अत्तहोदी तुह अविस्ससणीआ। (मा तावत्। अत्रभवती तवाविश्वसनीया।)

राजा — श्रूयताम्। पथि नयनयोः स्थित्वा स्वमे तिरोभवति क्षणात् सरति सहसा बाहोर्मध्यं गवाप्यवला सती। मनसिजरुजा लिष्टस्यैवं समागममायया कथमिव सखे विश्रब्धं स्यादिमां प्रति मे मनः॥११॥

बकुलावलिका — सहि बहुसो किल तुए विप्पलद्धो भट्टा। तादाव अत्ता विस्ससणिज्जो करीअदु। (सखि बहुशः किल त्वया विप्रलब्धो भर्ता। तत्तावदात्मा विश्वसनीयः क्रियताम्)

मालविका — सहि मम उण मन्दभाइणीए सिविणसमाअमो विभट्टिणो दुल्लहो आसि। (सखि मम पुनर्मन्दभागिन्याः स्वप्नसमागमोऽपि भर्तुर्दुर्लभ आसीत्।)

बकुलावलिका — भट्टा देउ से उत्तरं। (भर्ता ददात्वस्याः उत्तरम्।)

राजा — उत्तरेण किमात्मैव पञ्चबाणाग्निसाक्षिकम्। तव सख्यै मया दत्तो न सेव्यः सेविता रहः॥१२॥

बकुलावलिका — अणुगहिदम्हि। (अनुगृहीतास्मि।)

विदूषकः — (परिक्रम्य ससम्भ्रमम्।) बउलावलिए एसो बालासोअरुक्खस्स पल्लवाइं हरिणो लङ्घिदुं आअच्छदि। एहि णिवारेम णं। (बकुलावलिके एष बालाशोकवृक्षस्य पल्लवानि हरिणो लङ्घितुमागच्छति। एहि निवारयाव एनम्।)

बकुलावलिका — तह। (इति प्रस्थिता।) (तथा।)

राजा — एवं अस्मद्रक्षणे वयस्येनावहितेन भवितव्यम्।

विदूषकः — एदं वि गोदमो णं सन्दिस्सीअदि। (एतदपि गौतमो ननु सन्दिश्यते।)

बकुलावलिका — अज्ज गोदमो अहं अप्पमासे चिठ्ठामि। तुमं दुवाररक्खओ होहि। (आर्य गौतम अहमप्रकाशे तिष्ठामि। त्वं द्वाररक्षको भव।)

विदूषकः — जुज्जइ। (निष्क्रान्ता बकुलावलिका।) (युज्यते!)

विदूषकः — (परिक्रम्यावलोक्य च।) इदं दाव फलिहत्थलं। आसीणो होमि। (तथा कृत्वा।) अहो सुहप्फरिसदा सिलाविसेसस्स। (निद्रायते) (इदं तावत्स्फटिकस्थलम्। आसीनो भवामि। अहो सुखस्पर्शता शिलाविशेषस्य।)

(मालविका ससाध्वसा तिष्ठति।)

राजा — विसृज सुन्दरि सङ्गमसाध्वसं तव चिरात्प्रभृति प्रणयोन्मुखे। परिगृहाण गते सहकारतां त्वमतिमुक्तलताचरितं मयि॥१३॥

मालविका — देवीए भएण अत्तणो वि पिअं कादु ण पारेमि। (देव्या भयेनात्मनोऽपि प्रियं कर्तुं न पारयामि।)

राजा — अयि न भेतव्यं न भेतव्यम्।

मालविका — जो ण भाएदि सो मए भट्टिणीदंसणे दिसमवत्थो भट्टा णं। (यो न बिभेति स मया भट्टिनीदर्शने दृष्टसमवस्थो भर्ता ननु।)

राजा — दाक्षिण्यं नाम बिम्बोष्ठि बैम्बिकानां कुलव्रतम्। तन्मे दीर्घाक्षि ये प्राणास्ते त्वदाशानिबन्धनाः॥१४॥ तदयमनुगृह्यतां चिरानुरक्तो जनः। (इति संश्लेषमभिनयति। मालविका नाट्येन परिहरति।)

राजा — (आत्मगतम्) रमणीयः खलु नवाङ्गनानां मदनविषयावतारः। एषा हि। हस्तं कम्पवती रुणद्धि रशनाव्यापारलोलाङ्गुलिं हस्तौ स्वौ नयति स्तनावरणतामालिङ्ग्यमाना बलात्। पातुं पक्ष्मलचक्षुरुन्ममयतः साचीकरोत्याननं व्याजेनाप्यभिलाषपूरणसुखं निर्वर्तयत्येव मे॥१५॥

(ततः प्रविशति इरावती निपुणिका च।)

इरावती — हञ्जे निउणिए सच्चं तुए संदिट्ठं चन्दिआए समुद्दघरआलिन्दए अज्जगोदमो एआई दिट्ठोत्ति। (हञ्जे निपुणिके सत्यं त्वया सन्दिष्टं चन्द्रिकया समुद्रगृहालिन्दे आर्यगौतम एकाकी दृष्ट इति।)

निपुणिका — अण्णहा कहं भट्टिणीए बिण्णएमि। (अन्यथा कथं भट्टिन्यै विज्ञापयामि।)

इरावती — तेण हि तहिं एव्व गच्छम्ह। संसआदो मुत्तं भट्टिणो पिअवअस्सं पेक्खिदुं अ। (तेन हि तत्रैव गच्छावः। संशयान्मुक्तं भर्तुः प्रियवयस्यं प्रेक्षितुं च।)

निपुणिका — सविसेसं विअ भट्टिणी वअणं। (सविशेषमिक भट्टिन्या वचनम्।)

इरावती — आम्। चित्तगदं भट्टारं पसादेदुं। (आम्। चित्रगतं भर्तारं प्रसादयितुम्।)

निपुणिका — अह दाणिं भट्टा एव्व किं ण पच्चणुणीअदि। (अथेदानीं भर्तैव किं न प्रत्यनुनीयते।)

इरावती — मुद्धे जारिसो चित्तगदो भट्टा ण तारिसो एव्व। अण्णसङ्कन्तहिअओ अज्जउत्तो। केवलं उवारादिक्कमं पमज्जिदुं अम्हाणं अअं आरम्भो। (मुग्धे यादृशश्चित्रगतो भर्ता न तादृश एव। अन्यसङ्क्रान्तहृदय आर्यपुत्रः। केवलमुपचारातिक्रमं प्रमार्ष्टुमस्माकमयमारम्भः।)

निपुणिका — इदो इदो भट्टिणी। (इत इतो भट्टिनी।)

(उभे परिक्रामतः।)

चेटी — (प्रविश्य) जेतु भट्टिणी। देवी भणादि। ण मे एसो मच्छरस्स कालो। केवलं तुह खु बहुमाणं वड्ढेदुं वअस्सिआए सह णिअलबन्धणे किदा मालविआ। जइ अणुमण्णेसि अजउत्तं वि तुह किदे विण्णविस्सं। जं तुह इच्छिदं तं भणाहित्ति। (जयतु भट्टिनी। देवी भणति—न मे एष मत्सरस्य कालः। केवलं तव खलु बहुमानं वर्धयितुं वयस्यया सह निगलबन्धने कृता मालविका। यद्यनुमन्यसे आर्यपुत्रमपि तव कृते विज्ञापयिष्यामि। यत्तवेष्टं तद्भण इति।)

