Skip to content

Vikramorvashiyam

Act 1

(प्रथमोऽङ्कः ।)

वेदान्तेषु यमाहुरेकपुरुषं व्याप्य स्थितं रोदसी यस्मिन्नीश्वर इत्यनन्यविषयः शब्दो यथार्थाक्षरः । अन्तर्यश्च मुमुक्षुभिर्नियमितप्राणादिभिर्मृग्यते स स्थाणुः स्थिरभक्तियोगसुलभो निःश्रेयसायास्तु वः ॥ १ ॥

(नान्द्यन्ते)

सूत्रधारः — (नेपथ्याभिमुखमवलोक्य) मारिष इतस्तावत् ।

(प्रविश्य पारिपार्श्वकः)

पारिपार्श्वकः — भाव अयमस्मि ।

सूत्रधारः — मारिष बहुशस्तु परिषदा पूर्वेषां कवीनां दृष्टः प्रयोगबन्धः । सोहमद्य विक्रमोर्वशीयं नामापूर्वं नाटकं प्रयोक्ष्ये । तदुच्यतां पात्रवर्गः स्वेषु स्वेषु पाठेष्वसंमूढैर्भवितव्यमिति ।

पारिपार्श्वकः — यदाज्ञापयति भावः । (इति निष्कान्तः)

सूत्रधारः — यावदिदानीमार्यमिश्रान्विज्ञापयामि । (प्रणिपत्य ।)

प्रणयिषु वा दाक्षिण्यादथवा सद्वस्तुपुरुषबहुमानात् । शृणुत मनोभिरवहितैः क्रियामिमां कालिदासस्य ॥ २ ॥

(नेपथ्ये ।) परित्ताअदु परित्ताअदु जो सुरपक्खवादी जस्स वा अंम्बर-अले गदी अत्थि । (परित्रायतां परित्रायतां यः सुरपक्षपाती यस्य वा अम्बरतले गतिरस्ति ।)

सूत्रधारः — (कर्णं दत्त्वा) अये किं नु खलु मद्विज्ञापनानन्तरं कुररीणामिवाकाशे शब्दः श्रूयते । (विचिन्त्य) भवतु । ज्ञातम् ।

ऊरूद्भवा नरसखस्य मुनेः सुरस्त्री कैलासनाथमुपसृत्य निवर्तमाना । बन्दीकृता विबुधशत्रुभिरर्धमार्गे क्रन्दत्यतः शरणमप्सरसां गणोऽयम् ॥ ३ ॥

(इति निष्क्रान्तः)

(प्रस्तावना ।)

(ततः प्रविशन्ति अप्सरसः ।)

सर्वाः — परित्ताअदु परित्ताअदु जो सुरपक्खवादी जस्स वा अंम्बरअले गदी अस्थि । (परित्रायतां परित्रायतां यः सुरपक्षपाती यस्य वा अम्बरतले गतिरस्ति ।)

(ततः प्रविशति राजा रथेन सूतश्च ।)

राजा — अलमलमाक्रन्दितेन । सूर्योपस्थानात्प्रतिनिवृत्तं पुरूरवसं मामुपेत्य कथ्यतां कुतो भवत्यः परित्रातव्या इति ।

रम्भा — असुरावलेवादो । (असुरावलेपात्)

राजा — किं पुनरसुरावलेपेन भवतीनामपराद्धम् ।

मेनका — सुणादु महाराओ । जा तवोविसेसपरिसङ्किदस्स सुउमारं पहरणं महिंदस्स । पच्चादेसो रूवगव्विदाए सिरीए । अलंकारो सग्गस्स । सा णो पिअसही उव्वसी कुबेरभवणादो पडिणिवट्टमाणा समावत्तिदिट्ठेण हिरण्णउरवासिणा केसिणा दाणवेण चित्तलेहादुदीआ अद्धपहं जेव्व बंदिग्गाहं गहिदा । (शृणोतु महाराजः । या तपोविशेषपरिशङ्कितस्य सुकुमारं प्रहरणं महेन्द्रस्य । प्रत्यादेशो रूपगर्वितायाः श्रियोऽलंकारः स्वर्गस्य । सा नः प्रियसख्युर्वशी कुबेरभवनात्प्रतिनिवर्तमाना समापत्तिदृष्टेन हिरण्यपुरवासिना केशिना दानवेन चित्रलेखाद्वितीयाऽर्धपथ एव बन्दिग्राहं गृहीता ।)

राजा — अपि ज्ञायते कतमेन दिग्भागेन गतः स जाल्म इति ।

सहजन्या — पुव्वुत्तरेण । (पुर्वोत्तरेण)

राजा — तेन हि विमुच्यतां विषादः । यतिष्ये वः सखीप्रत्यानयनाय ।

रम्भा — सरिसं खु सोमादो एक्कन्दरस्स । (सदृशं खलु सोमादेकान्तरस्य ।)

राजा — क्व पुनर्मां भवत्यः प्रतिपालयिष्यन्ति ।

सर्वाः — इमस्सिं हेमकूडसिहरे । (एतस्मिन्हेमकूटशिखरे ।)

राजा — सूत ऐशानीं दिशं प्रति चोदयाश्वानाशुगमनाय ।

सूतः — यदाज्ञापयत्यायुष्मान् (इति यथोक्तं करोति ।)

राजा — (रथवेगं निरूपयन्) साधु साधु । अनेन रथवेगेन पूर्वप्रस्थितं वैनतेयमप्यासादयेयं किं पुनस्तमपकारिणं मघोनः । तथा हि

अग्रे यान्ति रथस्य रेणुवदमी चूर्णीभवन्तो घना- श्चक्रभ्रान्तिररान्तरेषु जनयत्यन्यामिवारावलीम् । चित्रन्यस्तमिवाचलं हयशिरस्यायामवच्चामरं यष्ट्यग्रे च समं स्थितो ध्वजपटः प्रान्ते च वेगानिलात् ॥ ४ ॥

(निष्क्रान्तो रथेन राजा सूतश्च)

रम्भा — हला जहणिद्दिट्ठं पदेसं संकमामो । (हला यथानिदिष्टं प्रदेशं संक्रामामः ।)

शेषाः — तह । (तथा ।) (इति सर्वाः शैलावतरणं नाट्ययित्वा स्थिताः)

रम्भा — अवि णाम सो राएसी समुद्धरे णो हिअअसल्लं । (अपि नाम स राजर्षिः समुद्धरेन्नो हृदयशल्यम् ।)

मेनका — मा दे संसओ होदु । उवाट्ठदसंपराओ महींदो वि त्स मज्झिमलोआदो सबहुमाणं आणाविअ तं एव्व विअअसेणामुहे णिओजेदि । (मा ते संशयो भवतु । उपस्थितसंपरायो महेन्द्रो मध्यमलोकात्सबहुमानमानाय्य तमेव विजयसेनामुखे नियोजयति ।)

रम्भा — सव्वहा इह विअई भोदु । (सर्वथेह विजयी भवतु ।)

सहजन्या — (क्षणमात्रं स्थित्वा) हला समस्ससघ । समस्ससघ । एसो उच्चलिदहरिणकेदणो तस्स राएसिणो सोमदत्तो रहो दीसदि । ण क्खु सो अकिदत्थो णिवत्तिस्सदि । (हला समाश्वसित समाश्वसित । एष उच्चलितहरिणकेतनस्तस्य राजर्षेः सोमदत्तो रथो दृश्यते । न खलु सोऽकृतार्थो निवर्तिष्यते ।)

(सर्वा उच्चक्षुषो विलोकयन्ति ।)

(ततः प्रविशति राजा सूतश्च । चित्रलेखावलम्बितहस्ता भयनिमीलिताक्षी चोर्वशी ।)

चित्रलेखा — समस्ससदु समस्ससदु पिअसही । (समाश्वसितु समाश्वसितु प्रियसखी ।)

राजा — सुन्दरि समाश्वसिहि समाश्वसिहि । गतं भयं भीरु सुरारिसंभवं त्रिलोकरक्षी महिमा हि वज्रिणः । तदेतदुन्मीलय चक्षुरायतं महोत्पलं प्रत्युषसीव पद्मिनी ॥ ५ ॥

चित्रलेखा — अम्हहे कहं ऊससिदमेत्तजीविदा अज्जवि सण्णं ण पडिवज्जदि । (अहो कथमुच्छ्वसितमात्रजीविताऽद्यापि संज्ञां न प्रतिपद्यते ।)

राजा — बलवदत्रभवती परित्रस्ता । तथा हि मुञ्चति न तावदस्याः कम्पं कुसुमसमबन्धनं हृदयम् । पश्य हरिचन्दनेन स्तनमध्योच्छासिना कथितम् ॥ ६ ॥

चित्रलेखा — हला पज्जवत्थावेहि अत्ताणं । अणच्छरा विअ मे पडिहासि । (सखि पर्यवस्थापय आत्मानम् । अनप्सरा इव मे प्रतिभासि ।)

राजा — अयि प्रकृतिमापद्यते ते सखी । पश्य आविर्भूते शशिनि तमसा मुच्यमानेव रात्रि- नैशस्याचिहुतभुजब इव च्छिन्नभूयिष्ठधूमा । मोहेनान्तर्वरतनुरियं लक्ष्यते मुक्तकल्पा गङ्गा रोधःपतनकलुषा गच्छतीव प्रसादम् ॥ ७ ॥

चित्रलेखा — सहि वीसद्धा होहि । पराभूदा खु तिदसपरिपंथिणो हदासा । (सखि विश्रब्धा भव । पराभूताः खलु त्रिदशपरिपन्थिनो हताशाः ।)

उर्वशी — (चक्षुषी उन्मील्य) किं पहाव-दंसिणा महीन्देण । (किं प्रभावदर्शिना महेन्द्रेण ।)

चित्रलेखा — ण महीन्देण । महीन्दसरिसाणुभावेण इमिणा राएसिणा । (न महेन्द्रेण । महेन्द्रसदृशानुभावेन अनेन राजर्षिणा ।)

उर्वशी — (राजानं विलोक्य । आत्मगतम्) उवकिदं खु दाणवेहिं । (उपकृतं खलु दानवैः ।)

राजा — (प्रकृतिस्तामुर्वशीं निर्वर्ण्य । स्वगतम्) स्थाने खलु नारायणमृषिं विलोभयन्त्यस्तदूरुसंभवामिमां दृष्ट्वा व्रीडिताः सर्वा अप्सरस इति । अथ वा नेयं तपस्विनः सृष्टिर्भवितुमर्हति । तथा हि

अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तप्रभः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ ८ ॥

उर्वशी — हला सो सही जणो कहिं खु दाणिं भवे । (हला स सखीजनः कुत्र क्व खलु भवेत् ।)

चित्रलेखा — महाराओ अभअदाई जाणादि । (महाराजः अभयदायी जानाति ।)

राजा — (उर्वशीमवलोकयन्) महति विषादे वर्तते । पश्यतु भवती यदृच्छया त्वं सकृदप्यवन्ध्ययोः पथि स्थिता सुन्दरि यस्य नेत्रयोः । त्वया विना सोऽपि समुत्सुको भवेत् सखीजनस्ते किमुतार्द्रसौहृदः ॥ ९ ॥

उर्वशी — (अपवार्य) अहिजादं खु से वअणं । अह वा चंदादो अमिअं ति किं एत्थ अच्छरिअं [ प्रकाशम् ] अदो एव्व णं पेक्खिदुं तुवरदि मे हिअअं । (अभिजातं खल्वस्य वचनम् । अथवा चन्द्रादमृतमिति किमत्राश्चर्यम् । अत एवैनं प्रेक्षितुं त्वरते मे हृदयम् ।)

राजा — (हस्तेन दर्शयन् ।)

एताः सुतनु मुखं ते सख्यः पश्यन्ति हेमकूटगताः । प्रत्यागतप्रसादं चन्द्रमिवोपप्लवान्मुक्तम् ॥ १० ॥

चित्रलेखा — हला पेक्ख । (हला पश्य।)

उर्वशी — (राजानं सस्पृहं पश्यन्ती) समदुक्खो पिबइ व्व मं णयणेहिं । (समदुःखः पिबतीव मां नयनाभ्याम् ।)

चित्रलेखा — (साकूतम्) अइ को । (अयि कः ।)

उर्वशी — सहीअणो । (सखीजनः ।)

रम्भा — (सहर्षम्) एसो चित्तलेहादुदिअं उव्वसिं गेण्हिअ विसाहासमीवगदो विअ चंन्दो उवट्ठिदो राएसी । (एष चित्रलेखाद्वितीयामुर्वशीं गृहीत्वा विशाखासमीपगत इव चन्द्रः उपस्थितो राजर्षिः ।)

मेनका — (निर्वर्ण्य) दुवे वि णो पिआणि उवणदाणि । इअं पच्चाणीदा सही अअंच अपरिक्खदो महाराओ त्ति । (द्वे अप्यस्माकं प्रिये उपनते । इयं प्रत्यानीता सखी अयं चापरिक्षतो महाराज इति ।)

सहजन्या — सखि सुट्ठु भणासि । दुज्जआ खु दाणवा । (सखि सुष्ठु भणसि । दुर्जयाः खलु दानवाः ।)

राजा — सूत इदं तच्छैलशिखरम् । अवतार्यतां रथः ।

सूतः — यदाज्ञापयत्यायुष्मान् (इति यथोक्तं करोति)

राजा — (चक्रेोद्धातं रूपयित्वा । आत्मगतम्) हन्त दत्तफलो मे विषमावतारः ।

यदयं रथसंक्षोभादंसेनांसो रथोपमश्रोण्याः । स्पृष्टः सरोमविक्रियमङ्कुरितं मनसिजेनेव ॥ ११ ॥

उर्वशी — (सव्रीडम्) हला किं पि परदो ओसर । (सखि किमपि परतोपसर ।)

चित्रलेखा — (सस्मितम्) णाहं सक्का । (नः शक्ता ।)

रम्भा — एध संभावेम्ह राएसिं । (सर्वा उपसर्पन्ति) (एत संभावयामो राजर्षिम् ।)

राजा — सूत स्थापय तावद्रथं । यावत्पुनरियं सुभ्रूरुत्सुकाभिः समुत्सुका । सखीभिर्याति संपर्कं लताभिः श्रीरिवार्तवी ॥ १२ ॥

(सूतस्तथा करोति ।)

सर्वाः — दिट्ठिआ महाराओ विअएण वड्ढदि । (दिष्ट्या महाराजो विजयेन वर्धते ।)

राजा — भवत्यश्च सखीसमागमेन !

उर्वशी — (चित्रलेखादत्तहस्ता रथादवतीर्य) हला एध पीडिदं मं परिस्सजध । ण क्खु मे आसा आसि भूओवि सहीअणं पेक्खिस्सं ति । (हला एत पीडितं मां परिष्वजध्वम् । न खलु मम आशाऽऽसीद् भूयोऽपि सखीजनं प्रेक्षिष्य इति ।)

रम्भा — सव्वहा महाराओ कप्पसदाइं पुहविं पालअंतो होदु । (सर्वथा महाराजः कल्पशतानि पृथ्वीं पालयिता भवतु ।)

सूतः — आयुष्मन् पूर्वस्यां दिशि महता रथवेगेनोपदर्शितः शब्दः ।

अयं च गगनात्कोऽपि तप्तचामीकराङ्गदः । अवरोहति शैलाग्रं तडित्वानिव तोयदः ॥ १३ ॥

(पश्यन्त्यप्सरसः ।)

सर्वाः — अम्मो चित्तरहो । (अहो चित्ररथः ।)

(ततः प्रविशति चित्ररथः ।)

चित्ररथः — (राजानं दृष्ट्वा सबहुमानम्) दिष्ट्या महेन्द्रोपकारपर्याप्तेन विक्रममहिम्ना वर्धते भवान् ।

राजा — अये गन्धर्वराजः (रथादवतीर्य) स्वागतं प्रियसुहृदे (परस्परं हस्तौ स्पृशतः)

चित्ररथः — वयस्य केशिना हतामुर्वशीं नारदादुपश्रुत्य प्रत्याहरणार्थमस्याः शतक्रतुना गन्धर्वसेना समादिष्टा । ततो वयमन्तरा चारणेभ्यस्त्वदीयं जयोदाहरणं श्रुत्वा त्वामिहस्थमुपागताः । स भवानिमां पुरस्कृत्य सहास्माभिर्मघवन्तं द्रष्टुमर्हति । महत् खलु तत्रभवतो मघोनः प्रियमनुष्ठितं भवता ।

पश्य पुरा नारायणेनेयमतिसृष्टा मरुत्वते । दैत्यहस्तादपाच्छिद्य सुहृदा संप्रति त्वया ॥ १४ ॥

राजा — मा मैवम् ।

ननु वज्रिण एव वीर्यमेतद् विजयन्ते द्विषतो यदस्य पक्ष्याः । वसुधाधरकन्दराभिसर्पि प्रतिशब्दोपि हरेर्भिनत्ति नागान् ॥ १५ ॥

चित्ररथः — युक्तमेतत् । अनुत्सेकः खलु विक्रमालंकारः ।

राजा — सखे नायमवसरो मम शतक्रतुं द्रष्टुम् । त्वमे वात्रभवर्ती प्रभोरन्तिकं प्रापय ।