इरावती — णाअरिए, विण्णवेहि देविं। का वअं भट्टिणिं णिओएदुं। परिअणणिग्गहेण मइ दंखिदो सिणेहो। कस्स वा अण्णस्स पसादेण अअं जणो वड्ढदित्ति। (नागरिके , विज्ञापय देवीम्। का वयं भट्टिनीं नियोजयितुम्। परिजननिग्रहेण मयि दर्शितः स्नेहः। कस्य वान्यस्य प्रसादेनायं जनो वर्धत इति।)

चेटी — तह। (इति निष्क्रान्ता।) (तथा।)

निपुणिका — (परिक्रम्यावलोक्य च।) भट्टिणी एसो दुवारुच्छङ्गे समुदघरस्स विवणिगदो विअ वुसहो अज्जगोदमो आसीणो एव्व णिद्दाअदि। (भट्टिनी एष द्वारोत्सङ्गे समुद्रगृहस्य विपणिगत इव वृषभ आर्यगौतम आसीन एव निद्रायते।)

इरावती — अच्चाहिदं। ण क्खु सावसेसविसविआरो भवे। (अत्याहितम्। न खलु सावशेषविषविकारो भवेत्।)

निपुणिका — पसण्णमुहो दीसह। अवि अ धुवसिद्धिणा चिइच्छिदो। ता से असङ्कणिज्जं पावं। (प्रसन्नमुखो दृश्यते। अपि च ध्रुवसिद्धिना चिकित्सितः। तदस्य अशङ्कनीयं पापम्।)

विदूषकः — (उत्स्वप्नायते।) होदि मालविए। (भवति मालविके।)

निपुणिका — सुदं भट्टिणीए। कस्स वि एसो अत्तणीणो हदासो किदवो। सव्वकालं इदो एव्व सोत्थिवाअणमोदएहिं कुक्खिं पूरिअ सम्पदं मालविअं उस्सिविणावेदि। (श्रुतं भट्टिन्या। कस्याप्येष आत्मनीनो हताशः कितवः। सर्वकालमित एव स्वस्तिवाचनमोदकैः कुक्षिं पूरयित्वा साम्प्रतं मालविकां उत्स्वप्नायते।)

विदूषकः — इरावदिं अदिक्कामन्ती होहि। (इरावतीमतिक्रामन्ती भव।)

निपुणिका — सुदं एदं अच्चाहिदं। भुअङ्गभीरुअं बम्हबन्धुं इमिणा भुअङ्गकुडिलेण दण्डकट्ठें थम्भन्तरिदा भविअ भीसन्हि। (श्रुतमेतदत्याहितम्। भुजङ्गभीरुकं ब्रह्मबन्धुमनेन भुजङ्गकुटिलेन दण्डकाष्ठेन स्तम्भान्तरिता भूत्वा भीषयिष्ये।)

इरावती — एसो अरुहदि किदवो सप्पदंसस्स। (एषोऽर्हति कितवः सर्पदंशस्य।)

(निपुणिका विदूषकस्योपरि दण्डकाष्ठं पातयति।)

विदूषकः — (सहसा प्रतिबुध्य।) अविहा अविहा। भो दव्वीअरो मे उबरि पडिदो। (अविहा अविहा। भो दर्वीकरो मे उपरि पतितः।)

राजा — (सहसोपसृत्य।) सखे न भेतव्यं न भेव्यतम्।

मालविका — (अनुसृत्य) भट्टा मा दाव सहसा णिक्कम। सप्पोत्ति भणादि। (भर्तः मा तावत्सहसा निष्क्राम। सर्प इति भणति।)

इरावती — हद्धि हद्धि भट्टा इदो एव्व धावइ। (हा धिक् हा धिक् भर्ता इत एव धावति।)

विदूषकः — (सप्रहासम्) कहं दण्डकट्ठं एदं। अहं उण जाणे जं मए केदईकण्टएहिं दंसं करिअ सप्पस्स विअ दंसो किदो तं फलिदंति। (कथं दण्डकाष्ठमेतत्। अहं पुनर्जाने यन्मया केतकीकण्टकाभ्यां दंशं कृत्वा सर्पस्येव दंशः कृतः तत्फलितमिति।)

(ततः प्रविशति पटाक्षेपेण बकुलावलिका।)

बकुलावलिका — मा दाव भट्टा पविसदु। इह कुडिलगई सप्पो विअ दीसइ। (मा तावत् भर्ता प्रविशतुं। इह कुटिलगतिः सर्प इव दृश्यते।)

इरावती — (राजानं सहसोपसृत्य) अवि णिव्विग्घमणोरहो दिवासङ्केदो मिहुणस्स। (अपि निर्विघ्नमनोरथो दिवासङ्केतो मिथुनस्य।)

(सर्वे इरावतीं दृष्ट्वा सम्भ्रान्ताः।)

राजा — प्रिये अपूर्वोऽयमुपचारः।

इरावती — बउलावलिए दिट्ठिआ दोच्चहिआरविसआ संपुण्णा दे पडिण्णा। (बकुलावलिके दिष्ट्या दूत्यधिकारविषया सम्पूर्णा ते प्रतिज्ञा।)

बकुलावलिका — पसीददु भट्टिणी। किं णु खु दद्दुरा वाहरन्तित्ति देवो पुढविं विसुमरेदि। किं मए किदंति देवो पुच्छिदव्वो। (प्रसीदतु भट्टिनी। किं नु खलु दर्दुरा व्याहरन्तीति देवः पृथिवीं विस्मरति। किं मया कृतमिति देवः प्रष्टव्यः।)

विदूषकः — मा दाव। होदीए दंसणमेत्तेणं अत्तभवं पणिवादलङ्घणं विसुमरिदो। होदी उण अज्ज वि पसादं ण गेह्णादि। (मा तावत्। भवत्या दर्शनमात्रेणात्रभवान् प्रणिपातलङ्घनं विस्मृतः। भवती पुनः अद्यापि प्रसादं न गृह्णाति।)

इरावती — कुविदा वि दाणिं किं करिस्सं। (कुपितापीदानीं किं करिष्यामि।)

राजा — अस्थाने कोप इत्येतदनुपपन्नं त्वयि। तथा हि— कदा मुखं वरतनु कारणादृते तवागतं क्षणमपि कोपपात्रताम्। अपर्वणि ग्रहकलुषेन्दुमण्डला विभावरी कथय कथं भविष्यति॥१६॥

इरावती — अट्ठाणेति सुट्टु वाहरिदं अज्जउत्तेण। अण्णसङ्कन्तेसु अम्हाणं भाअहेएसु जइ उण कुप्पेअं अहं हस्सा हविस्सम्। (अस्थान इति सुष्ठु व्याहृतमार्यपुत्रेण। अन्यसङ्क्रान्तेष्वस्माकं भागधेयेषु यदि पुनः कुप्येयम् ततोऽहं हास्या भवेयम्)

राजा — त्वमन्यथा कल्पयसि। अहं पुनः सत्यमेवात्र कोपस्थानं न पश्यामि। कुतः नार्हति कृतापराधोऽप्युत्सवदिवसेषु परिजनो दण्डम्। इति मोचिते मयैते प्रणिपतितुं मामुपगते च॥१७॥