चित्ररथः — यथा भवान् मन्यते । इत इतो भवत्यः ।

(अप्सरसः प्रस्थिताः ।)

उर्वशी — (जनान्तिकम्) हला चित्तलेहे उवआरिणं पि राएसिं ण सक्कुणोमि आमन्तेदुं । ता तुमं मे मुहं होहि । (हला चित्रलेखे उपकारिणमपि राजर्षि न शक्नोमि आमन्त्रयितुम् । तम् त्वं मम मुखं भव ।)

चित्रलेखा — (राजानमुपेत्य) वअस्स उव्वसी विण्णवेदि महाराएण अभ्भणुण्णादा इच्छामि पिअसहिं विअ महाराअस्स कित्तिं महिन्द-लोअं णेदुं ति । (वयस्य उर्वशी विज्ञापयति महाराजेन अभ्यनुज्ञाता इच्छामि प्रियसखीमिव महाराजस्य कीर्तिं महेन्द्रलोकं नेतुमिति ।)

राजा — गम्यतां पुनर्दर्शनाय ।

(सर्वाः सगन्धर्वा आकाशोत्पतनं रूपयन्ति ।)

उर्वशी — (उत्पतनभङ्गं रूपयित्वा) अम्हहे लदा-विडवे मे एआवलो लग्गा । (परिवृत्य) चित्तलेहे मोआवेहि दाव णं । (अहो लताविटपे ममैकावली लग्ना । चित्रलेखे मोचय तावदेनाम् ।)

चित्रलेखा — (सस्मितम्) दिढं खु लग्गा । दुम्मोआ विअ मे पडिहादि । होदु जदिस्सं दाव । (दृढं खलु लग्ना । दुर्मोचनीयेव प्रतिभाति । भवतु यतिष्ये तावत् ।)

उर्वशी — सुमरेहि दाव एदं अत्तणो वअणं । (स्मर तावदे- तदात्मनो वचनम् ।)

(चित्रलेखा मोचनं नाटयति ।)

राजा — (स्वगतम्)

प्रियमाचरितं लते त्वया मे गमनेऽस्याः क्षणविघ्नमाचरन्त्या । यदियं पुनरप्यपाङ्गनेत्रा परिवृत्तार्धमुखी मयाद्य दृष्टा ॥ १६ ॥

सूतः — आयुष्मन् ।

अदः सुरेन्द्रस्य कृतापराधान् प्रक्षिप्य दैत्यान् लवणाम्बुराशौ । वायव्यमस्त्रं शरधिं पुनस्ते महोरगः श्वभ्रमिव प्रविष्टम् ॥ १७ ॥

राजा — तेन ह्युपश्लेषय रथं यावदारोहामि । (रथमुपश्लेषयति । राजा नाट्येन रथमारूढः । ऊर्वशी राजानं विलोक्य सनिःश्वासं सह सख्या निष्क्रान्ता चित्ररथश्च ।)

राजा — (उर्वशीमार्गोन्मुखः) अहो नु खलु दुर्लभाभिनिवेशी मदनः ।

एषा मनो मे प्रसभं शरीरात् पितुः पदं मध्यममुत्पतन्ती । सुराङ्गना कर्षति खण्डिताग्रात् सूत्रं मृणालादिव राजहंसी ॥ १८ ॥

(इति निष्क्रान्ताः सर्वे)

(विक्रमोर्वशीये नाटके प्रथमोङ्कः समाप्तः ॥)

Act 1

(द्वितीयोऽङ्कः।)

(ततः प्रविशति विदूषकः।)

विदूषकः — ही हो भो णिमन्तणोवाअणेण बम्हणो विअ राअरहस्सेण फुट्टमाणो ण सक्कुणोमि आइण्णे अत्तणो जोहं रक्खिदुं। ता जाव तत्तभवं वअस्सो कज्जासणादो उठ्ठेदि दाव इमस्सिं विरल-जण-संवादे विमाणुच्छङ्ग-परिसरे चिट्ठिस्सं। (परिक्रम्य स्थितः) (ही ही भो निमन्त्रणोपायनेन ब्राह्मण इव राजरहस्येन स्फोटमानो न शक्नोमि आकीर्णे आत्मनो जिह्वां रक्षितुम्। तद्यावत् तत्रभवान् वयस्यः कार्यासनादुत्तिष्ठति तावदेतस्मिन् विरल-जनसंपाते विमानोत्सङ्गपरिसरे स्था स्यामि।) (प्रविश्य।)

चेटी — आणत्तम्हि देवीए कासि-राअ-पुत्तीए हञ्जे णिउण‍ए जदो-पहुदि भअवदो अक्कस्स उवत्थाणं करिअ पडिणिवुत्तो अज्जउत्तो तदो आरहिअ सुण्ण-हिअओ विअ लक्खीअदि। ता तस्स पिअ-वअस्सादो अज्ज-माणवआदो जाणाहि दाव से उक्कण्ठा-कालणं ति। कहं खु मए बम्ह-बन्धू अदिसंघेओ। अहवा विरल-तण-लग्गं विअ अवस्साअसलिलं चिरं तस्सिं रइस्सं ण चिट्ठदि। जाव णं अण्णेसामि (परिक्रम्य अवलोक्य च) एसो आलिहिदो वाणरो विअ किं पि तुण्हिं-भूदो अज्जमाणवओ चिट्ठदि। जाव णं उवसप्पामि (उपसृत्य) अज्ज वन्दामि। (आज्ञाप्तास्मि देव्या काशीराजपुत्र्या हञ्जे निपुणिके यतः प्रभृति भगवतः अर्कस्योपस्थानं कृत्वा प्रतिनिवृत्त आर्यपुत्रस्तत आरभ्य शून्यहृदय इव लक्ष्यते। तत् तस्य प्रियवयस्यादार्यमाणवकाज्जानीहि तावदस्योत्कण्ठाकारणमिति। कथं खलु मया ब्रह्मबन्धुरतिसंधेयः। अथवा विरलतृणलग्नमिव अवश्यायसलिलं चिरं तस्मिन् रहस्यं न तिष्ठति। यावदेनमन्विष्यामि। एष आलिखितो वानर इव किमपि तूष्णींभूतः आर्यमाणवकस्तिष्ठति। यावदेनमुपसर्पामि। आर्य वन्दे।)

विदूषकः — सत्थि भोदीए। (आत्मगतम्) इमं दुट्ठ-चेडिअं पेक्खिअ तं राअरहस्सं हिअअं भिन्दिअ णिक्कमदि। (प्रकाशम्) णिउणिए संगीद-वावारं उज्झिअ कहिं पत्थिदा सि। (स्वस्ति भवत्यै। इमां दुष्टचेटिकां दृष्ट्वा तद् राजरहस्यं हृदयं भित्वा निष्क्रामति। निपुणिके संगीतव्यापारमुज्झित्वा क्व प्रस्थितासि।)

निपुणिका — देवीए वअणेण अज्जं एव्व पेक्खिदुं। (देव्या वचनेन आर्यमेव द्रष्टुम्।)

विदूषकः — किं तत्तहोदी आणवेदि। (किं तत्रभवत्याज्ञापयति।)

निपुणिका — देवी भणादि सदा वि अज्जो मइ पक्खवादी ण मं अणुइद-वेअणा-दुक्खिदं उवेक्खदित्ति। (देवी भणति सदाप्यार्यो मयि पक्षपाती न मामनुचितवेदनादुःखितामुपेक्षत इति।)

विदूषकः — (सवितर्कम्) किं वा वअस्सेण तत्तभोदीए पडिऊलं आचरिदं। (किं वा वयस्येन तत्रभवत्याः प्रतिकूलमाचरितम्।)

निपुणिका — अज्ज जं-णिमित्तं भट्टा उक्कण्ठिदो ताए इत्थिआए णामघेएण भट्टिणा देवी आलविदा। (आर्य यन्निमित्तं भर्ता उत्कण्ठितस्तस्याः स्त्रिया नामधेयेन भर्त्रा देवी आलपिता।)

विदूषकः — (स्वगतम्) कहं सअं एव्व तत्तभवदा रहस्यभेदो किदो। किं दाणिं अहं जीहा-जन्तणेण दुक्खं अणुहवामि। (प्रकाशम्) किं आमन्तिदा तत्तहोदी उव्वसी त्ति। ताए दंसणेण उम्मादिदो तत्तभवं ण केवलं तत्तभोदिं मं पि विणोद-विमुहो दढं पीडेदि। (कथं स्वयमेव तत्रभवता रहस्यभेदः कृतः। किमिदानीमहं जिह्वायन्त्रणेन दुःखमनुभवामि। किमामन्त्रिता तत्रभवती उर्वशीति। तस्या दर्शनेन उन्मादितस्तत्रभवान् न केवलं तत्रभवतीं मामपि विनोदविमुखो दृढं पीडयति।)

निपुणिका — (आत्मगतम्) किदं मए मेदणं भट्टिणो रहस्सदुग्गस्स (प्रकाशम्) अज्ज किं दाव देवीए णिवेदेमि। (कृतं मया भेदनं भर्तू रहस्यदुर्गस्य। आर्य किं तावद् देव्यै निवेदयामि।)

विदूषकः — णिउणिए विणवेहिं तत्तभोदिं। जदामि दाव मिअतिण्हिआदो णिवत्तेदुं वअस्सं तदो देवीए मुहं पेक्खिस्सं ति। (निपुणिके विज्ञापय तत्रभवतीम्। यते तावद् मृगतृष्णिकाया निवर्तयितुं वयस्यं ततो देव्या मुखं द्रक्ष्यामीति।)

निपुणिका — जं अज्जो आणवेदि। (यदार्य आज्ञापयति।) (इति निष्क्रान्ता।)

(नेपथ्ये वैतालिकः।)

जयतु देवः। आ लोकान्तात् प्रतिहततमोवृत्तिरासां प्रजानां तुल्योद्योगस्तव दिनकृतश्चाधिकारो मतो नः। तिष्ठत्येष क्षणमधिपतिर्ज्योतिषां व्योममध्ये षष्ठे भागे त्वमपि दिवसस्यात्मनश्छन्दवर्ती ॥ १ ॥

विदूषकः — (कर्णं दत्वा) एसो कज्जासणादो उठ्ठिदो इदो एव्व आअच्छदि वअस्सो जाव से पासवत्ती होमि। (इति निष्क्रान्तः।) (एष कार्यासनादुत्थित इत एव आगच्छत्ति वयस्यः। यावदस्य पार्श्ववर्ती भवामि।)

प्रवेशकः।

(ततः प्रविशति उत्कण्ठितो राजा विदूषकश्च।)

राजा — आ दर्शनात् प्रविष्टा सा मे सुरलोक सुन्दरी हृदयम्। बाणेन मकरकेतोः कृतमार्गमवन्ध्यपातेन ॥ २ ॥

विदूषकः — (आत्मगतम्) संपीडिदा खु दाव तवस्सिणी कासिराअउत्ती। (संपीडिता खलु तावत् तपस्विनी काशीराजपुत्री।)

राजा — अपि रक्ष्यते रहस्यनिक्षेपः।

विदूषकः — (सविषादमात्मगतम्) हद्धी हद्धी अहिसंधिदो म्हि दासीए। अण्णधा ण वअस्सो एव्बं पुच्छदि। (हा धिक् हा धिक् अभिसंहितोऽस्मि दास्या। अन्यथा न वयस्य एवं पृच्छति।)

राजा — (साशङ्कम्) किं भवांस्तूष्णीमास्ते।

विदूषकः — एव्वं मए णिअन्तिदा जीहा जं भवदो वि सहसा पडिवअणं ण देमि। (एवं मया नियन्त्रिता जिह्वा यद् भवतोपि सहसा प्रतिवचनं न ददामि।)

राजा — युक्तम्। अथ क्केदानीमात्मानं विनोदयेयम्।

विदूषकः — महाणसं गच्छम्ह। (महानसं गच्छावः।)

राजा — किं तत्र।

विदूषकः — तहिं पञ्च विहस्स अब्भवहारस्स उवणदसंभारस्स जोअणं पेक्खमाणेहिं सक्कं उक्कण्ठा विणोदेदुं। (तत्र पञ्चविधस्य अभ्यवहारस्य उपनतसंभारस्य योजनां प्रेक्षमाणाभ्यां शक्यमुत्कण्ठा विनोदयितुम्।)

राजा — (सस्मितम्) तत्रेप्सितसंनिधानाद् भवान् रंस्यते। मया खलु दुर्लभप्रार्थनः कथमात्मा विनोदयितव्यः।

विदूषकः — णं भवं तत्तहोदीए उव्वसीए दंसण-पहं गदो। (ननु भवांस्तत्रभवत्या उर्वश्या दर्शनपथं गतः।)

राजा — ततः किम्।

विदूषकः — ण खु सा दुल्लह त्ति समत्थेमि। (न खलु सा दुर्लमेति समर्थये।)

राजा — पक्षपातोयमवधार्यताम्।

विदूषकः — एत्तिअं मन्तअन्तेण भवदा वड्ढिदं मे कोदूहलं। किं तत्तभोदी उव्वसी अदुदिआ रूवेण अहं विअ विरूवदाए। (एतावद् मन्त्रयमाणेन भवता वर्धितं मे कौतूहलम्। किं तत्रभवत्युर्वशी अद्वितीया रूपेण अहमिव विरूपतया।)

राजा — माणवक प्रत्यवयवमशक्यवर्णनां तामवेहि। समासतः श्रूयताम्।

विदूषकः — अवहिदो म्हि। (अवहितोस्मि।)

राजा — आभरणस्याभरणं प्रसाधनविधेः प्रसाधनविशेषः। उपमानस्यापि सखे प्रत्युपमानं वपुस्तस्याः ॥ ३ ॥

विदूषकः — अदो खु भवदा दिव्व-रसाहिलासिणा वाद-अव्ववं गहिदं। (अतः खलु भवता दिव्यरसाभिलाषिणा चातकव्रतं गृहीतम्।)

राजा — विविक्तादृते नान्यदुत्सुकस्य शरणमस्ति। तद्भवान् प्रमदवनमार्गमादेशयतु।

विदूषकः — (आत्मगनम्) का गदी (प्रकाशम्) इदो इदो भवं (परिक्रम्य) एदेण पमद-वण-चोदिदेण विअ पच्चु-ग्गदो भवं आअन्तुओ दक्खिण-मारुदेण। (का गतिः। इत इतो भवान्। एतेन प्रमदवनचोदितेनेव प्रत्युद्गतो भवानागन्तुको दक्षिणमारुतेन।)

राजा — (विलोक्य) उपपन्नं विशेषणमस्य वायोः। अयं हि निषिश्चन् माधवीमेतां लतां कौन्दीं च नर्तयन्। स्नेहदाक्षिण्ययोर्योगात् कामीव प्रतिभाति मे ॥ ४ ॥

विदूषकः — ईरिसो एव्व दे अहिणिवेसो होदु (परिक्रामि-तकेन) एदं पमदवण-दुवारं। पविसदु भवं। (ईदृश एव तवाभिनिवेशो भवतु। एतत् प्रमदवनद्वारम्। प्रविशतु भवान्।)

राजा — प्रविशाग्रतः।

उभौ प्रविशतः।

राजा — (अप्रतो विलोक्य) वयस्य मया न साधु समर्थितमापत्प्रतीकारः किल प्रमदवनोद्यानप्रवेश इति। विविक्षुर्यदहं तूर्णमुद्यानं तापशान्तये। स्रोतोजवोह्यमानस्य प्रतोपतरणं हि तत् ॥ ५ ॥

विदूषकः — कहं विअ। (कथमिव।)

राजा — हृदमसुलभवस्तुप्राथनादुर्निवारं प्रथममपि मनो मे पञ्चबाणः क्षिणोति। किमुत मलयवातोन्मूलितापाण्डुपत्रै- रुपवनसहकारैर्दशितेष्वङ्कुरेषु ॥ ६ ॥

विदूषकः — अलं परिदेविदेण। अइरेण दे इच्छिअ-संपादइत्तओ अणङ्गो एव्व सुहृदो भविस्सदि। (अलंपरिदेवितेन। अचिरेण तव इष्टसंपादयिता अनङ्ग एव सुखदो भविष्यति।)

राजा — प्रतिगृहीतं ब्राह्मणवचनम्। परिक्रामतः।

विदूषकः — पेक्खदु भवं वसन्तोदारसूअअं अहिरामत्तणं पमदवणस्स। (पश्यतु भवान् वसन्तावतारसूचकमभिरामत्वं प्रमदवनस्य।)

राजा — ननु प्रतिपादपमेवावलोकयामि। अत्र हि अग्रे स्त्रीनखपाटलं कुरवकं श्यामं द्वयोर्भागयो- र्बालाशोकमुपोढरागसुभगं भेदोन्मुखं तिष्ठति। ईषद्बद्धरजःकणाग्रकपिशा चूते नवा मञ्जरी मुग्धत्वस्य च यौवनस्य च सखे मध्ये मधुश्रीः स्थिता ॥७ ॥

विदूषकः — एसो मणि सिला-पट्टअ-सणाहो अदिमुत्तलदामण्डवो भमर-संघट्ट-पडिदेहिं कुसुमेहिं सअं विअ किदोवआरो भवन्तं पडिच्छदि। अणुगेण्ही अदु दाव एसो। (एष मणिशिलापट्टकसनाथः अतिमुक्तलतामण्डपो भ्रमरसंघट्टपतितैः कुसुमैः स्वयमिव कृतोपचारो भवन्तं प्रतीच्छति। तदनुगृह्यतां तावदेषः।)

राजा — यथा भवते रोचते।

(परिक्रम्योपविष्ठौ)

विदूषकः — इह सुहासीणो भवं ललिद-लदा-विलोहिअमाणणअणो उव्वसी-गदं उक्कण्ठं विणोदेदु। (इह सुखासीनो भवान् ललितलताविलोभ्यमाननयनः उर्वशीगतामुत्कण्ठां विनोदयतु।)

राजा — (निःश्वस्य) मम कुसुमितास्वपि सखे नोपवनलतासु नम्रविटपासु। चक्षुर्बध्नाति धृतिं तद्रूपालोकदुर्ललितम् ॥ ८ ॥ तदुपायश्चिन्त्यतां यथा सफलप्रार्थनो भवेयम्।

विदूषकः — (विहस्य) भो अहल्ला-कामुअस्स महिन्दस्स वेज्जो उव्वसीपज्जुच्छुअस्स भवदो अहं वि दुबे एत्थ उम्मत्तआ। (भोः अहल्याकामुकस्य महेन्द्रस्य वैद्य उर्वशीपर्युत्सुकस्य भवतोहमपि द्वावत्रोन्मत्तौ।)

राजा — मा मैवम्। अतिस्नेहः खलु कार्यदर्शी।

विदूषकः — एसो चिन्तेमि। मा उण परिदेविदेण मम समाधिं भञ्जिस्ससि (चिन्तां रूपयति) (एष चिन्तयामि। मा पुनः परिदेवितेन मम समाधिं भङ्क्ष्यसि।)

राजा — (निमित्तं सूचयित्वा आत्मगतम्।)

न सुलभा सकलेन्दुमुखी च सा किमपि चेदमनङ्गविचेष्टितम्। अभिमुखोष्विव काङ्क्षितसिद्धिषु व्रजति निर्वृतिमेकपदे मनः ॥ ९ ॥

(जाताशस्तिष्ठति। ततः प्रविशत्याकाशयानेन उर्वशी चित्रलेखा च।)

चित्रलेखा — हला कहिं अणिद्दिठ्ठकालणं गच्छीअदि। (हला क्व अनिर्दिष्टकारणं गम्यते।)

उर्वशी — सहि तदा हेमऊड-सिहरे लदा-विडवेण खण-विग्घिदा आसगमणं मं ओहसिअ किं दाणिं पुच्छसि। (सखि तदा हेमकूटशिखरे लनाविटपेन क्षणविघ्निताकाशगमनां मामुपहस्य किमिदानीं पृच्छसि।)

चित्रलेखा — किं तस्स राएसिणो पुरूरवस्स सआसं पत्थिदा सि। (किं तस्य राजर्षेः पुरूरवसः सकाशं प्रस्थितासि।)

उर्वशी — अअं मे अवहत्थिद-लज्जो ववसाओ। (अयं मम अपहस्तितलज्जो व्यवसायः।)

चित्रलेखा — को उण सहीए पुढमं पेसिदो। (कः पुनः सख्या प्रथमं प्रेषितः।)

उर्वशी — हिअअं। (हृदयम्।)

चित्रलेखा — सअं एव्व साहु संपधारीअदु दाव। (स्वयमेव साधु संप्रधार्यतां तावत्।)

उर्वशी — मअणो खु मं णिओएदि। किं एत्थ संपधा-रीअदि। (मदनः खलु मां नियोजयति। किमत्र संप्रधार्यते।)

चित्रलेखा — अदो वरं णत्थि मे उत्तरं। अतः परं नास्ति ममोत्तरम्।

उर्वशी — तेण हि आदिसीअदु मग्गो जह गच्छन्तीणं अन्तराओ ण भवे। (तेन हि आदिश्यतां मार्गो यथा गच्छन्स्योरन्तरायो न भवेत्।)

चित्रलेखा — सहि वीसद्धा होहि। णं भअवदा देवगुरुणा अवराइदं णाम सिहा-बन्धण-विज्जं उवदिसन्तेणतिदस-पडिवक्खस्स अलङ्घणिज्जा कदम्ह। (सखि विश्रब्धा भव। ननु भगवता देवगुरुणा अपराजितां नाम शिखाबन्धनविद्यामुपदिशता त्रिदशप्रतिपक्षस्य अलङ्घनीये कृते स्वः।)

उर्वशी — अहो विसुमरिदं मे हिअअं। (अहो विस्मृतं मम हृदयम्।)

(सिद्धमार्गमासाद्य।)

चित्रलेखा — एदं भभवदीए भाईरहीए जउँणा-संगम-विसेस-पावणेसु सलिलेसु ओलोअन्तस्स विअ अत्ताणअं पइठ्ठाणस्स सिहाभरण-भूदं राएसिणो भवणं उव-ट्ठिदम्ह। (एतद् भगवत्या भागीरथ्या यमुनासंगमविशेषपावनेषु सलिलेष्ववलोकयत इव आत्मानं प्रतिष्ठानस्य शिखाभरणभूतं राजर्षेर्भवनमुपस्थिते स्वः।)

उर्वशी — (विलोक्य) णं वत्तब्वं ठाणन्तर-गदो सग्गोत्ति। (विचार्य) हला कहिं णु खु सो आवण्णाणुकम्पी भवे। (ननु वक्तव्यं स्थानान्तरगतः स्वर्ग इति। हला क्व नु खलु स आपन्नानुकम्पी भवेत्।)

चित्रलेखा — एदस्सिं णन्दण-वणेक्कदेसे विअ पमदवणे ओदरिअ जाणिस्सामो। (एतस्मिन् नन्दनवनैकदेश इव प्रमदवने अवतीर्य ज्ञास्यावः।)

(उमे अवतरतः।)

चित्रलेखा — (दृष्ट्वा सहर्षम्) हला एसो खु पढमोदिदो विअ चन्दो कोमुदिं विअ तुमं पडिच्छदि। (सखि एवखलु प्रथमोदित इव चन्द्रः कौमुदीमिव त्वां प्रतीक्षते।)

उर्वशी — (विलोक्य) हला दाणिं पुढम-दंसणादो सवि-सेसं पिअदंसणो महाराओ पडिहादि। (सखि इदानीं प्रथमदर्शनात् सविशेषं प्रिमदर्शनो महाराजः प्रतिभाति।)

चित्रलेखा — जुज्जदि। ता एहि उवसप्पम्ह। (युज्यते। तदेहि उपसर्पावः।)

उर्वशी — तिरक्खरिणी-पडिच्छण्णा पासगदा से भविअ सुणिस्सं दाव। पास-पडिवत्तिणा वअस्सेण सह विअणे किं पि मन्तअन्तो चिट्ठदि। (तिरस्करिणीप्रतिच्छन्ना पार्श्वगता अस्य भूत्वा श्रोष्यामि तावत्। पार्श्वपरिवर्तिना वयस्येन सह विजने किमपि मन्त्रयमाणस्तिष्ठति।)

चित्रलेखा — जह दे रोअदि। (यथोक्तमनुतिष्ठतः।) (यथा ते रोचते।)

विदूषकः — भो चिन्तिदो मए दुल्लह-प्पणइणी-समाअमो वाओ। (भोः चिन्तितो मया दुर्लभप्रणयिनीसमागमोपायः।)

(राजा तूष्णीमास्ते।)

उर्वशी — का णु खु एसा इत्थिआ इमिणा पत्थीअमाणा अत्ताणअं विकत्थेदि। (का नु खल्वैषा स्त्री अनेन प्रार्थ्यमाना आत्मानं विकत्थते।)

चित्रलेखा — किं उण माणुस्सअं विडम्बीअदि। (किं पुनर्मानुष्यं विडम्ब्यते।)

उर्वशी — भयामि सहसा पभावादो विण्णादुं। (बिभेमि सहसा प्रभावाद् विज्ञातुम्।)

विदूषकः — णं भणामि चिन्तिदो उवाओ त्ति। (ननु भणामि चिन्तित उपाय इति।)

राजा — तेन हि कथ्यताम्।

विदूषकः — सिविण-समाअम-आरिणिं णिहं सेवदु भवं। अहवा तत्थभोदीए उव्वसीए पडिकिदिं आलिहिअ ओलोअन्तो चिट्ठ। (स्वप्नसमागमकारिणीं निद्रां सेवतां भवान्। अथवा तत्रभवत्या उर्वश्याः प्रतिकृतिमालिख्य अवलोकयंस्तिष्ठ।)

उर्वशी — (सहर्षम्) हीण-सत्त हिअअ समस्सस समस्सस। (हीनसत्त्व हृदय समाश्वसिहि समाश्वसिहि।)

राजा — उभयमप्यनुपपन्नम्। हृदयमिषुभिः कामस्यान्तः सशल्यमिदं सदा कथमुपलभे निद्रां स्वप्ने समागमकारिणीम्। न च सुवदनामालेख्येपि प्रियामसमाप्य तां मम नयनयोरुद्बाष्पत्वं सखे न भविष्यति ॥ १० ॥

चित्रलेखा — सुदं तुए। (श्रुतं त्वया।)

उर्वशी — सुदं। ण उण पज्जत्तं हिअअस्स। (श्रुतम्। न पुनः पर्याप्तं हृदयस्य।)

विदूषकः — एत्तिओ मे मदि-विहवो। (एतावान् मम मतिविभवः।)

राजा — (सनिःश्वासम्)

नितान्तकठिनां रुजं मम न वेद सा मानसीं प्रभावविदितानुरागमवमन्यते वापि माम्। अलब्धफलनीरसान् मम विधाय तस्मिञ्जने समागममनोरथान् भवतु पञ्चबाणः कृती ॥ ११ ॥

चित्रलेखा — सुदं तुए। (श्रुतं त्वया।)

उर्वशी — हद्धी हद्धी। मं एव्वं अवगच्छदि। असमत्थम्हि अग्गदो भविअ से पडिवअणस्स। पहाव-णिम्मि-देण भुज्ज-वत्तेण संपादिदुत्तरा होदुं इच्छामि। (हा धिक् हा धिक्। मामेवमवगच्छति। असमर्थास्मि अग्रतो भूत्वा अस्य प्रतिवचनस्य। प्रभावनिर्मितेन भूर्जपत्रेण संपादितोत्तरा भवितुमिच्छामि।)

चित्रलेखा — अणुमदं मे। (अनुमतं मम।)

(उर्वशी ससंभ्रमं गृहीत्वा यथोक्तं करोति।)

विदूषकः — (दृष्ट्वा) अविहा अविहा। भो किं णु खु एदं भुअङ्ग-णिम्मोअं विअ संमुहे णो णिवडिदं। (अविहाअविहा। भोः कि नु खल्वेतद् भुजङ्गनिर्मोक इव संमुखे आवयोः निपतितम्।)

राजा — (विभाव्य) भूर्जपत्रगतोयमक्षरविन्यासः।

विदूषकः — ण खु अदिद्वाए तत्तहोदीए उव्वसीए भवदो परिदेविदं सुणिअ समाणाणुराअ-सूअआइं अक्खराइं विसज्जिआइं होन्ति। (न खत्वदृष्टया तत्रभवत्या उर्वश्या भवतः परिदेवितं श्रुत्वा समानानुरागसूचकान्यक्षराणि विसृष्टानि भवन्ति।)

राजा — नास्त्यगतिर्मनोरथानाम्। (गृहीत्वा अनुवाच्य। सहर्षम्।) सखे प्रसन्नस्ते तर्कः।

विदूषकः — भवं दाणिं पसीददु। एत्थ लिहिदं सुणिदुं इच्छामि। (भवान् इदानीं प्रसीदतु। अत्र लिखितं श्रोतुमिच्छामि।)

उर्वशी — साहु अज्ज णाअरिओ सि। (साधु आर्य नागरिकोसि।)

राजा — श्रूयताम्। (वाचयति) सामिअ संभाविआ जह जहं तुए अमुणिआ। तह अणुरत्तस्स जइ णाम तुह उवरि ॥ १२ ॥ णं मे लुलिअ-पारिजाअ-सअणिज्जयम्मि होन्ति। णन्दण-वण-वाआ वि अच्च्युण्हआ सरीरए ॥ १३॥ (स्वामिन् संभाविता यथाहं त्वया अज्ञाता। तथानुरक्तस्य यदि नाम तवोपरि ॥ १२ ॥ ननु मम लुलितपारिजातशयनीये भवन्ति। नन्दनवनवाता अप्यत्युष्णकाः शरीरके ॥ १४ ॥)

उर्वशी — कि णु खु संपदं भणिस्सदि। (किं नु खलु सांप्रतं भणिष्यति।)

चित्रलेखा — णं भणिदं एव्व कमल-णालाअमाणेहिं अङ्गेहिं। (ननु भणितमेव कमलनालायमानैरङ्गैः।)

विदूषकः — दिट्ठिआ मए विअ बुभुक्खिदेण सोत्थि-वाअणं उवलद्धं भवदा समासासणं। (दिष्ट्या मयेव बुभुक्षितेव स्वस्तिवाचममुपलब्ध भवता समाश्वासनम्।)

राजा — समाश्वासनमिति किमुच्यते। तुल्यानुरागपिशुनं ललितार्थबन्धं पत्रे निवेशितमुदाहरणं प्रियायाः। उत्पक्ष्मणो मम सी मदिरेक्षणाया- स्तस्याः समागतमिवाननमाननेन ॥ १४ ॥

उर्वशी — एत्थ णो सम-विभाआ पीदी। (अत्र आवयोः समविभागा प्रीतिः।)

राजा — वयस्य अङ्गुलीस्वेदेन दुष्येरन्नक्षराणि। धार्यतामयं प्रियायाः स्वहस्तः।

विदूषकः — (गृहीत्वा) किं दाणिं तत्तभोदी उव्वसी भवदो मणोरहाणं कुसुमं दंसिअ फले विसंवददि। (किमिदानीं तत्रभवत्युर्वशी भवतो मनोरथानां कुसुमं दर्शयित्वा फले विसंवदति।)

उर्वशी — हला जाव उवगमण-कादरं हिअअं पज्जवत्थावेमि दाव तुमं से अत्ताणं दंसिअ जं मे खमं तं भणाहि। (हला यावदुपगमनकातरं हृदयं पर्यवस्थापयामि तावत् त्वमस्मै आत्मानं दर्शयित्वा यन्मम क्षमं तद् भण।)

चित्रलेखा — (तिरस्करिणीमपनीय राजानमुपेत्य) जेदु जेदु महाराओ। (जयतु जयतु महाराजः।)

राजा — (सहर्षम्) स्वागतं भवत्यै। भद्रे न तथा नन्दयसि मां सख्या विरहिता तया। संगमे पूर्वदृष्टेव यमुना गङ्गया विना ॥ १५ ॥

चित्रलेखा — णं पढमं मेह-राई दोसदि पच्छा विज्जुल्लदा। (ननु प्रथमं मेघराजिर्दृश्यते पश्चात् विद्युल्लता।)

विदूषकः — (अपवार्य) कहं ण एसा उव्वसी। ताए तत्तहोदिए अहिमदा सहअरी। (कथं नैषा उर्वशी। तस्यास्तत्रभवत्या अभिमता सहचरी।)

चित्रलेखा — उव्वसी महाराअं सिरसा पणमिअ विण्ण-वेदि। (उर्वशी महाराजं शिरसा प्रणम्य विज्ञापयति।)

राजा — किमाहापयति।

चित्रलेखा — मह सुरारि-संभवे दुज्जादे महाराओ एव्व सरणं आसि। सा अहं तुह दंसण-समुत्थेण मअणेण बलिअं बाहीअमाणा भूओ वि महाराएण अणुकम्पणीअत्ति। (मम सुरारिसंभवे दुर्जाते महाराज एव शरणमासीत्। साहं तव दर्शनसमुत्थेन मदनेन बलवद् बाध्यमाना भूयोऽपि महाराजेन अनुकम्पनीयेति।)

राजा — भद्रमुखि पर्युत्सुकां कथयसि प्रियदर्शनां ता- मार्तं न पश्यसि पुरूरवसं तदर्थे। साधारणोयमुभयोः प्रणयः स्मरस्य तप्तेन तप्तमयसा घटनाय योग्यम् ॥ १६ ॥

चित्रलेखा – (उर्वशीमुपेत्य) हला एहि। तुवत्तो वि णिद्दअदरं मअणं देक्खिअ पिअदमस्स दे दूदि म्हि संवृत्ता। (सखि एहि। त्वत्तोपि निर्दयतरं मदनं दृष्ट्वा प्रियतमस्य ते दूत्यस्मि संवृत्ता।)

उर्वशी — (तिरस्करिणीमपनीय) अम्महे लहुअं तुए उज्झिद-म्हि। (अहो लघु त्वया उज्झितास्मि।)

चित्रलेखा — इदो मुहुत्तादो जाणिस्सं का कं उज्झिस्सदि त्ति। आआरं दाव पडिवज्ज। (इतो मुहूर्तात् ज्ञास्यामि का कामुज्झिष्यतीति। आचारं तावत् प्रतिपद्यस्व।)