इरावती — णिउणिए गच्छ देविं विण्णवेहि। दिट्ठं देवीए पक्खवाइत्तणं अज्ज त्ति। (निपुणिके गच्छ देवीं विज्ञापय। दृष्टं देव्याः पक्षपातित्वमद्येति।)

निपुणिका — तह। (इति निष्क्रान्ता।) (तथा।)

विदूषकः — (आत्मगतम्) अहो अणत्यो संवुत्तो। बन्धणब्भट्ठो घरकवोदआ बिडालिआलोए पडिदो। (अहो अनर्थः संवृत्तः। बन्धनभ्रष्टो गृहकपोतको बिडालिकालोके पतितः।)

निपुणिका — (प्रविश्य) भट्टिणि जदिच्छादिट्ठाएं माधविआए आचक्खिदं। एवं खु एदं णिव्वुत्तं। (इति कर्णे कथयति।) (भट्टिनि यदृच्छादृष्टया माधविकयाख्यातम्—एवं खल्वेतन्निर्वृत्तमिति।)

इरावती — (आत्मगतम्) उववण्णं सव्वं। बम्हबन्धुणा उब्भिण्णो दुप्पओओ। (विदूषकं विलोक्य प्रकाशम्) इअं इमस्स कामतन्तसइवस्स णीदी। (उपपन्नं सर्वम्। ब्रह्मबन्धुनोद्भिन्नो दुष्प्रयोगः। इयमस्य कामतन्त्रसचिवस्य नीतिः।)

विदूषकः — होदि जइ णीदीए एक्कं वि अक्खरं पढेअं तदो णं गाअत्तिं वि विसुमरेअं। (भवति यदि नीत्यां एकमप्यक्षरं पठेयं ततो ननु गायत्रीमपि विस्मरेयम्।)

राजा — (स्वगतम्) कथं नु खलु सङ्कटादस्मादात्मनि मोचयिष्यामि।

(प्रविश्य) जयसेना — (सावेगम्) देव कुमारी वसुलच्छी कन्दुअं अणुधावन्ती पिङ्गलवाणरेण बलिअं उत्तासिदा अङ्कणिसण्णा देवीए पवादकिसलअं विअ वेवमाणा दाणिं वि पकिदिं ण पडिवज्जइ। (देव कुमारी वसुलक्ष्मीः कन्दुकमनुधावन्ती पिङ्गलवानरेण बलवदुत्त्रासिताङ्कनिषण्णा देव्याः प्रवातकिसलयमिव वेपमाना इदानीमपि प्रकृतिं न प्रतिपद्यते।)

राजा — कष्टम् कष्टम्। कातरो बालभावः।

इरावती — (सावेगम्) तुवरदु तुवरदु अज्जउत्तो णं समासासइदुं। मा दाव से सन्तासजणिओ विभारो वड्ढदु। (त्वरतां त्वरतामार्यपुत्र एनां समाश्वासयितुम्। मा तावदस्याः सन्त्रासजनितो विकारो वर्धताम्।)

राजा — अहमेनां सञ्ज्ञापयामि। (सत्वरं परिक्रामति।)

विदूषकः — (आत्मगतम्) साहु रे पिङ्गलवाणर साहु। सुट्ठु परित्तादो तुए सङ्कडादौ सपक्खो। (साधु रे पिङ्गलवानर साधु। सुष्ठु परित्रातस्त्वया सङ्कटात् सपक्षः।)

(निष्क्रान्तः सवयस्यो राजा इरावती निपुणिका चेटा च।)

मालविका — हला देवीं चिन्तिअ वेवदि मे हिअअं। ण जाणे अदो वरं किं अणुहोदव्वं हविस्सदित्ति। (हला देवीं चिन्तयित्वा वेपते मे हृदयम्। न जाने अतः परं किमनुभवितव्यं भविष्यतीति।)

(नेपथ्ये)

अच्छरिअं अच्छरिअं। अपुण्णे एव्व पञ्चरते दोहलस्स मुउलेहि सण्णध्दो तवणीआसोओ। जाब देवीए णिवेदेमि। (आश्चर्यमाश्चर्यम्। अपूर्ण एव पञ्चरात्रे दोहदस्य मुकुलैः सन्नद्धस्तपनीयाशोकः। यावद्देव्यै निवेदयामि।)

(उभे श्रुत्वा प्रहृष्टे भवतः।)

बकुलावलिका — समस्ससदु पिअसही। सच्चपडिण्णा देवी। (समाश्वसितु प्रियसखी। सत्यप्रतिज्ञा देवी।)

मालविका — तेण हि पमदवणपालिआए पिट्ठदो होम्म। (तेन हि प्रमदवनपालिकायाः पृष्ठतो भवावः।)

बकुलावलिका — तहा। (तथा।)

(इति निष्क्रान्ताः सर्वे।)

॥ इति चतुर्थोऽङ्कः॥

Act 5

पञ्चमोऽङ्कः।

(ततः प्रविशत्युद्यानपालिका।)

उद्यानपालिका — उवक्खित्तो मए किदसक्कारविहिणो तवणीआसोअस्स वेदिआबन्धो। जाव अणुचिठ्ठिदणिओअं अत्ताणं देवीए णिवेदेमि। (परिक्रम्य) अहो देव्वस्स अणुकम्पणिज्जा मालविआ। जं तस्सि तह चण्डीकिदा देवी इमिणा असोअकुसुमउत्तंतेण पसादसुमुही भविस्सदि। कहिं णु खु देवी भवे। (विलोक्य) अम्मो एसो देवीए परिजणब्भंदरो किं वि जदुमुद्दालंछिदं चीवरबन्धं करे गेह्णिअ चउस्सालादो कुज्जो सारसओ णिक्कामदि। पुच्छिस्सं दावणं। (उपक्षिप्तो मया कृतसत्कारविधेस्तपनीयाशोकस्य वेदिकाबन्धः। यावदनुष्ठितनियोगामात्मानं देव्यै निवेदयामि। अहो दैवस्यानुकम्पनीया मालविका। यत् तस्यां तथा चण्डीकृता देवी अनेनाशोककुसुमवृत्तान्तेन प्रसादसुमुखी भविष्यति। कुत्र नु खलु देवी भवेत्। अम्मो एष देव्याः परिजनाभ्यन्तरः किमपि जतुमुद्रालाञ्छितं चीवरबन्धं करे गृहीत्वा चतुःशालात् कुब्जः सारसकः निष्क्रामति। प्रक्ष्यामि तावदेनम्।)

(ततः प्रविशति यथानिर्दिष्टः कुब्जः।)

उद्यानपालिका — (उपसृत्य) सारसअ कहिं पत्थिदोसि। (सारसक कुत्र प्रस्थितोऽसि।)

सारसकः — महुअरिए वेअपारआणं बम्हणाणं णिच्चदक्खिणा दादव्वा। ता अज्जपुरोहिदस्स हृत्थं पावइस्सं। (मधुकरिके वेदपारगाणां ब्राह्मणानां नित्यदक्षिणा दातव्या। तदार्यपुरोहितस्य हस्तं प्रापयिष्यामि।)

मधुकरिका — किंणिमित्तं। (किन्निमित्तम्।)