उर्वशी — (सव्रीडम्) जेदु जेदु महाराओ। (जयतु जयतु महाराजः।)

राजा — सुन्दरि मया नाम जितं जस्य त्वयायं समुदीर्यते। जयशब्दः सहस्राक्षादगतः पुरुषान्तरम् ॥ १७ ॥

(हस्ते गृहीत्वा एनामुपवेशयति।)

विदूषकः — भोदि रण्णो पिअ-वअस्सो बम्हणो किं ण वन्दीअदि। (भवति राज्ञः प्रियवयस्यो ब्राह्मणः किं न वन्द्यते।) (उर्वशी सस्मितं प्रणमति।)

विदूषकः — सत्थि भोदीए। (स्वस्ति भवत्यै।)

देवदूतः — (नेपथ्ये) चित्रलेखे त्वरयोर्वशीम्। मुनिना भरतेन यः प्रयोगो भवतीष्वष्ठरसाश्रयो नियुक्तः। ललिताभिनयं तमद्य भर्ता मरुतां द्रष्टुमनाः सलोकपालः ॥ १८ ॥

(सर्वे कर्णं ददति। उर्वशी विषादं नाटयति)

चित्रलेखा — सुदं पिअ-सहीए देव-दुदस्स वअणं। अणुमाणीअदु महाराओ। (श्रुतं प्रियसख्या देवदूतस्य वचनम्। अनुमान्यतां महाराजः।)

उर्वशी — णत्थि मे वाआ। (नास्ति मे वाक्।)

चित्रलेखा — महाराअ पर-वसो अअं जणो। ता महाराएण अब्भणुण्णादा इच्छदि देवेसु अणवरध्दं अत्ताणअं कादुं। (महाराज परवशोयं जनः। तद् महाराजेनाभ्यनुज्ञाता इच्छति देवेष्वनपराद्धमात्मानं कर्तुम्।)

राजा — (कथंचिद् वाचं व्यवस्थाप्य) नास्मि भवत्योरीश्वरनियोगप्रत्यर्थी। स्मर्तव्यस्त्वयं जनः।

(उर्वशी वियोगदुःखं रूपयन्ती सह सख्या निष्क्रान्ता।)

राजा — (सनिःश्वासम्) सखे वैयर्थ्यमिव चक्षुषः संप्रति।

विदूषकः — (पत्रं दर्शयितुकामः) णं एदं (इत्यर्धोक्ते आत्मगतम्।) हद्धी हद्धी उव्वसी-दंसण-विम्हिदेण मए तं भुज्जवत्तअं पब्भट्ठं पि हत्थादो पमादेण ण विण्णादं। (नन्वेतत् - हा धिक् हा धिक्। उर्वशीदर्शनविस्मितेन मया तद् भूर्जपत्रं प्रभ्रष्टमपि हस्तात् प्रमादेन न विज्ञातम्।)

राजा — भद्र किमसि वक्तुकाम इव।

विदूषकः — मा भवं अङ्गारं मुञ्चदु। दढं खु तुइ बद्धभावा उव्वसी। ण सा इदो-गदं अणुराअं सिढिलेदि। (मा भवानङ्गानि मुञ्चतु। दृढं खलु त्वयि बद्धभावा उर्वशी। न सा इतोगतमनुरागं शिथिलयति।)

राजा — ममाप्येतदाशंसि मनः। तया खलु प्रस्थाने अनीशया शरीरस्य हृदयं स्ववशं मयि। स्तनकम्पक्रियालक्ष्यैर्न्यस्तं निःश्वसितैरिव ॥ १ ९ ॥

विदूषकः — (आत्मगतम्) वेवदि मे हिअअं इमं वेलं तत्त भवदा तस्स भुज्ज-वत्तस्स णाम गेण्हिदव्वं भविस्सदि त्ति। (वेपते मे हृदयमिमां वेलां तत्रभवता तस्य भूर्जपत्रस्य नाम ग्रहीतव्यं भविष्यतीति।)

राजा — केनेदानीं दृष्टिं विलोभयामि। (स्मृत्वा) आ उपनयतु भवान् भूर्जपत्रम्।

विदूषकः — (विषादं नाटयति।) हन्त ण दीसदि। गदं उव्वसीए मग्गेण। (हन्त न दृश्यते। गतमुर्वश्या मार्गेण।)

राजा — सर्वत्र प्रमादी वैधेयः। ननु विचिनोतु भवान्।

विदूषकः — (उत्थाय) णं इदो भवे इदो भवे (इति विचेतव्यं नाटयति) (नन्वितो भवेदितो भवेत्।)

(ततः प्रविशति काशीराजपुत्री सपरिवारा देवी।)

देवी — हञ्जे णिउणिए सच्चं तुए भणिदं इमं लदा-गेहं पविसन्तो अज्ज-माणवअ-सहाओ अज्जउत्तो दिठ्ठो त्ति। (हञ्जे निपुणिके सत्यं त्वया भणितमिदं लतागेहं प्रविशन्नार्यमाणवकसहाय आर्यपुत्रो दृष्ट इति।)

निपुणिका — किं अण्णहा भट्टिणी मए विण्णविद-पुव्वा। (किमन्यथा भट्टिनी मया विज्ञापितपूर्वा।)

देवी — तेण हि लदन्तरिदा सुणिस्सं दाव से वीसद्धामन्तिदाणि। जं तुए कहिदं तं सच्चं ण वत्ति। (तेनहि लतान्तरिता श्राष्यामि तावदस्य विश्रब्धामन्त्रितानि। यत् त्वया कथितं तत् सत्यं न वेति।)

निपुणिका — जं भट्टिणी आणवेदि। (यद् भट्टिनी आज्ञापयति।)

देवी — (परिक्रम्य) ह़ञ्जे णिउणिए कि एदं जिण्ण-चीरं विअ इदोमुहं दक्खिण-मारुदेण आणीअदि। (हञ्जे निपुणिके किमेतज्जीर्णचीरमिव इतोमुखं दक्षिणमारुतेन आनीयते।)

निपुणिका — (विभाव्य) भट्टिणि पडिवत्तण-विभाविदक्खरं भुज्जवत्तं खु एदं। हन्त भट्टिणीए एव्व णेउर-कोडीए लग्गं। (गृहीत्वा) कहं। वाईअदु। (भट्टिनि परिवर्तनविभाविताक्षरं भूर्जपत्त्रं खल्वेतत्। हन्त भर्त्र्या एव नूपुरकोट्या लग्नम्। कथम्। वाच्यताम्।)

देवी — अणुवाएहि दाव णं। जदि अविरुद्धं तदो सुणिस्सं। (अनुवाचय तावदेतत् । यदि अविरुद्धं ततः श्रोष्यामि।)

निपुणिका — (तथा कृत्वा) भट्टिणि तं एव्व कोलीणं विअ पडिहादि। भट्टारअं उद्दिसिअ उव्वसीए कव्व-बन्धोत्ति तक्केमि। अज्जमाणवअ-पमादेण अम्हाणं हत्थं गदो त्ति। (भट्टिनि तदेव कौलीनमिव प्रतिभाति। भर्तारमुद्दिश्य उर्वश्या काव्यबन्ध इति तर्कयामि। आर्यमाणवकप्रमादेन आवयोर्हस्तं गत इति।)

देवी — तेण हि से गहिदत्था होमि। (तेन ह्यस्य गृहीतार्था भवामि।) (निपुणिका राज्ञा पूर्ववाचितं वाचयति।)

देवी — एत्थ इमिणा एव्व उवाअणेण अच्छरा-कामुअं पेक्खामि। (इति परिजनसहिता लतागृहं परिक्रामति।) (अत्र अनेनैवउपायनेन अप्सरः कामुकं पश्यामि।)

विदूषकः — भो वअस्स किं एदं पमद-वण-समीव-गद-कीलापव्वद-पज्जन्ते दीसदि। (भो वयस्य किमेतत् प्रमदवनसमीपगतक्रीडापर्वतपर्यन्ते दृश्यते।)

राजा — (उत्थाय) भगवन् बसन्तप्रिय दक्षिणवायो। वासार्थं हर संभृतं सुरभिणा पौष्पं रजो वीरुधां किं मिथ्या भवतो हृतेन दयितास्नेहस्वहस्तेन मे। जानीते हि मनोविनोदनफलैरेवंविधैर्धारितं कामार्तं जनमञ्जनां प्रति भवानालक्षितप्रार्थनः ॥२० ॥

निपुणिका — भट्टिणि एदस्स एव्व अण्णेसणा वट्टदि। (भट्टिनि एतस्यैवान्वेषणा वर्तते।)

देवी — पेक्खामि। (पश्यामि।)

विदूषकः — भो मिलाअमाण-केसरच्छविणा मोर-पिच्छेण विप्पलद्धो म्हि। (भो म्लायमानकेसरच्छविना मयूरपिच्छेन विप्रलब्धोस्मि।)

राजा — सर्वथा हतोस्मि।

देवी — (उपेत्य) अज्जउत्त अलं आवेएण। एदं तं भुज्जवत्तं। (आर्यपुत्र अलमावेगेन। एतत् तद् भूर्जपत्रम्।)

राजा — (ससंभ्रमम्) अये देवी। स्वागतं देव्यै।

विदूषकः — (अपवार्य) दुरागदं दाणिं संवृत्तं। (दुरागतमिदानीं संवृत्तम्।)

राजा — (जनान्तिकम्) सखे किमत्र प्रतिविधेयम्।

विदूषकः — लोत्तेण गहिदस्स कुम्भीलअस्स अत्थि वा पडिवअणं। (लोत्रेण गृहीतस्य कुम्भीरकस्य अस्ति वा प्रतिवचनम्।)

राजा — देवि नेदं मया मृग्यते। स खलु परसमन्वेषणार्थमारम्भोयम्।

देवी — जुज्जदि अत्तणो सोहग्गं पच्छादेदुं। (युज्यत आत्मनः सौभाग्यं प्रच्छादयितुम्।)

विदूषकः — भोदि तुवरेहि से भोअणं जं पित्तोवसमण-समत्थं होदि। (भवति त्वरयास्य भोजनं यत् पित्तोपशमनसमर्थं भवति।)

देवी — णिउणिए सोहणं खु बम्हणेण आसासिदो वअस्सो। (निपुणिके शोभनं खलु ब्राह्मणेन आश्वासितो वयस्यः।)

विदूषकः — भोदि णं पेक्ख आसासिदो पिसाओ वि भोअणेण। (भवति ननु पश्य आश्वासितः पिशाचोपि भोजनेन।)

राजा — मूर्ख बलादपराधिनं मामापादयसि।

देवी — णत्थि भवदो अवराहो। अहं एव्व एत्थ अवरद्धा। जा पडिऊल-दंसणा भविअ अग्गदो दे चिट्ठामि। इदो अहं गमिस्सं। (कोपं नाटयित्वा प्रस्थिता।) (नास्ति भवतोपराधः। अहमेवात्र अपराद्धा। या प्रतिकूलदर्शना भूत्वा अग्रतस्ते तिष्ठामि। इताह गमिष्यामि।)

राजा — अपराधी नामाहं प्रसीद रम्भोरु विरम संरम्भात्। सेव्यो जनश्च कुपितः कथं नु दासो निरपराधः ॥२१ ॥

(इति पादयोः पतति।)

देवी — (आत्मगतम्) मा खु लहु-हिअआ अहं अणुणअं बहु मण्णे। किं दु अदक्खिण्ण-किदस्स पच्छादावस्स भाएमि। (राजानमपहाय सपरिवारा निष्क्रान्ता।) (मा खलु लघुहृदयाहमनुनयं बहु मन्ये। किं तु अदाक्षिण्यकृतात् पश्चात्तापाद् बिमेमि।)

विदूषकः — पाउस-णदी विअ अप्पसण्णा गदा देवी। उठ्ठेहि। (प्रावृण्नदीव अप्रसन्ना गता देवी। उत्तिष्ठ।)

राजा — (उत्थाय) वयस्य नेदमनुपपन्नम्। पश्य प्रियवचनशतोपि योषितां दयितजनानुनयो रसादृते। प्रविशति हृदयं न तद्विदां मणिरिव कृत्रिमरागयोजितः ॥ २२ ॥

विदूषकः — अणुऊलं एत्थभवदो एदं। ण हु अक्खि-दुक्खिदो अहिमुहे दीव-सिहं सहेदि। (अनुकूलमत्रभवत एतत्। न खल्वक्षिदुःखितः अभिमुखे दीपशिखां सहते।)

राजा — मा मैवम्। उर्वशीगतमनसोपि मे स एव देव्यां बहुमानः। किंतु प्रणिपातलङ्घनादहमस्यां धैर्यमवलम्बिष्ये।

विदूषकः — चिट्ठदु दाव भवदो धीरदा। बुभुक्खिदस्स बम्हणस्स जीविदं अवलम्बदु भवं। समओ खु ण्हाण-भोअणं सेविदुं। (तिष्ठतु तावद् भवतो धीरत। बुभुक्षितस्य ब्राह्मणस्य जीवितमवलम्बतां भवान्। समयः खलु स्नानभोजनं सेवितुम्।)

राजा — (ऊर्ध्वमवलोक्य) गतमर्धं दिवसस्य। उष्णालुः शिशिरे निषीदति तरोर्मूलालवाले शिखी निर्भिद्योपरि कर्णिकारमुकुलान्यालीयते षट्पदः। तप्तं वारि विहाय तीरनलिनीं कारण्डवः सेवते क्रीडावेश्मनि चैष पञ्जरशुकः क्लान्तो जलं याचते ॥२३ ॥

(इति निष्क्रान्ताः सर्वे।)

इति द्वितीयोङ्कः।

Act 3

[ ततः प्रविशतो भरतशिष्यौ। ]

प्रथमः — सखे पल्लव महेन्द्रसदनं गच्छतोपाध्यायेन त्वमासनं प्रतिग्राहितः । अग्निशरणसंरक्षणाय स्थापि- तोहम् । अतः खलु पृच्छामि । अपि गुरोः प्रयोगेण दिव्या परिषदाराधिता ॥ १ ॥

द्वितीयः — गालव ण आणे आराहिदा ण वत्ति । तस्सिउण सरस्सई - किद - कव्व - बन्धे लच्छी - सअंवरे तेसु तेसु रसन्तरेसु तम्मआ आसि । (किं तु गालव न जाने आराधिता न वेति । तस्मिन् पुनः सरस्वतीकृतकाव्यबन्धे लक्ष्मीस्वयंवरे तेषु तेषु रसान्तरेषु तन्मयी आसीत् ।) कि तु—

प्रथमः — सदोषावकाश इव ते वाक्यशेषः ।

द्वितीयः — आम । तर्हि उव्वसीए वअणं पमाद - क्खलिदं आसि । (आम् । तस्मिन्नुर्वश्या वचनं प्रमादस्खलितमासीत् ।)

प्रथमः — कथमिव ।

द्वितीयः — लच्छी - भूमिआए वट्टमाणा उव्वसी वारुणी- भूमिआए वट्टमाणाम मेणआए पुच्छिदा । सहि समाअदा एदे तेलोक्कसुपुरिसा सकेसवा लोअ - वाला । कदमस्सि दे भावाहिणिवेसो त्ति । (लक्ष्मीभूमिकायां वर्तमाना उर्वशी वारुणीभूमिकायां वर्तमानया मेनकया पृष्टा । सखि समागता एते त्रैलोक्यसुपुरुषाः संकेशवा लोकपालाः । कतमस्मिस्ते भावाभिनिवेश इति ।)

प्रथमः — ततस्ततः ।

द्वितीयः — तदो ताए पुरिसोत्तमे त्ति भणिदव्वे पुरूरवे त्ति णिम्मदा वाणी । (ततस्तया पुरुषोत्तम इति भणितव्ये पुरूरवस इति निर्गता वाणी ।)

प्रथमः — भवितव्यानुविधायीनीन्द्रियाणि । न खलु ताम- भिक्रुध्दो गुरुः ।

द्वितीयः — सा खु सत्ता उवज्झाएण । महिन्देण उण अणुगहिदा । (सा खलु शप्ता उपाध्यायेन । महेन्द्रेण पुनरनुगृहीता ।)

प्रथमः — कथमिव ।

द्वितीयः — जेण मम उवदेसो तुए लङ्घिन्दो तेण ण दे दिव्वं ठाणं हविस्सदि त्ति उवज्झाअस्स सावो । महि- न्देण उण पेक्खणावसाणे लज्जावणद - मुही भणिदा जस्सि बद्धभावा सि तस्स मे रण - सहाअस्स राए- सिणो पिअं एत्थ करणिज्जं । सा तुमं जहा- कामं पुरु- रवसं उवचिट्ठ जाव सो तुह दिट्ठसंताणो भोदि त्ति । (येन ममोपदेशस्त्वया लङिघतस्तेन न ते दिव्यं स्थानं भविष्यतीति उपाध्यायस्य शापः । महेन्द्रेण पुनः प्रेक्षणावसाने लज्जावनतमुखी भणिता यस्मिन् बद्धभावासि तस्य मे रणसहायस्य राजर्षेः प्रियमत्र करणीयम् । सा त्वं यथाकामं पुरूरवसमुपतिष्ठस्व यावत् स त्वयि द्रुष्टसंतानो भवेदिति ।)

प्रथमः — सदृशं पुरुषान्तरविदो महेन्द्रस्य ।

द्वितीयः — [सूर्यमवलोक्य] कथा - पसङ्गेण अम्हेहि अवरध्दा अहिसेअ - बेला क्खु उवज्झाअस्स । ता एहि से पास- परिवत्तिणो होअ । (कथाप्रसङ्गेन अस्माभिरपराद्धा अभिषेकवेला खलुपाध्यायस्य । तदेह्यस्य पार्श्वपरिवर्तिनो भवावः ।) [इति निष्क्रान्तौ ।] मिश्रविष्कम्भकः॥

[ततः प्रविशति कञ्चुकी ।]

कञ्चुकी — सर्वः कल्ये वयसि यतते लब्धुमर्थान् कुटुम्बी पश्चात्पुत्रैरपहृतभरः कल्पते विश्रमाय । अस्माकं तु प्रतिदिनमियं सादयन्ती शरीरं सेवाकारा परिणतिरहो स्त्रीषु कष्टोधिकारः ॥ १ ॥

[परिक्रम्य ।] आदिष्टोस्मि सनियमया काशीराजपुत्र्या व्रत संपादनार्थे मया मानमुत्सृज्य निपुणिकामुखेन पूर्वे याचितो महाराजः । तदेव मद्वचनाद् विद्यापयेति । यावदिदानीमवसितसंध्याजाप्यं महाराजं पश्यामि ।

[परिक्रम्य अवलोक्य च] रमणीयः खलु दिवसावसानवृ- तान्तो राजवेश्मनि । इह हि उत्कीर्णा इव वासयष्टिषु निशानिद्रालसा बर्हिणो धूपैर्जालविनिः सृतैर्वलभयः संदिग्धपारावताः । आचारप्रयतः सपुष्पबलिषु स्थानेषु चार्चिष्मतीः संध्यामङ्गलदीपिका विभजते शुद्धान्तवृध्दाजनः ॥ २ ॥

[नेपथ्याभिमुखं दृष्ट्वा] अये इत एव प्रस्थितो देवः । परिजनवनिता करार्पिताभिः परिवृत एक विभाति दीपिकाभिः । गिरिरिव गतिमानपक्षलोपा- दनुतटपुष्पितकर्णिकारयष्टिः ॥ ३ ॥

यावदेनमवलोकनमार्गे स्थितः प्रतिपालयामि । [ततः प्रविशति यथानिर्दिष्टो राजा विदूषकश्च ।]

राजा — [आत्मगतम्] कार्यान्तरितोत्कण्ठं दिनं मया नीतमनतिकृच्छ्रेण । भविनोददीर्घयामा कथं तु रात्रिर्गमयितव्या ॥ ४ ॥

कञ्चुकी — [उपगम्य] जयतु जयतु देवः । देवी विज्ञा-पयति मणिहर्म्यपृष्ठे सुदर्शनश्चन्द्रः । तत्र संनिहितेन देवेन प्रतिपालयितुमिच्छामि यावद् रोहिणीसंयोग इति ।

राजा — आर्य लातव्य विज्ञाप्यतां देवी यस्ते छन्द इति ।

कञ्चुकी — यदाज्ञापयति देवः । [इति निष्क्रान्तः]

राजा — वयस्य किं परमार्थत एव देव्या व्रतनिमित्तो- यमारम्भः स्यात् ।

विदूषकः — भो तक्केमि जाद - पच्छादावा तत्रभोदी वदा-वदेसेण भवदो पणिपाद - लङ्घणं पमज्जिदु - काम त्ति । (भोः तर्कयामि जातपश्चात्तापा तत्रभवती व्रतापदेशेन भवतः प्रणिपातलङ्घनं प्रमार्ष्टुकामेति ।)

राजा — उपपन्नं भवानाह । तथा हि अवधूतप्रणिपाताः पश्चात्संतप्यमानमनसोऽपि । निभृतैर्व्यपत्रपन्ते दयितानुनयिर्मनस्विन्यः ॥ ५ ॥ वेदादेशय मणिहर्म्यपृष्ठमार्गम् ।

विदूषकः — इदो इदो भवं । इमिणा गङ्गा - तरङ्ग - सस्सि- रीएण फलिहमणि - सोवाणेण आरोहदु भवं पदोसाव- सररमणिज्जं मणिहम्मिअं । (इत इतो भवान् । एतेन गङ्गातरङ्गसश्रीकेण स्फटिकमणिसोपानेन आरोहत् भवान् प्रदोषावसररमणीयं मणिहर्म्यम् ।)

राजा — आरोहाग्रतः । [सर्वे सोपानोपसर्पणं रूपयन्ति ।]

विदूषकः — [विलोक्य] भो पच्चासण्णेण चन्दोदएण होदव्वं । जह तिमिर - रेईअमाणं पुव्व- दिसा मुहं आ- लोअ - सुहअं दीसदि । (भोः प्रत्यासन्नेन चन्द्रोदयेन भवितव्यम् । यथा तिमिररिच्यमानं पूर्वदिशामुखमालोकसुभगं दृश्यत ।)

राजा — सम्यगाह भवान् । उदयगूढशशाङ्कमरीचिभिस्तमसि दूरमितः प्रतिसारिते । अलकसंयमनादिव लोचने हरति मे हरिवाहन दिङ्मुखम् ॥ ६ ॥

विदूषकः — ही ही । भो एसो खण्ड - मोदअ -मस्सिरीओ उदिदो राआ दुआदीणं । ही ही । (भोः एष खण्डमोदकसश्रीक उदिता राजा द्विजातीनाम् ।)

राजा — [सस्मितम] सर्वत्रौदरिकस्य अभ्यवहार्यमेव विषय: [प्राञ्जलिः प्रणिपत्य] भगवन्क्षपानाथ रविमावसते सतां क्रियायै सुधया तर्पयते सुरान् पितृश्च । तमसां निशि मूर्छतां निहन्त्रे हरचूडानिहितात्मने नमस्ते ॥ ७ ॥

[उत्तिष्ठति]

विदूषकः — भो बम्हणसंकामिदक्खरेण दे पिदामहेण अम्मगुण्णादो आसण - ट्टिदो होहि जाव अहं पि सुहा- सीणो होमि । (भोः ब्राह्मणसंक्रामिताक्षरेण ते पितामहेन अभ्यनुज्ञात आसनस्थितो भव यावदहमपि सुखासीनो भवामि ।)

राजा — [विदूषकवचनं परिगृह्य उपविष्टः । परिजनं विलोक्य] अभिव्यक्तायां चन्द्रिकायां किं दीपिकापौनरुक्त्येन । विश्राम्यन्तु भवत्यः ।

परिजनः — जं देवो आणवेदि । (यद् देव आज्ञापयति ।) [इति निष्क्रान्तः]

राजा — [चन्द्रमसमवलोक्य] वयस्य परं मुहूर्तादागमनं देव्याः । तद् विविक्ते कथयिष्यामि स्वामवस्थाम् ।

विदूषकः — णं दीसदि एव्व सा किं दु तारिसं अणुराअं पेक्खिअ सक्कं आसा - बन्धेण अत्ताणं धाएदुं । (ननु दृश्यत एव सा किं तु तादृशमनुरागं दृष्ट्वा शक्यभाशाबन्धेन आत्मानं धारयितुम् ।)

राजा — एवमेतत् । बलवान् पुनर्मम मनसोभितापः । नद्या इव प्रवाहो विषमशिलासंकटस्खलितवेगः । विघ्नितसमागमसुखो मनसिशयः शतगुणोभवति ॥ ८ ॥

विदूषकः — जहा परिहीयमाणेहिं अङ्गेहिं अहिअं सोहसि तहा अदूरे पिअ - समागमं ते पेक्खामि । (यथा परिहीयमाणैरङ्गैरधिकं शोभसे तथा अदूरं प्रियासमागमं ते पश्यामि ।)

राजा — [निमित्तं सूचयित्वा] वयस्य वचोभिराशाजननैर्भवानिव गुरुव्यथम् । अयं मां स्पन्दितैर्बाहुराश्वासयति दक्षिणः ॥ ९ ॥

विदूषकः — ण हु अण्णहा बम्हणस्स वअणं । (न ख यथा ब्राह्मणस्य वचनम् ।)

[राजा सप्रत्याशस्तिष्ठति] [प्रविश्य आकाशयानेन अभिसारिकावेषा उर्वशी चित्रलेखा च ।]

उर्वशी — [आत्मानं विलाेक्य] हला चित्तलेहे अवि रोअदि दे अअं मे अप्पाभरण - भूसिदो नीलंसुअ - परिग्गहो अहिसारिआ - वेसो । (हला चित्रलेखे अपि रोचते तेयं मे अल्पाभरणभूषितो नीलांशुकपरिग्रहोऽभिसारिकावेषः ।)

चित्रलेखा — णत्थि मे वाआ - विहवो पसंसिदुं । इदं तु विन्तेमि । अवि णाम अहं पुरूरवा भवेअं ति । (नास्ति मे वाग्विभवः प्रशंसितुम् । इदं तु चिन्तयामि । अपि नामाहं पुरुरवा भवेयमिति ।)

उर्वशी — सहि मदणो खु तुमं आणवेदि ! सिग्धं णोह मं तस्स सुहअस्स वसदिं । (सखि मदनः खलु त्वामाज्ञापयति ! शीघ्रं नय मां तस्य सुभगस्य वसतिम् ।)

चित्रलेखा — णं एदं परिवत्तिदं विअ केलास - सिहरं पिअदमस्स दे भवणं उवगद म्ह । (नन्वेतत् परिवर्तितमिव कैलासशिखरं प्रियतमस्य ते भवनमुपगतं स्वः ।)

उर्वशी — तेण हि पहावदो जाणाहि दाव कहि सो मम हिअअचोरो कि वा अणुचिठ्ठदि त्ति । (तेन हि प्रभावात् जानीहि तावत् क्व स मम हृदयचोरः किं वाऽनुतिष्ठतीति ।)

चित्रलेखा — [ध्यात्वा । आत्मगतम्] भोदु कीलिस्सं दाय एदाए । [प्रकाशम्] हला एसो मणोरह - लध्द - पिआ - समा- अम- सुहं अणुहबन्तो उवहोअ - क्खमे ओआसे चिट्ठदि । (भवतु क्रीडिष्यामि तावदेतया । हला एष मनोरथलब्धप्रियासमागमसुखमनुभवन्नुपभोगक्षमेऽवकाशे तिष्ठति ।)

[उर्वशी विषादं नाटयति ।]

चित्रलेखा — मुद्दे का उण अण्णा चिन्ता पिआ - समाअमस्स । (मुग्धे का पुनरन्या चिन्ता प्रियासमागमस्य ।)

उर्वशी — [सोच्छ्वासम्] अदक्खिणं संदेहदि मे हिअअं । (अदक्षिणं संदिग्धे मे हृदयम् ।)

चित्रलेखा — [विलोक्य] एसो मणि- हम्मिअ - गदो वअस्स मेत्त - सहाओ राएसी । ता एहि उवसप्पाम णं । (एष मणिहर्म्यगतो वयस्यमात्रसहाया राजर्षिः । तदेहि । उपसर्पाव एनम् ।) [उभे अवतरतः ।]

राजा — वयस्य रजन्या सह विजृम्भते मदनबाधा ।

उर्वशी — अणिब्भिण्णत्थेण इमिणा वअणेण आकम्पिदं मे हिअअं । अन्तरिदा एव्व सुणाम से सेरालावं जाव णो संसअ - च्छेदो होदि । (अनिर्भिन्नार्थेन अनेन वचनेन आकम्पितं मम हृदयम् । अन्तरिते एव शृणुवः अस्य स्वैरालापं यावदावयोः संशयच्छेदो भवति ।)

चित्रलेखा — जं दे रोअदि । (यत् ते रोचते ।)

विदूषकः — णं इमे अमिअ - गब्भा सेवीअन्तु चन्द - वादा । (नन्वेते अमृतगर्भाः सेव्यन्तां चन्द्रपादाः ।)

राजा — वयस्य एवमादिभिरनुपक्रम्योऽयमातङ्गः । पश्य । कुसुमशयनं न प्रत्यग्रं न चन्द्रमरीचयां न च मलयजं सर्वाङ्गीणं न वा मणियष्टयः । मनसिजरुजं सा वा दिव्या समालगपोहितुम्—

उर्वशी — का वा अवरा । (का वापरा ।)

राजा — रहसि लघयेदारब्धा वा तदाश्रयिणी कथा ॥ १० ॥

उर्वशी — हिअअ दाणि मं उज्झिअ इदो संकन्तेण तुए फलं उवलद्धं । (हृदय इदानीं मामुज्झित्वा इतः संकान्तेन त्वया फलमुपलब्धम् ।)

विदूषकः — आम् । हंपि जदा मिट्ठ- हरिणी - मंस - भोअणं ण लहे तदा णं पत्थअन्तो संकित्तअन्तो आसासेमि । (आम् । अहमपि यदा मिष्टहरिणीमांसभोजनं न लभे तदा एतत प्रार्थयमानः संकीर्तयन्नाश्रसिमि ।)

राजा — संपद्यत इदं भवतः ।

विदूषकः — भवं पि तं अचिरेण पाविस्सदि । (भवानपि तामचिरेण प्राप्स्यति ।)

राजा — सते एवं मन्ये—

चित्रलेखा — सुणु असंतुट्ठे सुणु । (शृणु असंतुष्टे शृणु ।)

विदूषकः — कहं विअ । (कथमिव ।)

राजा — अयं तस्या रथशोभादंसनांसो निपीडितः । एकः कृती शरीरेऽस्मिन् शेषमङ्गं भुवो भरः ॥ ११ ॥

चित्रलेखा — किं दाणिं विलम्बी अदि । (किमिदानीं विलम्ब्यते ।)

उर्वशी — [सहसोपसृत्य] हला अग्गदो वि मम गदाए उदासीणो विअ महाराओ । (हला अग्रतोपि मम गताया उदासीन इव महाराजः ।)

चित्रलेखा — [सस्मितम्] अदितुवरिदे अणुक्खित्त-तिर- क्खरिणीआ सि । (अतित्वरिते अनुत्क्षिप्ततिरस्करिणीकासि ।) [नेपथ्ये ।] इदो इदो भट्टिणो । (इत इतो भर्त्रीम् ।) [सर्वे कर्णे ददति ।] [उर्वशी सह सख्या विषण्णा ।]

विदूषकः — अविहा अविहा उवट्ठिदा देवी । ता वाअं- जमो होहि । (अविहा अविहा उपस्थिता देवी । तद् वाचंयमो भव ।)

राजा — भवानपि संवृताकारमास्ताम् ।

उर्वशी — हला कि एत्थ करणिअं । (हला किमत्र करणीयम् ।)

चित्रलेखा — अलं आवेएण । अन्तरिदा वयं । उववासणिअमवेसा राएसि - महिसी दीसदि । ता ण एसा चिरं चिट्ठिसदि । (अलमावेगेन । अन्तर्हिते आवाम् । उपवासनियमवेषा राजर्षिमहिषी दृश्यते । तन्नैषा इह चिरं स्थास्यति ।)

[ततः प्रविशति औपहारिकहस्तपरिजना देवी ।]

देवी — [परिक्रम्य अवलोक्य च] हञ्जे णिउणिए एसो रोहिणी - संजोएण अहिअं सोहदि भअवं मिअ - लञ्छणो । (हन्ते निपुणिके एष रोहिणीसंयोगेन अधिकं शोभते भगवान् मृगलाञ्छनः ।)

चेटी — णं देवी- सहिदो भट्टा विसेस - रमणिज्जो [परिक्रामति] (ननु देवीसहितो भर्ता विशेषरमणीयः ।)

विदूषकः — [दृष्ट्वा] भो ण जाणामि सोत्थिवाअणं देई त्ति आदु भवदो वद - व्ववदेसेण मुक्क - रोसा पणि- पाद - लङ्घणं पमज्जिदुकाम त्ति अज्ज मे अक्खीणं सुह- दंसणा देवी । (भोः न जानामि स्वस्तिवायनं ददातीति अथवा भवतो व्रतव्यपदेशेन मुक्तरोषा प्रणिपातलङ्घनं प्रमार्ष्टुकामेति अद्य ममाक्ष्णोः शुभदर्शना देवी ।)

राजा — [सस्मितम्] उभयमपि घटते । तथापि भवता यत् पश्चादभिहितं तन्मां प्रति भाति । यदत्रभवती सितांशुका मङ्गलमात्रभूषणा पवित्र दुर्वाङ्कुरलाञ्छितालका । व्रतापदेशोज्झितगर्ववृत्तिना मयि प्रसन्ना वपुषैव लक्ष्यते ॥ १२ ॥

देवी — [उपगम्य] जेदु जेदु अज्जउत्तो । (जयतु जयतु आर्यपुत्रः ।)

परिजनः — जेदु जेदु भट्टा । (जयतु जयतु भर्ता ।)

विदूषकः — सत्थि भोदीए । (स्वस्ति भवत्यै ।)

राजा — स्वागतं देव्यै [तं हस्तेन गृहीत्वा उपवेशयति]

उर्वशी — हला इअं ठाणे देवी - सद्देण उवअरीअदि । किं पि परिहीअदि सचीए ओजस्सिदाए । (हला इयं स्थाने देवीशब्देनोपचर्यते । न किमपि परिहीयते शच्या ओजस्वितया ।)

चित्रलेखा — साहु असूआ - परम्मुहं मन्तिदं । (साधु असूयापराङ्मुखं मन्त्रितम् ।)

देवी — अज्जुत्तं पुरो करिअ को वि वद - विसेसो मए संपादणीओ । ता मुहुत्तं उवरोहो सहीअदु | (आर्यपुत्रं पुरस्कृत्य कोऽपि व्रतविशेषो मया संपादनीयः । तद् मुहूर्तमुपरोधः सह्यताम् ।)

राजा — मा मैवम् । अनुग्रहः खलु नोपरोधः ।

विदूषकः — ईरिसो सोत्थि - वाअणवन्तो उवरोहो बहुसो होदु । (ईदृशः स्वस्तिवायनवानुपरोधो बहुशो भवतु ।)

राजा — किंनामधेयमेतद् देव्या व्रतम् ।

[देवी निपुणिकामवेक्षते ।]

निपुणिका — भट्टा पिआणुप्पसादणं णाम । (भर्तः प्रियानुप्रसादनं नाम ।)

राजा — [देवीं विलोक्य] यद्येवम् अनेन कल्याणि मृणालकोमलं व्रतेन गात्रं ग्लपयस्यकारणम् । प्रसादमाकाङ्क्षति यस्तवोत्सुकः स किं त्वया दासजनः प्रसाद्यते ॥ १३ ॥

उर्वशी — महन्तो खु से इमस्सिं बहु - माणो । (महान्खल्वस्या एतस्यां बहुमानः !)