सारसकः — जदप्पहुदि सुदं सेणावइणा जण्णतुरअरक्खणे णिउत्तो भट्टिदारओ वसुमित्तोत्ति तदापहुदि तस्स आउसो णिमित्तं अट्ठादससुवण्णप्पमाणं दक्खिणं देवी दक्खिणीएहिं पडिग्गाहेदि। (यदाप्रभृति श्रुतं सेनापतिना यज्ञतुरगरक्षणे नियुक्तो भर्तृदारको वसुमित्र इति तदाप्रभृति तस्यायुषो निमित्तमष्टादशसुवर्णप्रमाणां दक्षिणां देवी दक्षिणीयैः प्रतिग्राहयति।)

मधुकरिका — जुज्जइ। अह कहिं देवी। किं वा अणुचिट्ठदि। (युज्यते। अथ कुत्र देवी। किं वानुतिष्ठति।)

सारसकः — मङ्गलघरए आसणत्था विअब्भबिसआदो भादुणा वीरसेणेण पेसिदं लिपिअरेहिं वाचीअमाणं लेहं सुणादि। (मङ्गलगृहे आसनस्था विदर्भविषयात् भ्रात्रा वीरसेनेन प्रेषितं लिपिकारैर्वाच्यमानं लेखं शृणोति।)

मधुकरिका — को उण विअब्भराअवुत्तन्तो। (कः पुनर्विदर्भराजवृत्तान्तः।)

सारसकः — वसीकिदो किल वीरसेणप्पमुहेहिं भट्टिणो विअअदण्डेहिं विअब्भणाहो। मोइदो अ से दाआदो माहवसेणो। तेण महासाराइं रअणवाहणाइं सिप्पआरिआभूइट्ठं परिअणं अ उवाअणीकरिअ भट्टिणो सआसं पेसिदो दूदो सुवो किल भट्टारं पेक्खिस्सदि। (वशीकृतः किल वीरसेनप्रमुखैर्भर्तुर्विजयदण्डैर्विदर्भनाथः। मोचितश्चास्य दायादो माधवसेनः। तेन महासाराणि रत्नवाहनानि शिल्पकदारिकाभूयिष्ठं परिजनं चोपायनीकृत्य भर्तुः सकाशं प्रेषितो दूतः श्वः किल भर्तारं द्रक्ष्यति।)

मधुकरिका — गच्छ अणुचिट्ठ अत्तणो णिओअं। अहं वि देविं पेक्खिस्सं। (गच्छ अनुतिष्ठ आत्मनो नियोगम्। अहमपि देव द्रक्ष्यामि।) (इति निष्क्रान्तौ।)

प्रवेशकः।

(ततः प्रविशति प्रतीहारी।)

प्रतीहारी — आणत्तम्हि देवीए असोअसक्कारव्वावुदाए-विण्णवेहि अज्जउत्तं। इच्छामि अज्जउत्तेण सह असोअरुक्खस्स पसूणलच्छिं पच्चक्खीकरेदुंत्ति। ता जाव धम्मासणगदं देवं पडिवालेमि (आज्ञप्तास्मि देव्या अशोकसत्कारव्यापृतया—विज्ञापयाम्यार्यपुत्रम्। इच्छाम्यार्यपुत्रेण सहाशोकवृक्षस्य प्रसूनलक्ष्मीं प्रत्यक्षीकर्तुम्' इति। तद्यावद्धर्मासनगतं देवं प्रतिपालयामि।) (इति परिक्रामति।)

(नेपथ्ये) वैतालिकौ — दिष्ट्या दण्डेनैवारिशिरःसु वर्तते देवः।

प्रथमः — परभृतकलव्याहारेषु त्वमात्तरतिर्मधुं नयसि विदिशातीरोद्यानेष्वनङ्ग इवाङ्गवान्। विजयकरिणामालानाङ्गैरुपोढबलस्य ते वरद वरदारोधोवृक्षैः सहावनतो रिपुः॥१॥

द्वितीयः — विरचितपदं वीरप्रीत्या सुरोपम सूरिभि- श्चरितमुभयोर्मध्येकृत्य स्थितं क्रथकैशिकान्। तव हृतवतो दण्डानीकैर्विदर्भपतेः श्रियं परिषगुरुभिर्दोर्भिः शौरेः प्रसह्य च रुक्मिणीम्॥२॥

प्रतीहारी — एसो जअसद्दसूइदप्पत्थाणो भट्टा इदो एव्व आअच्छदि। अहंवि दाव इमस्स पमुहादो किंवि ओसरिअ एदं मुहालिन्दतोरणं समस्सिदा होमि। (एष जयशब्दसूचितप्रस्थानो भर्ता इत एवागच्छति। अहमपि तावदस्य प्रमुखात्किमप्यपसृत्य एतन्मुखालिन्दतोरणं समाश्रिता भवामि।) (एकान्ते स्थिता।)

(ततः प्रविशति सवयस्यो राजा।) राजा — कान्तां विचिन्त्य सुलभेतरसम्प्रयोगां श्रुत्वा विदर्भपतिमानमितं बलैश्च। धाराभिरातप इवाभिहतं सरोजं दुःखायते च हृदयं सुखमश्नुते च॥३॥

विदूषकः — जह अहं पेक्खामि तह एक्कन्तसुहिदो भवं भविस्सदि। (यथाहं पश्यामि तथैकान्तसुखितो भवान् भविष्यति।)

राजा — कथमिव।

विदूषकः — अज्ज किल देवीए धारिणीए पण्डिदकोसिई भणिदा। भअवदि जइ तुमं पसाहणगव्वं वहेसि ता दंसेहि मालवि-आए सरीरे वेदब्भं विवाहणेवत्थं ति। ताए वि सविसेसालांकिदा मालविआ। तत्तहोदी कदाचि पूरेइ भवदो मणोरहं। (अद्य खलु देव्या धारिण्या पण्डितकौशिकी भणिता। 'भगवति यदि त्वं प्रसा-धनगर्वे वहसि तद्दर्शय मालविकायाः शरीरे वैदर्भे विवाहनेपथ्यम्' इति। तयापि सविशेषालङ्कृता मालविका। तत्रभवती कदाचित् पूरयति भवतो मनोरथम्।)

राजा — सखे मदपेक्षानुवृत्या निवृत्तेर्ष्याया धारिण्याः पूर्वचरितैः सम्भाव्यमेतत्।

प्रतीहारी (उपगम्य) — जेदु भट्टा। देवी विण्णवेदि—तवणीआसोअस्स कुसुमसोहादंसणेण मह आरम्भो सफलीकरीअदुत्ति। (जयतु भर्ता। देवी विज्ञापयति—'तपनीयाशोकस्य कुसुम-शोभादर्शनेन ममारम्भः सफलीक्रियताम्' इति।)

राजा — ननु तत्रैव देवी।

प्रतीहारी — अह इं । जहारुहसम्माणसुहिदं अन्देउरं विसज्जिअ मालविआपुरोएण अत्तणो परिअणेण सह देवं पडिवालेदि। (अथ किम्। यथार्हसम्मानसुखितं अन्तःपुरं विसृज्य मालविकापुरोगेणात्मनः परिजनेन सह देवं प्रतिपालयति।)

राजा (सहर्षम्। विदूषकं विलोक्य।) — जयसेने गच्छाग्रतः।

प्रतीहारी — इदो इदो देवो। (इत इतो देवः।)