चित्रलेखा — अइ मुद्धे अण्ण - संकन्त - प्पेम्माणो णाअरिआ अधिअं दक्खिणा होन्ति । (अयि मुग्धे अन्यसंक्रान्तप्रेमाणो नागरिका अधिकं दक्षिणा भवन्ति ।)

देवी — [सस्मितम्] णं इमस्स वद - परिंग्गइस्स अअं पहावो जं एत्तिअं मन्ताविदो अज्जउत्तो । (नन्वेतस्य व्रतपरिग्रहस्य अयं प्रभावः यदेतावत् मन्त्रित आर्यपुत्रः ।)

विदूषकः — विरमदु भवं । ण जुत्तं सुहासिदं पच्चाचरिदुं । (विरमतु भवान् । न युक्तं सुभाषितं प्रत्याचरितुम् ।)

देवी — दारिआओ उवणेह ओवहारिअं जाव मणि- हम्मिअ - गदे चन्द - पादे अचेमि । (दारिका उपनयत औपहारिकं यावद् मणिहर्म्यगतांश्चन्द्रपादानर्चामि ।)

परिजनः — एसो गन्ध - कुसुमादिउवहारो । (एष गन्धकुसुमाद्युपहारः ।)

देवी — [नाट्येन गन्धपुष्पादिभिश्चन्द्रपादानभ्यर्च्य] हज्जे इमे ओवहारिअ - मोदए अज्ज - माणवअं लम्भावेहि । (हञ्जे एतान् औपहारिकमोदकान् आर्यमाणवकं लम्भय ।)

परिजनः — जं देवी आणवेदि । अज्ज - माणवअ एदं दाव दे । (यत् देवी आज्ञापयति । आर्यमाणवक एतत् तावत् ते ।)

विदूषकः — [मोदकशरावं गृहीत्वा] सोत्थि भोदीए । बहु-फलो दे उववासो होदु । (स्वस्ति भवत्यै । बहुफलस्तदोपवासो भवतु ।)

देवी — अज्जउत्त इदो दाव । (आर्यपुत्र इतस्तावत् ।)

राजा — अयमस्मि ।

देवी — [राज्ञः पूजामभिनीय प्राञ्जलिः प्रणिपत्य] एसा अहं देवदामिहुणं रोहिणी - मिअ - लञ्छणं सक्खी करिअ अज्ज - उत्तं अणुप्पसादेमि । अज्ज -प्पहुदि जं इत्थिअं अज्जउत्तो पत्थेदि जा अज्जउत्तस्स समाअमप्पणइणी ताए मए पीदि - बन्धेण वत्तिदव्वं ति । (एषाहं देवतामिथुनं रोहिणीमृगलाञ्छनं साक्षीकृत्य आर्यपुत्रमनुप्रसादयामि । अद्यप्रभृति यां स्त्रियमार्यपुत्रः प्रार्थयते या आर्यपुत्रस्य समागमप्रणयिनी तया मया प्रीतिबन्धेन वर्तितव्यमिति ।)

उर्वशी — अम्हहे ण आणे किं - परं से वअणं ति । मम उण वीसास - विसदं हिअअं संवुत्तं । (अहो न जाने किंपरमस्या वचनमिति । मम पुनर्विश्वासविशदं हृदयं संवृत्तम् ।)

चित्रलेखा — सहि महाणुहावाए पदिव्वदाए अब्भणु-ण्णादो अणन्तराओ दे पिअ समाअमो हविस्सदि । (सखि महानुभावया पतिव्रतया अभ्यनुज्ञातः अनन्तरायस्ते प्रियसमा-गमो भविष्यति ।)

विदूषकः — [अपवार्य] छिन्न - हत्थो मच्छे पलाइदे णिव्वि- ण्णो धीवरो भणादि धम्मो मे हविस्सदि त्ति । [प्रकाशम्] भोदि किं तारिसो पिओ तत्तभवं । (छिन्नहस्तो मत्स्ये पलायिते निर्विण्णो धीवरो भणति धर्मो मे भविष्यतीति । भवति किं तादृशः प्रियस्तत्रभवान् ।)

देवी — मूढ अहं खु अत्तणो सुहावसाणेण अज्जउत्तं णिव्वुदसरीरं कादुं इच्छामि । एत्तिएण चिन्तेहि दाव पिओ ण व त्ति । (मूढ अहं खलु आत्मनः सुखावसानेन आर्यपुत्रं निर्वृतशरीरं कर्तुमिच्छामि । एतावता चिन्तय तावत् प्रियो न वेति ।)

राजा — दातुं वा प्रभवसि मामन्यस्मै कर्तुमेव वा दासम् । नाहं पुनस्तथा त्वं यथा हि मां शङ्कसे भीरु ॥ १४ ॥

देवी — होहि वा मा वा। जधा - णिद्दिट्ठं संपादिदं पिआ- णुप्पसादणं वदं । दारिआओ एध गच्छम्ह । [प्रस्थिता देवी] (भव वा मा वा । यथानिर्दिष्टं संपादितं प्रियानुप्रसादनं व्रतम् । दारिका एत गच्छामः ।)

राजा — प्रिये न खलु प्रसादितोस्मि यदि संप्रति विहाय गम्यते ।

देवी — अज्जउत्त अलङ्घिद पुव्वो मए णिअमो । (आर्यपुत्र अलङ्घितपूर्वो मया नियमः ।)

[निष्क्रान्ता सपरिवारा देवी ।]

उर्वशी — हला पिअ-कलत्तो राएसी । ण उण हिअअं णिवत्तेदुं सक्कुणोमि । (हला प्रियकलत्रो राजर्षिः । न पुनर्हृदयं निवर्तयितुं शक्नोमि ।)

चित्रलेखा — किं उण तुए णिरासाए णिवत्तिअदि । (किं पुनस्त्वया निराशया निवर्त्यते ।)

राजा — [आसनमुपेत्य] वयस्य न खलु दूरं गता देवी ।

विदूषकः — भण वीसद्धं जं सि वत्तु- कामो । असज्झोत्ति वेज्जेण आदुरो विअ सेरं मुत्तो भवं तत्तहोदीए । (भण विश्रब्धं यदसि वक्तुकामः । असाध्य इति वैद्येनातुर इव स्वैर मुक्तो भवांस्तत्रभवत्या ।)

राजा — अपि नामोर्वशी—

उर्वशी — अद्य कृतार्था भवेत् ।

राजा — गूढा नूपुरशब्दमात्रमपि मे कान्तं श्रुतौ पातयेत् पञ्चादेत्य शनैः कराम्बुजवृते कुर्वीत वा लोचने । हर्म्येऽस्मिन्नवतीर्य साध्वसवशान्मन्दायमाना बला- दानीयेत पदात् पदं चतुरया सख्या ममोपान्तिकम् ॥ १५ ॥

उर्वशी — हला इमं दाव से मणोरहं संपादइस्सं । [पृष्ठतो गत्वा राज्ञो नयने संवृणोति] (हला इमं तावदस्य मनोरथं संपादयिष्यामि ।)

[चित्रलेखा विदूषकं संज्ञापयति ।]

राजा — [स्पर्शं रूपयित्वा] सखे नारायणोरुसंभवा सेयं वरोरुः ।

विदूषकः — कहं भवं अवगच्छदि । (कथं भवानवगच्छति ।)

राजा — किमत्र ज्ञेयम् । अङ्गमनङ्गक्लिष्टं सुखयेदन्या न मे करस्पर्शात् । नोच्छ्वसिति तपनकिरणैश्चन्द्रस्येवांशुभिः कुमुदम् ॥ १६ ॥

उर्वशी — [हस्तावपनीय उत्तिष्ठति । किंचिदपसृत्य] जेदु जेदु महाराओ । (जयतु जयतु महाराजः ।)

राजा — सुन्दरि स्वागतम् [एकासने उपवेशयति]

चित्रलेखा — अवि सुहं वअस्सस्स । (अपि सुखं वयस्यस्य ।)

राजा — नन्वेतदुपपन्नम् ।

उर्वशी — हला देवीए दिण्णो महाराओ । तदो से पण- अवदी विअ सरीर - संपक्कं गद म्हि । मा खु मं पुरो- भाइणि समत्थेहि । (हला देव्या दत्तो महाराजः । ततोस्य प्रणयवतीव शरीरसंपर्के गतास्मि । मा खलु मां पुरोभागिनीं समर्थयस्व ।)

विदूषकः — कहं इह ज्जेव तुम्हाणं अत्थमिदो सुज्जो । (कथमिहैव युवयोरस्तमितः सूर्यः ।)

राजा — [उर्वशीमवलोक्य] देव्या दत्त इति यदि व्यापारं व्रजसि मे शरीरेऽस्मिन् । प्रथमं कस्यानुमते चोरितमेतत् त्वया हृदयम् ॥ १७ ॥

चित्रलेखा — वअस्स णिरुन्तरा एसा । संपदं मह विण्णप्पं सुणीअदु । (वयस्य निरुत्तरैषा । साप्रतं मम विज्ञाप्यं श्रूयताम् ।)

राजा — अवहितोस्मि ।

चित्रलेखा — वसन्ताणन्तरे उण्ह समए भअवं सुज्जो मए उवअरिदव्वो । ता जहा इअं मे पिअ - सही सग्ग- स्स ण उक्कण्ठेदि तहा वअस्सेण कादव्वं । (वसन्तानन्तरे उष्णसमये भगवान् सूर्यो मयोपचरितव्यः । तद् यथेयं मे प्रियसखी स्वर्गस्य नोत्कण्ठते तथा वयस्येन कर्तव्यम् ।)

विदूषकः — किं वा सग्गे सुमरिदव्वं । ण वा अण्हीअदि ण वा पीअदि । केवलं अणिमिसेहिं णअणेहिं मीणा विडम्बीअन्ति । (किं वा स्वर्गे स्मर्तव्यम् । न वा अश्यते न वा पीयते । केवलमनिमिषैर्नयनैमींना विडम्ब्यन्ते ।)

राजा — भद्रे अनिर्देश्यसुखः स्वर्गः कस्तं विस्मारयिष्यति । अनन्यनारीसामान्यो दासस्त्वस्याः पुरूरवाः ॥ १८ ॥

चित्रलेखा — अणुगहिद म्हि । हला उव्वसि अकादरा भविअ विसज्जेहि मं । (अनुगृहीतास्मि । हला उर्वशि अकातरा भूत्वा विसर्जय माम् ।)

उर्वशी — [चित्रलेखां परिष्वज्य] सहि मा खु मं विसु- मरेहि । (सखि मा खलु मां विस्मर ।)

चित्रलेखा — [सस्मितम्] वअस्सेण संगदा तुमं एव्व एदं मए जाचिदव्वा । (वयस्येन रांगना लमेव एतद् मया याचितव्या ।)

विदूषकः — दिट्ठिआ मणोरह - संपत्तीए वडदि भवं । (दिष्टया मनोरथसंपत्त्या वर्धते भवान् ।)

राजा — इयं तावद् वृद्धिर्मम । पश्य । सामन्तमौलिमणिरञ्जितशासनाङ्क- मेकातपत्र मवनेर्न तथा प्रभुत्वम् । अस्याः सखे चरणयोरहमद्य कान्त- माज्ञाकरत्वमधिगम्य यथा कृतार्थः ॥ १९ ॥

उर्वशी — णत्थि मे विहवो अदो पिअदरं मन्तिदुं । (नास्ति मे विभवः अतः प्रियतरं मन्त्रयितुम् ।)

राजा — [उर्वशी हस्तेनावलम्ब्य] अहो विरुद्धसंवर्धन ईप्सि-तलाभो नाम । पादास्त एव शशिना सुखयन्ति गात्रं बाणास्त एव मदनस्य मनोऽनुकूलाः । संरम्भरुक्षमिव सुन्दरि यद्यदासीत् त्वत्संगमेन मम तत्तदुपानुनीतम् ॥ २० ॥

उर्वशी — अवरद्धम्हि चिर- कारिआ अज्जउत्तस्स । (अपराद्धास्मि चिरकारिका आर्यपुत्रस्य ।)

राजा — मामेैवम् । यदेवोपनतं दुःखात् सुखं तद् रसवत्तरम् । निर्वाणाय तरुच्छाया तप्तस्य हि विशेषतः ॥ २१ ॥

विदूषकः — भो सेविदा पदोस - रमणआ चन्द-वादा | समओ खु दे वास - घर - पवेसस्स । (भोः सेविताः प्रदोषरमणीयाश्चन्द्रपादाः । समयः खलु ते वासगृहप्रवेशस्य ।)

राजा — तेन हि सख्यास्ते मार्गमादेशय ।

विदूषकः — इदो इदो भवदी । (इत इतो भवती ।)

राजा — सुन्दरि इयमिदानीमभ्यर्थना ।

उर्वशी — कहं विअ । (कथमिव ।)

राजा — अनधिगतमनोरथस्य पूर्वे शतगुणितेव गता मम त्रियामा । यदि तु तव समागमे तथैव प्रसरति सुभ्रु ततः कुती भवेयम् ॥ २२ ॥

[इति निष्क्रान्ताः सर्वे] तृतीयोङ्कः समाप्तः ॥

Act 4

( ततः प्रविशति विमनस्का चित्रलेखा सहजन्या च । )

सहजन्या — (चित्रलेखां विलोक्य) सहि मिलाअमाण-सदवत्तस्स विअ दे मुहस्स छाआ हिअअस्स अस्सथ्थदं सुएदि । ता कहेहि णिव्वेद-कारणं । सम-दुख्खा भविदुं इच्छामि । (सखि म्लायमानशतपत्रस्येव ते मुखस्य छाया हृदयस्य अस्वस्थतां सूचयति । तत् कथय निर्वेदकारणम् । समदुःखा भवितुमिच्छामि ।)

चित्रलेखा — अछ्छरा-वार-पज्जाएण इह भअवदो सुज्जस्स पाद-मूलोवठ्ठाणं वट्टदि त्ति बलिअं खु उव्वसीए उक्कण्ठिद म्हि । (अप्सरोवारपर्यायेण इह भगवतः सूर्यस्य पादमूलोपस्थानं वर्तत इति बलवत् खलुर्वश्यामुत्कण्ठितास्मि ।)

सहजन्या — जाणे वो अण्णोण्ण-सिणेहं । तदो तदो । (जाने युवयोरन्योन्यस्नेहम् । ततस्ततः ।)

चित्रलेखा — तदो इमाइं दिवसाइं को णु खु वुत्तन्तो त्ति पणिधाय-ट्ठिदाए मए अच्चाहिदं उवलध्धं । (तत एतेषु दिवसेषु को नु खलु वृत्तान्त इति प्रणिधानस्थितया मया अत्याहितमुपलब्धम् ।)

सहजन्या — (सावेगम्) कीरिसं विअ । (कीदृशमिव ।)

चित्रलेखा — उव्वसी किल तं रदि-सहाअं राएसिं अमच्चेसु णिवेसिद-रज्ज-धुरं गेण्हिअ गन्धमादण-वणं विहरिदुं गदा । (उर्वशी किल तं रतिसहायं राजर्षिममात्येषु निवेशित-राज्यधुरं गृहीत्वा गन्धमादनवनं विहर्तुं गता ।)

सहजन्या — सो णाम संभोओ जो तारिसेसु पदेसेसु । तदो तदो । (स नाम संभोगो यस्तादृशेषु प्रदेशेषु । ततस्ततः ।)

चित्रलेखा — तहिं खु मन्दाइणीए पुलिणेसु गदा सिकदा-पव्वद-केलीहिं कीलमाणा विज्जाधर-दारिआ उदयवदी णाम तेण राएसिणा णिज्झाइद त्ति कुविदा उव्वसी । (तत्र खलु मन्दाकिन्याः पुलिनेषु गता सिकतापर्वतकेलीभिः क्रीडन्ती विद्याधरदारिका उदयवती नाम तेन राजर्षिणा निध्यातेति कुपिता उर्वशी ।)

सहजन्या — होदव्वं । दूरारूढो खु पणओ असहणो । तदो तदो । (भवितव्यम् । दूरारूढः खलु प्रणयः असहनः । ततस्ततः ।)

चित्रलेखा — तदो भट्टिणो अणुणअं अपडिवज्जमाणा गुरु-साव-संमूढ-हिअआ इत्थिआ-जण-परिहरणिज्जं कुमार-वणं पईट्ठा । पवेसाणन्तरं व काणणोवन्त-वत्ति-लदाभावेण परिणदं से रूवं । (ततो भर्तुरनुनयमप्रतिपद्यमाना गुरुशापसंमूढहृदया स्त्रीजनपरिहरणीयं कुमारवनं प्रविष्टा । प्रवेशानन्तरं च काननोपान्तवर्तिलताभावेन परिणतमस्या रूपम् ।)

सहजन्या — णत्थि विहिणो अलङघणिज्जं । तस्स अणुराअस्स अअं णाम एक्क-वदे ईरिसो अणत्थो । अह किमवत्थो सो राएसी । (नास्ति विधेरलङ्घनीयम् । तस्यानुरागस्य अयं नाम एकपद ईदृशोऽनर्थः । अथ किमवस्थः स राजर्षिः ।)

चित्रलेखा — तस्सिं एव्व काणणे पिअदमं विचिण्णन्तो अहोरत्ते अदिवाहेदि । इमिणा उण णिव्वुदाणं पि उक्कण्ठा-कारिणा मेहोदएण अणत्थाहीणो हविस्सदि । (तस्मिन्नेव कानने प्रियतमां विचिन्वन्नहोरात्रानतिवाहयति । एतेन पुनः निर्वृतानामपि उत्कण्ठाकारिणा मेघोदयेन अनर्थाधीनो भविष्यति ।)

सहजन्या — सहि तारिसा आकिदि-विसेसा चिरं दुख्ख-भाइणो ण होन्ति । अवस्सं किं पि अणुग्गह-णिमित्तं भूओ वि समाअम-कारणं हविस्सदि । ता एहि उद्दउम्मुहस्स भअवदो सुज्जस्स उवट्ठाणं करेम्ह । (सखि तादृशा आकृतिविशेषाश्चिरं दुःखभागिनो न भवन्ति । अवश्यं किमपि अनुग्रहनिमित्तं भूयोपि समागमकारणं भविष्यति । तदेहि उदयोन्मुखस्य भगवतः सूर्यस्य उपस्थानं कुर्वः ।)

(इति निष्क्रान्ते ।)

प्रवेशकः ॥

( ततः प्रविशति उन्मत्तवेषो राजा । )

राजा — आः दुरात्मन् रक्षस्तिष्ठ तिष्ठ । क्व मे प्रियतमामादाय गच्छसि । हन्त शैलशिखराद् गगनमुत्पत्य बाणर्मामभिवर्षति । (विभाव्य)

नवजलधरः संनद्धोऽयं न दृप्तनिशाचरः सुरधनुरिदं दूराकृष्टं न नाम शरासनम् । अयमपि पटुर्धारासारो न बाणपरंपरा कनकनिकषस्निग्धा विद्युत् प्रिया न ममोर्वशी ॥ १ ॥

(विचिन्त्य) क्व नु खलु रम्भोरुर्गता स्यात् तिष्ठेत् कोपवशात् प्रभावपिहिता दीर्घं न सा कुप्यति स्वर्गात्पतिता भवेन्मयि पुनर्भावार्द्रमस्या मनः । तां हर्तुं विबुधद्विषोऽपि न च मे शक्ताः पुरोवर्तिनीं सा चात्यन्तमदर्शनं नयनयोर्यातेति कोऽयं विधिः ॥ २ ॥

(दिशोऽवलोक्य । सनिःश्वासम् ।) अये परावृत्तभागधेयानां दुःखं दुःखानुबन्धि । कुतः ।

अयमेकपदे तथा वियोगः प्रियया चोपनतः सुदुःसहो मे । नववारिधरोदयादहोभिर्भवितव्यं च निरातपत्वरम्यैः ॥ ३ ॥

(विहस्य) मुधैव खलु मनसः परितापवृद्धिरुपेक्ष्यते । यथा मुनयोऽपि व्याहरन्ति राजा कालस्य कारणमिति । तत् किमहं जलदसमयं न प्रत्यादिशामि । अथ वा प्रावृषेण्यैरेव लिङ्गेर्मम राजोपचारः संमति । कथमिव ।

विद्युल्लेखाकनकरुचिरं श्रीवितानं ममाभ्रं व्याधूयन्ते निचुलतरुभिर्मञ्जरीचामराणि । धर्मच्छेदात् पटुतरगिरो बन्दिनो नीलकण्ठा धारासारोपनयनपरा नैगमाश्चाम्बुवाहाः ॥ ४ ॥

भवतु । किमेवं परिच्छदश्लाघया । यावदस्मिन् कानने तां प्रियामन्वेषयामि (विलोक्य) हन्त व्यवसितस्य मे संदीपनमिव संवृत्तं कुतः

आरक्तराजिभिरियं कुसुमैर्नवकन्दली ससिलगर्भैः । कोपादन्तर्बाष्पे स्मरयति मां लोचने तस्याः ॥ ५ ॥

इतो गतेति कथं नु तत्रभवती मया सूचयितव्या ।

पद्मयां स्पृशेद् वसुमतीं यदि सा सुगात्री मेघाभिवृष्टसिकतासु वनस्थलीषु । पश्चान्नता गुरुनितम्बतया ततोऽस्या दृश्येत चारुपदपङक्तिरलक्तकाङ्का ॥ ६ ॥

(परिक्रम्य अवलोक्य च सहर्षम्) उपलब्धमुपलक्षणं येन तस्याः कोपनाया मार्गोऽनुमीयते ।

हृतोष्ठरागैर्नयनोदबिन्दुभि- र्निमग्ननाभेर्निपतद्भिरङ्कितम् । च्युतं रुषा भिन्नगतेरसंशयं शुकोदरश्याममिदं स्तनांशुकम् ॥ ७ ॥

(विभाव्य ।) कथम् । सेन्द्रगोपं नवशाद्वलमिदम् । कुतो नु खलु निर्जने वने प्रियाप्रवृत्तिरवगमयितव्या (दृष्ट्वा)

अये आसारोछ्वसितशैलेयस्थलीपाषाणमारुढः आलोकयति पयोदान् प्रबलपुरोवातनर्तितशिखण्डः । केकागर्भेण शिखी दूरोन्नमितेन कण्ठेन ॥ ८ ॥

(उपेत्य ।) यावदेनं पृच्छामि ।

नीलकण्ठ ममोत्कण्ठा वनेऽस्मिन् वनिता त्वया । दीर्घापाङ्गा सितापाङ्ग दृष्ट्रा दृष्टिक्षमा भवेत् ॥ ९ ॥

कथमदत्त्वा प्रतिवचनं नर्तितुं प्रवृत्तः । किं नु खलु हर्षकारणमस्य । (विचिन्त्य) भवतु । विदितमेतत् ।

मृदुपवनविभिन्नो मत्प्रियाया विनाशाद् घनरुचिरकलापो निःसपत्नोस्य जातः । रतिविगलितबन्धे केशहस्ते सुकेश्याः सति कुसुमसनाथे कि करोत्येष बर्हीं ॥ १० ॥

भवतु । परव्यसननिर्वृतं न खल्वेनं पृच्छामि (परिक्रम्य) इयमातपान्तसंधुक्षितमदा जम्बूविटपमध्यास्ते परभृता । विहंगमेषु पण्डिता जातिरेषा । यावदेनामभ्यर्थये । भवति

त्वां कामिनो मदनदूतिमुदाहरन्ति मानावभङ्गनिपुणं त्वममोघस्त्रम् । तामानय प्रियतमां मम वा समीपं मां वा नयाशु कलभाषिणि यत्र कान्ता ॥ ११ ॥

(आकाशे ।) किमाह भवती । कथं त्वामेवमनुरकं विहाय गतेति । शृणोतु भवती ।

कुपिता न तु कोपकारणं सकृदप्यात्मगतं स्मराम्यहम् । प्रभुता रमणेषु योषितां न हि भावस्खलितान्यपेक्षते ॥ १२ ॥

कथं कथाच्छेदकारिणी स्वकार्य एव सक्ता ।

महदपि परदुःखं शीतले सम्यगाहुः प्रणयमगणयित्वा यन्ममापद्गतस्य । अधरमिव मदान्धा पातुमेषा प्रवृत्ता फलमभिमुखपाकं राजजम्बूद्रुमस्य ॥ १३ ॥

एवंगतेऽपि प्रियेव मे मञ्जुस्वनेति न कोपोऽस्याम् । इतो वयम् - (परिक्रामितकेन । कर्णे दत्त्वा) अये दक्षणेन प्रियाचरणनिक्षेपशंसी नूपुररवः । यावदत्र गच्छामि । (परिक्रम्य अहो धिक् धिक् ।)

मेघश्यामा दिशो दृष्ट्वा मानसोत्सुकचेतसाम् । कूजितं राजहंसानां नेदं नूपुरशिञ्जितम् ॥ १४ ॥

भवतु । यावदेते मानसोत्सुकाः पतत्रिणः सरसो नोत्पतन्ति तावदेतेभ्यः प्रियाप्रवृत्तिरवगमयितव्या । (उपत्य) भो भो जलविहंगमराज

पश्चात् सरः प्रति गमिष्यसि मानसं तत् पाथेयमुत्सृज बिसं ग्रहणाय भूयः । मां तावदुद्धर शुचो दयिताप्रवृत्त्या स्वार्थात् सतां गुरुतरा प्रणयिक्रियैव ॥ १५ ॥

यथोन्मुखो विलोकयति मानसोत्सुकेन मया न लक्षितेत्येवं वचनमाह ।

यदि हंस गता न सा नतभूः सरसो रोधसि दर्शनं प्रिया मे । मदखेलपदं कथं तु तस्याः सफलं चोर गतं त्वया गृहीतम् ॥ १६ ॥

अतश्च-

हंस प्रयच्छ मे कान्तां गतिरस्यास्त्वया हृता । विभावितैकदेशेन देयं यदभियुज्यते ॥ १७ ॥

(विहस्य ।) एष चोरानुशासी राजेति भयादुत्पतितः । (परिक्रम्य) अयमिदानीं प्रियासहायश्चक्रवाकः । तावदेनं पृच्छामि ।

रथाङ्गनामन् वियुतो रथाङ्गश्रोणिबिम्बया । अयं त्वां पृच्छति रथी मनोरथशतैर्वृतः ॥ १८ ॥

कथं कः क इत्याह । मा तावत् । न खलु विदितोऽहमस्य ।

सूर्याचन्द्रमसौ यस्य मातामहपितामहौ । स्वयं वृतः पतिर्द्वाभ्यामुर्वश्या च भुवा च यः ॥ १९ ॥

कथं तूष्णीं स्थितः । भवतु । उपालप्स्ये तावदेनम् ।

सरसि नलिनीपत्रेणापि त्वमावृतविग्रहां ननु सहचरीं दूरे मत्वा विरौषि समुत्सुकः । इति च भवतो जायास्नेहात् पृथक् स्थितिभीरुता मयि च विधुरे भावः कान्ताप्रवृत्तिपराङ्मुखः ॥ २० ॥

सर्वथा मदीयानां भाग्यविपर्ययाणामयं प्रभावः । यावद - न्यमवकाशमवगाहे । (पदान्तरे स्थित्वा) भवतु न तावद् गच्छामि ।

इदं रुणद्धि मां पद्ममन्तः कूजितषट् पदम् । मया दष्टाधरं तस्याः ससीत्कारमिवाननम् ॥ २१ ॥

भवतु । अस्मिन्नेव कमलाध्यासिनि मधुकरे प्रणयित्वं करिष्ये । इतो गतस्यानुशयो मा भूदिति ।

मधुकर मदिराक्ष्याः शंस तस्याः प्रवृत्तिं (विभाव्य ।) वरतनुरथवासौ नैव दृष्टा त्वया मे । यदि सुरभिमपास्यस्तन्मुखोच्छ्वासगन्धं तव रतिरभविष्यत्पुण्डरीके किमस्मिन् ॥ २२ ॥

साधयामस्तावत् । (परिक्रामितकेन) एष नीपस्कन्धनिषण्णहस्तः करिणीसहायो नागराजस्तिष्ठति । अस्मात् प्रियोदन्तमुपलप्स्ये (विलोक्य) भवतु न त्वरा कार्या ।

अयमचिरोद्गतपल्लवमुपनीतं प्रियकरेणुहस्तेन । अभिलषतु तावदासवसुरभिरसं सल्लकीभङ्गम् ॥ २३ ॥

(क्षणमात्रं स्थित्वा ।) हन्त कृतान्हिकः संवृत्तः । भवतु पृच्छामि ।

मदकल युवतिशशिकला गजयूथप यूथिकाशबलकेशी । स्थिरयौवना स्थिता ते दूरालोके सुखालोका ॥ २४ ॥

(सहर्षम् ।) अनेन स्निग्धमन्द्रेण गर्जितेन प्रियोपलम्भशंसिना समाश्वासितोऽस्मि । साधर्म्याश्च त्वयि मे भूयसी प्रीतिः ।

मामाहुः पृथिवीभृतामधिपतिं नागाधिराजो भवान् नव्युच्छिन्नपृथुप्रवृत्ति भवतो दानं ममाप्यर्थिषु । स्त्रीरत्नेषु ममोर्वशी प्रियतमा यूथे तवेयं वशा सर्वे मामनु ते प्रियाविरहजां त्वं तु व्यथां मानुभूः ॥ २५ ॥

सुखमास्तां भवान् । साधयामस्तावत् । (पार्श्वतो दृष्टिं दत्त्वा) अये सुरभिकन्दरो नाम विशेषरमणीयः सानुमानालोक्यते । प्रियश्चायमप्सरसाम् । अपि नाम सुतनुरस्योपत्यकायामुपलभ्येत । (परिक्रम्य अवलोक्य च) कथमन्धकारः । भवतु । विद्युत्प्रकाशेनावलोकयामि । हन्त मदीयैर्दुरितपरिणामैर्मेघोऽपि शतह्रदाशून्यः संवृत्तः । तथापि शिलोच्चयमेतमपृष्ट्वा न निवर्तिष्ये ।

अपि वनान्तरमल्पकुचान्तरा श्रयति पर्वत पर्वसु संनता । इदमनङ्गपरिग्रहमङ्गला पृथुनितम्ब नितम्बयती तव ॥ २६ ॥

कथं तूष्णीमास्ते । शङ्के विप्रकृष्टो न शृणोतीति । समीपेऽस्य गत्वा पुनरेनं पृच्छामि (परिक्रम्य)

सर्वक्षितिभृतां नाथ दृष्टा सर्वाङ्गसुन्दरी । रामा रम्ये वनान्तेऽस्मिन् मया विरहिता त्वया ॥ २७ ॥

(आकर्ण्य । सहर्षम् ।) कथं यथाक्रमं दृष्टेत्याह । भवानपि अतः प्रियतरं शृणोतु । क्व तहि मम प्रियतमा । (नेपथ्ये तदेवाकर्ण्य ।) हा धिक् । ममैवायं कन्दरमुखविसर्पी प्रतिशब्दः । (विषादं रूपयित्वा) श्रान्तोऽस्मि । अस्यास्तावद् गिरिनद्यास्तीरे स्थितस्तरङ्गवातमासेविष्ये । इमां नवां - म्बुकलुषामपि स्त्रोतोवहां पश्यतो मे रमते मनः ।

तरङ्गभ्रूभङ्गा क्षुभितविहगश्रेणिरसना विकर्षन्ती फेनं वसनमिव संरम्भशिथिलम् । यथाविद्धं याति स्खलितमभिसंधाय बहुशो नदीभावेनेयं ध्रुवमसहना सा परिणता ॥ २८ ॥

भवतु । याचिष्ये तावदेनाम् । (अञ्जलिं कृत्वा)

त्वयि निबद्धरतेः प्रियवादिनः प्रणयभङ्गपराङ्मुखचेतसः । कमपराधलवं मम पश्यसि त्यजसि मानिनि दासजनं यतः ॥ २९ ॥

अथ वा परमार्थसरिदेवैषा । न खल्बूर्वशी पुरूरवसमपहाय समुद्राभिसारिणो भविष्यति । भवतु । अनिर्वेदप्राप्याणि श्रेयांसि । यावदमुमेत्र प्रदेशं गच्छामि यत्र मे नयनयोः सुनयना तिरोभूता । (परिक्रम्य अवलोक्य) हन्त दृष्टमुपलक्षणं तस्या मार्गस्य ।