(सर्वे परिक्रामन्ति।)

विदूषकः — (विलोक्य) भो वअस्स किंचि परिवुत्तजोव्वणो विअ वसन्तो पमदवणे लक्खीअदि। (भो वयस्य किंचित्परिवृत्तयौवन इव वसन्तः प्रमदवने लक्ष्यते।)

राजा — यथाह भवान्। अग्रे विकीर्णकुरबकफलजालविभिद्यमान सहकारम्। परिणामाभिमुखमृतोरुत्सुकयति यौवनं चेतः॥४॥

विदूषकः (परिक्रम्य) — अहो अअं सो दिण्णणेवत्थो विअ कुसुमत्थबएहिं तवणीआसोओ। ओलोएदु भवं। (अहो अयं स दत्तनेपथ्य इव कुसुमस्तबकैस्तपनीयाशोकः अवलोकयतु भवान्।)

राजा — स्थाने खल्वयं प्रसवमन्थरोऽभूत्। यदयमिदानीमनन्यसाधारणां शोभां उद्वहति। पश्य सर्वाशोकतरूणां प्रथमं सूचितवसन्तविभवानाम्। निर्वृत्तदोहदेऽस्मिन्सङ्क्रान्तानीव कुसुमानि॥५॥

विदूषकः — भो विस्सद्धो होहि। अम्हेसु सण्णिहिदेसु वि धारिणी पस्सपरिवट्टिणिं मालविअं अणुमण्णेदि। (भो विश्रब्धो भव। अस्मासु सन्निहितेष्वपि धारिणी पार्श्वपरिवर्तिनीं मालविकामनुमन्यते।)

राजा (सहर्षम्) — पश्य सखे मामियमभ्युत्तिष्ठति देवी विनयादुपस्थिता प्रियया। विस्मृतहस्तकमलया नरेन्द्रलक्ष्म्या वसुमतीव॥६॥

(ततः प्रविशति देवी मालविका परिव्राजिका विभवतश्च परिवारः।)

मालविका (आत्मगतम्) — जाणामि णिमित्तं कोदुआलङ्कारस्स। तह वि भिसिणीपत्तगदं सलिलं विअ वेवइ मे हिअअं। दक्खिणेदरं वि णअणं बहुसो फुरइ। (जानामि निमित्तं कौतुकालङ्कारस्य। तथापि बिसिनीपत्रगतं सलिलमिव वेपते मे हृदयम्। दक्षिणेतरदपि नयनं बहुशः स्फुरति।)

विदूषकः — भो वअस्स किं वि वेवाहिअणेवत्थेण सविसेसं खु सोहदि तत्तहोदी मालविआ। (भो वयस्य किमपि वैवाहिकनेपथ्येन सविशेषं खलु शोभते तत्रभवती मालविका।)

राजा — पश्याम्याभरणालङ्कृतामेनाम्। यैषा अनतिलम्बिदुकूलनिवासिनी लघुभिराभरणैः प्रतिभाति मे। उडुगणैरुदयोन्मुखचन्द्रिका गतहिमैरिव चैत्रविभावरी॥७॥

धारिणी — (उपेत्य) जेदु अज्जउत्तो। (जयत्वार्यपुत्रः।)

विदूषकः — वड्ढदु होदी। (वर्धतां भवती।)

परिव्राजिका — विजयतां देवः।

राजा — भगवति अभिवादये।

परिव्राजिका — अभिमतसिद्धिरस्तु।

धारिणी (सस्मितम्) — अज्जउत्त, एसो दे अम्हहिं तरुणी-अणसहाअस्स असोओ सङ्केदघरअं सङ्कप्पिदो। (आर्यपुत्र, एष तेऽस्माभिस्तरुणीजनसहायस्याशोकः सङ्केतगृहं सङ्कल्पितः।)

विदूषकः — भो आराहिओसि। (भो आराधितोऽसि।)

राजा — (सव्रीडमशोकमभितः परिक्रामन्।) नायं देव्या भाजनत्वं न मेयः सत्काराणामीदृशानामशोकः। यः सावज्ञो माधवश्रीनियोगे पुष्पैः शंसत्यादरं यत्प्रयत्ने॥८॥

विदूषकः — भो विस्सद्धो भविअ इमं जोव्वणवदिं पेक्ख। (भो विश्रब्धो भूत्वेमां यौवनवतीं पश्य।)

धारिणी — का।

विदूषकः — तवणी आसोअस्स कुसुमसोहं। (तपनीयाशोकस्य कुसुमशोभाम्।)

(सर्वे उपविशन्ति।)

राजा (मालविकां विलोक्यात्मगतम्।) — कष्टं खलु ममाद्य सन्निधिविप्रयोगः। अहं रथाङ्गनामेव प्रिया सहचरीव मे। अननुज्ञातसम्पर्का धारिणी रजनीव नौ॥९॥

(ततः प्रविशति कञ्चुकी।)

कञ्चुकी — जयतु देवः। अमात्यो विज्ञापयति 'तस्मिन्विदर्भराजोपायने द्वे शिल्पदारिके मार्गपरिश्रमादलसशरीरे इति कृत्वा न प्रवेशिते। सम्प्रति देवोपस्थानयोग्ये। तत्राज्ञां देवो दातुमर्हति' इति।

राजा — प्रवेशय ते।

कञ्चुकी — यदाज्ञापयति देवः। (इति निष्क्रम्य ताभ्यां सह पुनः प्रविश्य।) इत इतो भवत्यौ।

प्रथमा (जनान्तिकम्) — हला रअणिए, अपुव्वं वि एदं राउअलं पविसन्तीए पसीददि मे अब्भन्तरगदो अप्पा। (हला रजनिके अपूर्वमप्येतद्राजकुलं प्रविशन्त्याः प्रसीदति ममाभ्यन्तरगत आत्मा।)

द्वितीया — जोसणिए मह वि एव्वं। अत्थि खु लोअवाओ। आआमि सुहं वा दुक्खं दा हिअअं समत्यीकरेदित्ति। (ज्योत्स्निके ममाप्येवम्। अस्ति खलु लोकवादः। आगामि सुखं वा दुःखं वा हृदयं समर्थीकरोतीति।)

प्रथमा — सो दाणिं सच्चो होदु। (स इदानीं सत्यो भवतु।)

कञ्चुकी — एष देव्या सह देवस्तिष्ठति। उपसर्पतां भवत्यौ।

(उभे उपसर्पतः। मालविका परिव्राजिका च चेट्यौ दृष्ट्वा परस्परमवलोकयतः।)

उभे (प्रणिपत्य) — जेदु भट्टा। जेदु भट्टिणी। (जयतु भर्ता। जयतु भट्टिनी।)

राजा — निषीदतम्।

(उभे उपविष्टे।)

राजा — कस्यां कलायामभियोगो भवत्योः।

उभे — भट्टा सङ्गीदए, अब्भंतरम्ह। (भर्तः सङ्गीते अभ्यन्तरे स्वः।)

राजा — देवि गृह्यतामनयोरन्यतरा।

देवी — मालविए इदो पेक्ख। कदरा दे सङ्गीदसहाइणी रुच्चइ। (मालविके इतः पश्य। कतरा ते स‌ङ्गीतसहायिनी रोचते।)

उभे (मालविकां विलोक्य) — अम्मो भट्टिदारिआ। जेदु भट्टिदारिआ। (तया सह बाष्पं विसृजतः।) (अम्भो भर्तृदारिका। जयतु भर्तृदारिका।)

(सर्वे सविस्मयमालोकयन्ति।)

राजा — के भवत्यौ। का वेयम्।

प्रथमा — देव इअं अम्हाणं भट्टिदारिआ। (देव इयमस्माकं भर्तृ-दारिका।)

राजा — कथमिव।

उभे — सुणादु भट्टा। जो सो भट्टिणा विअअदण्डेहिं विअब्भणाहं वसीकरिअ बन्धणादो मोइदो कुमारो माहवसेणो णाम तस्स इअं कणीअसी भइणी मालविआ णाम। (शृणोतु भर्ता। योऽसौ भर्त्रा विजयदण्डैर्विदर्भनाथं वशीकृत्य बन्धनान्मोचितः कुमारो माधवसेनो नाम तस्येयं कनीयसी भगिनी मालविका नाम।)

धारिणी — कहं राअदारिआ इअं। चन्दणं खु मए पादुआपरिहोएण दूसिदं। (कथं राजदारिकेयम्। चन्दनं खलु मया पादुकापरिभोगेण दूषितम्।)

राजा — अथात्रभवती कथमित्थंभूता।

मालविका (निःश्वस्यात्मगतम्।) — विहिणो णिओएण। (विधेर्नियोगेन।)

द्वितीया — सुणादु भट्टा। दाआदवसं गदे अम्हाणं भट्टिदारए माहवसेणे तस्स अमच्चेण अज्जसुमदिणा अम्हारिसं परिअणं उज्झिअ गूढं अवणीदा एसा। (शृणोतु भर्ता। दायादवशां गतेऽस्माकं भर्तृदारके माधवसेने तस्यामात्येनार्यसुमतिना अस्मादृशं परिजनं उज्झित्वा गूढमपनीतैषा।)

राजा — श्रुतपूर्वं मयैतावत्। ततस्ततः।

उभे — एत्तिअं एव्व आणीमो। अदो वरं ण आणीमो। (एतावदेव जानीवः। अतः परं न जानीवः।)

परिव्राजिका — अतः परमहं मन्दभागिनी कथयिष्यामि।

उभे — भट्टिदारिए अज्जकोसिईए विअ सरसञ्जोओ पडिभादि। (भर्तृदारिके आर्यकौशिक्या इव स्वरसंयोगः प्रतिभाति।)

मालविका — अह इं। (अथ किम्।)

उभे — जदिवेसधारिणी अज्जकोसिई दुक्खेण विभावीअदि। भअवदि वन्दामो। (यतिवेषधारिणी आर्यकौशिकी दुःखेन विभाव्यते। भगवति वन्दावहे।)

परिव्राजिका — स्वस्ति भवतीभ्याम्।

राजा — कथमाप्तवर्गोऽयं भवत्याः।

परिव्राजिका — एवमेतत्।

विदूषकः — तेणहि कहेदु दाणिं भअवदी अत्तहोदीए उत्तन्तसेसं। (तेन हि कथयत्विदानीं भगवती अत्रभवत्या वृत्तान्तशेषम्।)

परिव्राजिका (सवैक्लव्यम्) — श्रूयतां तावत्। माधवसेनसचिवं सुमतिं ममाग्रजमअवगच्छ।

राजा — उपलब्धम्। ततस्ततः।

परिव्राजिका — स इमां तथागतभ्रातृकां मया सार्धमपवाह्य भवत्सम्बन्धाकाङ्क्षया पथिकसार्थं विदिशागामिनमनुप्रविष्टः।

राजा — ततस्तत:।

परिव्राजिका — ततश्च तूणीरपट्टपरिणद्धभुजान्तराल- मापार्ष्णिलम्बिशिखिबर्हकलापधारि। कोदण्डपाणि निनदत्प्रतिरोधकानामापातदुष्प्रसहमाविरभूदनीकम्॥१०॥

(मालविका भयं रूपयति।)

विदूषकः — भोदि मा मआहि। अदिक्कन्तं खु भअवदी कहेदि। (भवति मा भैषीः। अतिक्रान्तं खहु भगवती कथयति।)

राजा — ततस्ततः।

परिव्राजिका — ततो मुहूर्तं बद्धयुद्धास्ते पराङ्मुखीकृताः सार्थवाहयोद्धारः तस्करैः।

राजा — भगवति अतः परमिदानीं कष्टं श्रोतव्यम्।

परिव्राजिका — ततः स मत्सोदर्यः इमां परीप्सुर्जातेः पराभिभवकातराम्। भर्तृप्रियः प्रियैर्भर्तुरानृण्यमसुभिर्गतः॥११॥

प्रथमा — हा हदो सुमदी। (हा हतः सुमतिः।)

द्वितीया — अदो खु भट्टिदारिआए एआरिसी समवत्या संवृत्ता। (अतः खलु भर्तृदारिकाया एतादृशी समवस्था संवृत्ता।)

(परिव्राजिका बाष्पं विकिरति।)

राजा — भगवति तनुभृतामीदृशी लोकयात्रा। न शोच्यस्तत्रभवान् सफलीकृतभर्तृपिण्डः। ततः।

परिव्राजिका — ततो मोहं गताहं यावत्संज्ञामुपलभे तावदियं दुर्लभदर्शना संवृत्ता।

राजा — महत् खलु कृच्छ्रमनुभूतं भगवत्या।

परिव्राजिका — ततो भ्रातुः शरीरमग्निसात्कृत्वा पुनर्नवीकृतवैधव्यदुःखया मया त्वदीयं देशमवतीर्य इमे काषाये गृहीते।

राजा — युक्तम्। सज्जनस्यैष पन्थाः। ततस्ततः।

परिव्राजिका — सेयमाटविकेभ्यो वीरसेनं वीरसेनाद्देवीं गता देवीगृहे लब्धप्रवेशया मया पुनर्दृष्टेत्येतदवसानं कथायाः।

मालविका (आत्मगतम्) — किं णु खु संपदं भट्टा भणादि। (किं नु खलु साम्प्रतं भर्ता भणति।)

राजा — अहो परिभवोपहारिणो विनिपाताः। कुतः। प्रेष्यभावेन नामेयं देवीशब्दक्षमा सती। स्नानीयवस्त्रक्रियया पत्रोर्णं वोपयुज्यते॥१२॥

धारिणी — भअवदि तुए अहिजणवर्दि मालविअं अणाचक्खन्तीए असम्पदं किदं। (भगवति त्वयाभिजनवतीं मालविकामनाचक्षाणया असाम्प्रतं कृतम्।)

परिव्राजिका — शान्तं पापं शान्तं पापम्। कारणेनैव खलु मया नैभृत्यमवलम्बितम्।

धारिणी — किं विअ कारणं। (किमिव कारणम्।)

राजा — यदि वक्तव्यं कथ्यताम्।

परिव्राजिका — श्रूयताम्। इयं पितरि जीवति केनापि देवयात्रागतेन सिद्धादेशेन साधुना मत्समक्षमादिष्टा। 'संवत्सरमात्रं प्रेष्यभावमनुभूय ततः सदृशभर्तृगामिनी भविष्यति' इति। तमेनमवश्यं भाविनमादेशमस्यास्त्वत्पादशुश्रूषया परिणमन्तमावेक्ष्य कालप्रतीक्षया मया साधु कृतमिति पश्यामि।

राजा — युक्तोपेक्षा।

कञ्चुकी (प्रविश्य) — देव कथान्तरेणान्तरितमिदममात्यो विज्ञापयति। 'विदर्भगतमनुष्ठेयमवधारितमस्माभिः। देवस्य तावदभिप्रायं श्रोतुमिच्छामि' इति।

राजा — मौद्गल्य तत्रभवतोर्भ्रात्रोर्यज्ञसेनमाधवसेनयोर्द्वैराज्यमवस्थापयितुकामोऽस्मि। तौ पृथग्वरदाकूले शिष्टामुत्तरदक्षिणे। नक्तंदिवं विभज्योभौ शीतोष्णकिरणाविव॥१३॥

कञ्चुकी — देव एवममात्यपरिषदे विज्ञापयामि।

(राजा अङ्गुल्यानुमन्यते। निष्क्रान्तः कञ्चुकी।)

प्रथमा (जनान्तिकम्) — भट्टिदारिए दिट्ठिआ भट्टिदारओ अद्धरज्जे पदिट्ठं गमिस्सदि। (भर्तृदारिके दिष्ट्या भर्तृदारकोऽर्धराज्ये प्रतिष्ठां गमिष्यति।)

मालविका — एत्तिअं दाव बहुमन्तव्वं जं जीवितसंसआदो मुत्तो। (एतावत्तावब्दहु मन्तव्यं यज्जीवितसंशयान्मुक्तः।)

कञ्चुकी (प्रविश्य) — विजयतां देवः। अमात्यो विज्ञापयति। अहो कल्याणी देवस्य बुद्धिः। मन्त्रिपरिषदोऽप्येवमेव दर्शनम्। कुतः द्विधा विभक्तां श्रियमुद्वहन्तौ धुरं रथाश्वाविव सङ्ग्रहीतुः। तौ स्थास्यतस्ते नृपती निदेशे परस्परावग्रहनिर्विकारौ॥१४॥

राजा — तेन हि मन्त्रिपरिषदं ब्रूहि। सेनापतये वीरसेनाय लिख्यतामेवं क्रियतामिति।

कञ्चुकी — यदाज्ञापयति देवः। (इति निष्क्रम्य सप्राभृतकं लेखं गृहीत्वा पुनः प्रविश्य।) अनुष्ठिता प्रभोराज्ञा। अयं पुनरिदानीं देवस्य सेनापतेः पुष्पमित्रस्य सकाशात्सप्राभृतको लेखः प्राप्तः। प्रत्यक्षीकरोत्वेनं देवः।

(राजा सहसोत्थाय प्राभृतकं सोपचारं परिगृह्य शिरसि कृत्वा परिजनायार्पयति। लेखं च नाट्येन उद्वेष्टयति।)

धारिणी — अम्महे तदोमुहं एव्व मे हिअअं। सुणिस्सं दाव गुरुअणकुसलाणन्तरं पुत्तस्स वसुमित्तस्स उत्तन्तं। अदिभारे खु सेणावइणा णिउत्तो मे पुत्तओ (अम्महे ततोमुखमेव मे हृदयम्। श्रोष्यामि तावद् गुरुजनकुशलानन्तरं पुत्रस्य वसुमित्रस्य वृत्तान्तम्। अतिभारे खलु सेनापतिना नियुक्तो मे पुत्रकः।)

राजा (उपविश्य वाचयति।) — स्वस्ति। यज्ञशरणात्सेनापतिः पुष्पमित्रो वैदिशस्थं पुत्रमायुष्मन्तमग्निमित्रं स्नेहात्परिष्वज्यानुदर्शयति। विदितमस्तु। योऽसौ राजसूयज्ञदीक्षितेन मया राजपुत्रशतपरिवृतं गोप्तारं वसुमित्रमादिश्य संवत्सरोपावर्तनीयो निरर्गलस्तुरगो विसृष्टः स सिन्धोर्दक्षिणे रोधसि चरन्नश्वानीकेन यत्रमानां प्रार्थितः। तत उभयोः सेनयोर्महानासीत्सम्मर्दः।

(धारिणी विषादं रूपयति।)

राजा — कथमीदृशं संवृत्तम्। (शेषं पुनर्वाचयति।) ततः परान्पराजित्य वसुमित्रेण धन्विना। प्रसह्य हियमाणो मे वाजिराजो निवर्तितः॥१५॥

धारिणी — इमिणा दाणि अस्ससइ मे हिअअं। (अनेनेदानीमाश्वसिति मे हृदयम्।)

राजा (लेखशेषं वाचयति।) — सोहमिदानीमंशुमतेव सगरः पौत्रेण प्रत्याहृताश्वो यक्ष्ये। तदिदानीमकालहीनं विगतरोषचेतसा भवता वधूजनेन सह यज्ञसेवनायागन्तव्यमिति।

राजा — अनुगृहीतोऽस्मि।

परिव्राजिका — दिष्ट्या पुत्रविजयेन दम्पती वर्धेते। (देवीं विलोक्य।) भर्त्रासि वीरपत्नीनां श्लाघ्यायां स्थापिता धुरि। वीरसूरिति शब्दोऽयं तनयात्त्वामुपस्थितः॥१६॥

विदूषकः — होदि परितुट्ठोम्हि पिदरं अणुगदो वच्छोत्ति। (भवति परितुष्टोऽस्मि पितरमनुगतो वत्स इति।)

राजा — मौद्गल्य कलभेन खलु यूथपतिरनुकृतः।

कञ्चुकी — नैतावता वीरविजृम्भितेन चित्तस्य नो विस्मयमादधाति। यस्याप्रधृष्यः प्रभवस्त्वमुच्चै- र्वन्हेरपां दग्धुरिवोरुजन्मा॥१७॥

राजा — मौद्गल्य यज्ञसेनश्यालमुररीकृत्य मुच्यन्तां सर्वे बन्धनस्थाः।

कञ्चुकी — यदाज्ञापयति देवः। (इति निष्क्रान्तः)

धारिणी — जअसेणे गच्छ इरावदीपमुहाणं अन्देउराणं पुत्तस्स विअअउत्तन्तं णिवेदेहि। (जयसेने गच्छ इरावतीप्रमुखानामन्तःपुराणां पुत्रस्य विजयवृत्तान्तं निवेदय।)

प्रतीहारी — तह। (तथा।) (इति प्रस्थिता।)

धारिणी — एहि दाव। (एहि तावत्।)

प्रतीहारी (प्रतिनिवृत्य) — इअम्हि। (इयमस्मि।)

धारिणी (जनान्तिकम्) — जं मए असोअदोहलणिओए पडिण्णादं मालविआए एतं से अहिअणं अ णिवेदिअ मह वअणेण इरावदिं अणुणेहि। तुए हं सच्चादो ण परिब्भंसइदव्वत्ति। (यन्मयाशोकदोहदनियोगे प्रतिज्ञातं मालविकायै तदस्या अभिजनं च निवेद्य मम वचनेनेरावतीमनुनय—त्वयाहं सत्यान्न परिभ्रंशयितव्येति।)

प्रतीहारी — जं भट्टिणी आणवेदि। (इति निष्क्रम्य पुनः प्रविश्य।) भट्टिणि पुत्तविअएण अविभत्तपरितोसाणं अन्देउराणं आभरणाणं रअणमञ्जूसम्हि संवुत्ता। (यद्भट्टिन्याज्ञापयति। भट्टिनि पुत्रविजयेनाविभक्तपरितोषाणामन्तःपुराणामाभरणानां रत्नमञ्जुषास्मि संवृत्ता।)

धारिणी — किं एत्थ अच्छरिअं। णं साहारणो ताणं मह अ एसो अब्भुदओ। (किमत्राश्चर्यम्। ननु साधारणस्तासां मम चैषोऽभ्युदयः।)

प्रतीहारी (जनान्तिकम्) — भट्टिणि इरावदी विण्णवेदि। सारस खु देवीए पहवंतीए तुह वअणं पुढमसङ्कप्पिदं ण जुज्जइ अण्णहा कादुं। (भट्टिनि इरावती विज्ञापयति। सदृशं खलु देव्याः प्रभवन्त्यास्तव वचनं प्रथमसङ्कल्पितं न युज्यतेऽन्यथाकर्तुमिति।)

धारिणी — भअवई तुए अणुण्णादा इच्छामि अज्जसुमदिणा पुढमसंभाविदं अज्जउत्तस्स मालविअं पडिवादेदुं। (भगवति त्वयानुज्ञाता इच्छाम्यार्यसुमतिना प्रथमसंभावितामार्यपुत्रस्य मालविकां प्रतिपादयितुम्।)

परिव्राजिका — इदानीमपि त्वमेवास्याः प्रभवसि।

धारिणी (मालविकां हस्ते गृहीत्वा।) — अज्जउत्तो इइं पिअणिवेदणाणुरुवं पारितोसिअं पडिच्छदु। (आर्यपुत्र इदं प्रियनिवेदनानुरूपं पारितोषिकं प्रतीच्छतु।)

(राजा सव्रीडं जोषमास्ते।)

धारिणी (सस्मितम्) — किं ओहिरेदि मं अज्जउत्तो। (किमवधीरयति मामार्यपुत्रः।)

विदूषकः — होदि एसो लोअव्ववहारो सव्वो वि णववरो लज्जादुरो होदित्ति। (भवति एष लोकव्यवहारः सर्वोऽपि नववरो लज्जातुरो भवतीति।)

(राजा विदूषकमवेक्षते।)

विदूषकः — अहवा देवीए किददेवीसद्दं मालविअं अत्तभवं पडिग्गहीदुं इच्छदि। (अथवा देव्या कृतदेवीशब्दां मालविकामत्रभवान् प्रतिग्रहीतुमिच्छति।)

धारिणी — एदाए राअदारिआए अहिअणेण एव्व दिण्णो देवीसद्दो। किं पुणरुत्तेण। (एतस्या राजदारिकाया अभिजनेनैव दत्तोऽस्यै देवीशब्दः। किं पुनरुक्तेन।)

परिव्राजिका — मा मैवम्। अप्याकरसमुत्पन्ना मणिजातिरसंस्कृता। जातरूपेण कल्याणि न हि संयोगमर्हति॥१८॥

धारिणी — मरिसेदु भअवदी। अब्भुदअकहाए जं मए ण लक्खिदं। जअसेणे गच्छ। तुमं दाव कोसेअपत्तोण्णं से सिद्धं उवहर। (मर्षयतु भगवती। अभ्युदयकथया यन्मया न लक्षितम्। जयसेने गच्छ। त्वं तावत्कौशयपत्रोर्णमस्यै शीघ्रमुपहर।)

प्रतीहारी — जं भट्टिणी आणवेदि। (इति निष्क्रम्य पत्रोर्णं गृहीत्वा पुनः प्रविश्य।) देवि एदं। (यद्भट्टिन्याज्ञापयति। देवि एतत्।)

धारिणी (मालविकामवगुण्ठ्य) — दाणिं अज्जउत्तो पडिच्छदु। (इदानीमार्यपुत्रः प्रतीच्छतु।)

राजा — देवि त्वच्छासनादप्रत्युत्तरा वयम्।

परिव्राजिका — हन्त प्रतिगृहीता।

विदूषकः — अहो देवीए अणुऊलदा। (अहो देव्या अनुकूलता।)

(धारिणी परिजनमवलोकयति।)

परिजनः (मालविकामुपेत्य) — जेदु भट्टिणी। (जयतु भट्टिनी।)

(धारिणी परिव्राजिकां निर्वर्णयति।)

परिव्राजिका — नैतच्चित्रं त्वयि। कुतः। प्रतिपक्षेणापि पतिं सेवन्ते भर्तृवत्सलाः साध्व्यः। अन्यसरितां शतानि हि समुद्रगाः प्रापयन्त्यब्धिम्॥१९॥

निपुणिका (प्रविश्य) — जेदु भट्टा। इरावदी विण्णवेदि जहाहि उवआरादिक्कमेण किदावराहाए ण मए भट्टिणो अणुऊलं आअरिदं। सम्पदं पुण्णमणोरहेण भट्टिणा अहं वि पसादमेत्तेण वि सम्भावइदव्वति। (जयतु भर्ता। इरावती विज्ञापयति। यथा हि उपचारातिक्रमेण कृतापराधया न मया भर्तुरनुकूलमाचरितम्। साम्प्रतं पूर्णमनोरथेन भर्त्रा अहमपि प्रसादमात्रेण संभावयितव्या इति।)

धारिणी — णिउणिए अवस्सं ताए सन्देसं सेविदुं अज्जउत्तो जाणिस्सदि। (निपुणिके अवश्यं तस्याः सन्देशं सेवितुमार्यपुत्रो ज्ञास्यति।)

निपुणिका — जं देवी आणवेदि। (यद्देव्याज्ञापयति।) (इति निष्क्रान्ता।)

परिव्राजिका — देव अहममुना भवत्संबन्धेन चरितार्थं माधवसेनं सभाजयितुमिच्छामि यदि मे तव प्रसादः।

धारिणी — भअवदि ण जुत्तं अम्हे परिच्चत्तुं। (भगवति न युक्तमस्मान् परित्यक्तुम्।)

राजा — भगवति मदीयेषु लेखेषु तत्रभवते त्वामुद्दिश्य सभाजनाक्षराणि पातयिष्यामि।

परिव्राजिका — युवयोः स्नेहेन परवानयं जनः।

धारिणी — आणवेदु अज्जउत्तो किं भूओ वि पिअं अणुचिठ्ठामि। (आज्ञापयत्वार्यपुत्रः किं भूयोऽपि प्रियमनुतिष्ठामि।)

राजा — किमतः परमपि प्रियमस्ति। तथापीदमस्तु।

(भरतवाक्यम्।)

त्वं मे प्रसादसुमुखी भव चण्डि नित्य- मेतावदेव मृगये प्रतिपक्षहेतोः। आशास्यमीतिविगमप्रभृति प्रजानां सम्पत्स्यते न खलु गोप्तरि नाग्निमित्रे॥२०॥

(इति निष्क्रान्ताः सर्वे।) ॥ इति पञ्चमोऽङ्कः ॥