रक्तकदम्बः सोयं प्रियया धर्मान्तशंसि यस्यैकम् । कुसुममसमग्रकेसरविषममपि कृतं शिखाभरणम् ॥ ३० ॥

(विलोक्य ।) इमं तावत प्रियाप्रवृत्तिनिमित्तं सारङ्गमासीनमभ्यर्थये ।

कृष्णशारच्छविर्योऽसौ दृश्यते काननश्रिया । वनशोभावलोकाय कटाक्ष इव पातितः ॥ ३१ ॥

(विलोक्य ।) कि नु खलु मामवधीरयन्निव अन्यतोमुखः संवृत्तः । (दृष्ट्वा ।)

अस्यान्तिकमायान्ती शिशुना स्तनपायिना मृगी रुध्दा । तामयमनन्यदृष्टिर्भुग्नग्रीवो विलोकयति ॥ ३२ ॥

हंहो यूथपते अपि दृष्टवानसि भ्रम प्रियां वने कथयामि ते तदुपलक्षणं शृणु । पृथुलोचना सहचरी यथैव ते सुभगं तथैव खलु सापि वीक्षते ॥ ३३ ॥

कथमनादृत्य मद्वचनं कलत्राभिमुखं स्थितः । उपपद्यते । परिभवास्पदं दशाविपर्ययः । इतो वयम् - (परिक्रामितकेन अवलोक्य) शिलामेदान्तरगतं किमेतदालोक्यते ।

प्रभालेपी नायं हरिहतमृगस्यामिषलवः स्फुलिङ्गः स्यादग्नेर्गगनमभिवृष्टं पुनरिदम् । (विभाव्य ।) अये रक्ताशोकस्तबकसमरागो मणिरयं यमुद्धर्तुं पुत्रा व्यवसित इवालम्बितकरः ॥ ३४ ॥

हरति मे मनः । आदास्ये तावदेनम् । अथवा

मन्दारपुष्पैरधिवासितायां यस्याः शिखायामयमर्पणीयः । सैव प्रिया संप्रति दुर्लभा मे किमेनमस्त्रोपहतं करोमि ॥ ३५ ॥

(नेपथ्ये ।) वत्स गृह्यतां गृह्यताम् ।

संगमनीय इति मणिः शैलसुताचरणरागयोनिरयम् । आवहति धार्यमाणः संगममचिरात् प्रियजनेन ॥ ३६ ॥

राजा — (कर्णे दत्त्वा) को नु खलु मामेवमनुशास्ति । (दिशोऽवलोक्य ।) अये अनुकम्पते मां कश्चिन्मृगचारी मुनि र्भगवान् । भगवन् अनुगृहीतोऽस्म्यहमुपदेशाद् भवतः । (मणिमादाय) हंहो संगमनीय

तया वियुक्तस्य विलग्नमध्यया भविष्यसि त्वं यदि संगमाय मे । ततः करिष्यामि भवन्तमात्मनः शिखामणि बालमिवेन्दुमीश्वरः ॥ ३७ ॥

(परिक्रम्य अवलोक्य च ।) अये किं नु खलु कुसुमरहितामपि लतामिमां पश्यतो मे रतिरुपलब्धा । अथवा स्थाने मनोरमा ममेयम् । इयं हि

तन्वी मेघजलार्द्रपल्लवतया धौताधरेवाश्रुभिः शून्येवाभरणैः स्वकालविरहाद् विश्रान्तपुष्पोद्गमा । चिन्तामौनमिवास्थिता मधुलिहां शब्दैविना लक्ष्यते चण्डी मामवधूय पादपतितं जातानुतापेव सा ॥ ३८ ॥

यावदस्याः प्रियानुकारिण्याः परिष्वङ्गप्रणयी भवामि । (इति लतामालिङ्गति । ततः प्रविशति तत्स्थान एवोर्वशी ।)

राजा — (निमीलिताक्ष एव स्पर्श रूपयित्वा) अये उर्वशीगात्रसंपर्कादिव निर्वृतं मे शरीरम् । तथापि न पुनरस्ति विश्वासः । कुतः ।

समर्थये यत् प्रथम प्रियां प्रति क्षणेन तन्मे परिवर्ततेऽन्यथा । अतो विनिद्रे सहसा विलोचने करोमि न स्पर्शविभावितप्रियः ॥ ३९ ॥

(शनैश्चक्षुरुन्मील्य ।) कथं सत्यमेव प्रियतमा ।

उर्वशी — (बाष्पं विसृज्य) जेदु जेदु महाराओ । (जयतु जयतु महाराजः ।)

राजा — त्वद्वियोगोद्भवे तन्वि मया तमसि मज्जता । दिष्ट्या प्रत्युपलब्धासि चेतनेव गतासुना ॥ ४० ॥

उर्वशी — अभ्भन्तर करणाए मए पच्चक्खी-किद-वुत्तन्तो खु महाराओ । (अभ्यन्तरकरणया मया प्रत्यक्षीकृतवृत्तान्तः खलु महाराजः ।)

राजा — अभ्यन्तरकरणयेति न खलु ते वचनार्थमवैमि ।

उर्वशी — कहइस्सं । इमं दाव पसीददु महाराओ जं मए कोववसं गदाए एदं अवत्थन्तरं पाविदो महाराओ । (कथयिष्यामि । एतत् तावत् प्रसीदतु महाराजो यन्मया कोपवशं गतया एतदवस्थान्तरं प्रापितो महाराजः ।)

राजा — कल्याणि न तावदहं प्रसादयितव्यः । त्वद्दर्शनादेव प्रसन्नः सबाह्यान्तःकरणो ममान्तरात्मा । कथय कथमियन्तं कालमवस्थिता मया विना भवती ।

उर्वशी — सुणादु महाराओ । भअवदा कुमारेण सासदं कुमारवदं गेण्हिअ अकलुसो णाम गन्धमादण-कच्छो अज्झासिदो किदो अ एस विही । (शृणोतु महाराजः । भगवता कुमारेण शाश्वतं कुमारव्रतं गृहीत्वा अकलुषो नाम गन्धमादनकच्छोध्यासितः कृतश्चैष विधिः ।)

राजा — क इव ।

उर्वशी — जा इमं पदेसं इत्थिआ पविसदि सा लदाभावेण परिणमिस्सदि । गोरी-चरण-संभवं मणिं विणा तदो ण मुच्चिस्सदि त्ति । साहं गुरु-साव-संमूढ-हिअआ देवदा-समअं विसुमरिअ अगहिदाणुणआ कुमार-वणं पविठ्ठा । पवेसाणन्तरं एव्व वासन्ती लदा संयुता । (या एतं प्रदेशं प्रवेक्ष्यति सा लताभावेन परिणस्यति । गौरी-चरणसंभवं मणिं बिना ततो न मोक्ष्यत इति । साहं गुरुशापसंमूढहृदया देवतासमयं विस्मृत्य अगृहातानुनया कुमारवनं प्रविष्टा । प्रवेशानन्तरमेव वासन्ती लता संवृत्ता ।)

राजा — सर्वमुपपन्नम् ।

रतिखेदसुप्तमपि मां शयने या मन्यसे प्रवासगतम् सा त्वं प्रिये सहेथाः कथं मदीयं चिरवियोगम् ॥ ४१ ॥

इदं तद् यथाकथितं त्वत्संगमनिमित्तं मुनेरुपलभ्य मणिप्रभावादासादिता त्वमस्माभिः । (मणिं दर्शयति)

उर्वशी — अम्मो संगमणीओ । अदो खु महाराएण आलिङ्गिदमेत्तव्व पकिदिथ्थ म्हि संवुत्ता । (मणिमादाय मूर्धनि वहति) (अहो संगमनीयः । अतः खलु महाराजेन आलिङ्गितमात्रैव प्रकृतिस्थास्मि संवृत्ता ।)

राजा — इवमेव सुन्दरि क्षणमात्रं स्थीयताम् ।

स्फुरता विच्छुरितमिदं रागेण मणेर्ललाटनिहितस्य । श्रियमुद्वहति मुखं ते बालातपरक्तकमलस्य ॥ ४२ ॥

उर्वशी — महन्तो खु कालो तुह पइठ्ठाणादो णिग्गदस्स । असूअन्ति मं पकिदीओ । ता एहि णिवुत्तह्म । (महान् खलु कालस्तव प्रतिष्ठानात् निर्गतस्य । असूयन्ति मह्यं प्रकृतय । तदेहि निवर्तावहे ।)

राजा — यदाज्ञापयति भवती ।

उर्वशी — कहं महाराओ गन्तुं इच्छेदि । (कथं महाराजो गन्तुमिच्छति ।)

राजा — अचिरप्रभाविलसितैः पताकिना सुरकार्मुकाभिनवचित्रशोभिना । गमितेन खेलगमने विमानतां नय मां नवेन वसतिं पयोमुचा ॥ ४३ ॥

(इति निष्क्रान्ताः सर्वे ।)

विक्रमोर्वशीय चतुर्थोङ्कः समाप्तः ॥

Act 5

(ततः प्रविशति परितुष्टो विदूषकः ।)

विदूषकः — दिट्ठिआ चिरस्स कालस्स उव्वसी-सहाओ णन्दण-वण-प्पमुहेसु देवदारण्णेसु विहरिअ पडिणिवुत्तो पिअ-वअस्सो । दाणिं ससक्कारोवआरेहिं पकिदीहिं अणुरज्जन्तो रज्जं करेदि । असंताणत्तणं वज्जिअ ण किं वि से हीणं । अज्ज तिहि-विसेसो त्ति भअवदीणं गङ्गा-जउँणाणं संगमे देवीहिं सह किदाहिसेओ संपदं उवआरिअं पविठ्ठो । ता जाव तत्तभवदो अलंकारीअमाणस्स अणुलेवण-मल्ले अग्ग-भागी होमि । (इति परिक्रामति) (दिष्टया चिरस्य कालस्य उर्वशीसहायो नन्दनवनप्रमुखेषु देवातण्येषु विहृत्य प्रतिनिवृत्तः प्रियवयस्यः । इदानीं ससत्कारोपचारैः प्रकृतिभिरनुरज्यमानो राज्यं करोति । असंतानत्वं वर्जयित्वा न किमपि अस्य हीनम् । अद्य तिथिविशेष इति भगवत्योर्गङ्गायमुनयोः संगमे देवीभिः सह कृताभिषेकः सांप्रतमुपकार्यो प्रविष्टः तद् यावत् तत्रभवतः अलंक्रियमाणस्य अनुलेपनमाल्ये अग्रभागी भवामि ।)

(नेपथ्ये) हद्धी हद्धी । दुऊलुत्तरच्छदे तालवेण्टाधारे णिक्खिविअ णीअमाणो मए भट्टिणो अब्भन्तर-विलासिणी-मोलि-रअण-जोग्गो मणी आमिस-सङ्किणा गिद्धेण अक्खित्तो । (हा धिक् हा धिक् । दुकूलोत्तरच्छदे तालवृन्ताधारे निक्षिप्य नीयमानो मया भर्तुरभ्यन्तरविलासिनीमौलिरत्नयोग्यो मणिर । आमिशशङ्किना गृध्रेणाक्षिप्तः ।)

विदूषकः — (कर्णे दत्वा) अच्चाहिदं । परं बहु-मदो क्खु सो वअस्सस्स संगमणीओ णाम चूडामणी । अदो खु असमत्त-णेवच्छो तत्तभवं आसणादो उट्ठिअ इदो एव्व आअच्छदि । जाव णं उवसप्पामि । (अत्याहितम् । परं बहुमतः खलु स वयस्यस्य संगमनीयो नाम चूडामणिः । अतः खलु असमाप्तनेपथ्यस्तत्रभवानासनादुत्थाय इत एवागच्छति । यावदेनमुपसर्पामि ।)

(ततः प्रविशति सावेगपरिजनो राजा ।)

राजा — आत्मनो वधमाहर्ता कासौ विहगतस्करः । येन तत्प्रथमं स्तेयं गोप्तुरेव गृहे कृतम् ॥ १ ॥

किराती — एसो एसो खु मुह-कोडि-लग्ग-हेम-सुत्तेण मणिणा आलिहन्तो विअ आआसं पडिब्भमदि । (एष एष खलु मुखकोटिलग्नहेमसूत्रेण मणिना आलिखन्निव आकाशं परिभ्रमति ।)

राजा — पश्याम्येनम् । असौ मुखालम्बितहेमसूत्रं बिभ्रन्मणिं मण्डलचारशीघ्रः । अलातचक्रप्रतिमं विहंगस्तद्रागरेखावलयं तनोति ॥ २ ॥

किं नु खलु कर्तव्यम् ।

विदूषकः — (उपेत्य) अलं एत्थ घिणाए । अवराही सासणीओ । (अलमत्र घृणया । अपराधी शासनीयः ।)

राजा — सम्यगाह भवान् । धनुर्धनुस्तावत् ।

(निष्क्रान्ता धनुर्ग्राहिणी यवनी ।)

राजा — वयस्य न दृश्यते विहंगः ।

विदूषकः — इदो दक्खिणन्तेण अवगदो सासणीओ कुणवभोअणो । (इतो दक्षिणान्तेन अपगतः शासनीयः कुणपभोजनः ।)

राजा — (परिवृत्य अवलोक्य) दृष्ट इदानीम् । प्रभापल्लवितेनासौ करोति मणिना खगः । अशोकस्तबकेनेव दिङ्मुखस्यावतंसकम् ॥ ३ ॥

(प्रविश्य चापहस्ता यवनी ।)

यवनी — भट्टा एदं हत्थावावसहिदं सरासणं । (भर्तः एतद्धस्तावापसहितं शरासनम् ।)

राजा — किमिदानीं धनुषा । बाणपथमतीतः क्रव्यभोजनः । तथा हि । आभाति मणिविशेषो दूरमिदानीं पतत्रिणा नीतः । नक्तमिव लोहिताङ्गः परुषघनच्छेदसंयुक्तः ॥ ४ ॥

(कञ्चुकिनं विलोक्य) लातव्य मद्वचनादुच्यतां नागरिकः सायं निवासवृक्षाश्रया विचीयतां विहगदस्युरिति ।

कञ्चुकी — यदाज्ञापयति देवः ।

(इति निष्क्रान्तः)

विदूषकः — उवविसदु भवं संपदं । कहिं गदो रअण-कुम्भीलओ भवदो सासणादो मुच्चिस्सदि । (उपविशतु भवान् सांप्रतम् । क्व गतो रत्नकुम्भीरको भवतः शासनाद् मोक्ष्यते ।)

राजा — (विदूषकेण सहोपविश्य) रत्नमिति न मम तस्मिन् मणौ प्रियत्वं विहंगमाक्षिप्ते । प्रियया तेनास्मि सखे संगमनीयेन संगमितः ॥ ५ ॥

विदूषकः — णं परिगदत्थो हि किदो भवदा । (ननु परिगतार्थोस्मि कृतो भवता ।)

(ततः प्रविशति सशरं मणिमादाय कञ्चुकी ।)

कञ्चुकी — जयतु देवः । अनेन निर्भिन्नतनुः स वध्यो रोषेण ते मार्गणतां गतेन । प्राप्यापराधोचितमन्तरिक्षात् समौलिरत्नः पतितः पतत्री ॥ ६ ॥

(सर्वे विस्मयं रूपयन्ति ।)

कञ्चुकी — अद्भिः प्रक्षालितो मणिः कस्मै प्रदीयताम् ।

राजा — किराति अग्निशुद्धमेनं कृत्वा पेटकं प्रवेशय ।

किराती — जं भट्टा आणवेदि । (इति मणिं गृहीत्वा निष्क्रान्ता ।) यद् भर्ता आज्ञापयति ।

राजा — लातव्य अपि जानीते भवान् कस्यायं बाण इति ।

कञ्चुकी — नामाङ्कितो दृश्यते न तु मे वर्णविचारक्षमा दृष्टिः ।

राजा — तेन ह्युपनय शरम् ।

(कञ्चुकी तथा करोति ।) (राजा नामाक्षराण्यनुवाच्य । सापत्यतां रूपयति ।)

कञ्चुकी — यावन्नियोगमशून्यं करोमि ।

(इति निष्क्रान्तः)

विदूषकः — किं भवं विआरेदि । (किं भवान् विचारयति ।)

राजा — शृणु तावत् प्रहर्तुर्नामाक्षराणि (वाचयति) उर्वशीसंभवस्यायमैलसूनोर्धनुर्भृतः कुमारस्यायुषो बाणः प्रहर्तुर्द्विषदायुषाम् ॥ ७ ॥

विदूषकः — (सपरितोषम्) दिट्ठिआ संताणेण वड्ढदि भवं । (दिष्ट्या संतानेन वर्धते भवान् ।)

राजा — सखे कथमेतत् । अन्यत्र नैमिषेयसत्रादवियुक्तोहमूर्वश्या । न च मया गर्भव्यक्तिरालक्षिता । कुत एव प्रसूतिः । किं तु आविलपयोधराग्रं लवलीदलपाण्डुराननच्छायम् । तानि दिनानि वपुरभूत् केवलमलसेक्षणं तस्याः ॥ ८ ॥

विदूषकः — मा भवं सव्वं माणुसी-धम्मं दिव्वासु संभावेदु । पहावणिगूढाइं ताणं चरिदाइं । (मा भवान् सर्वे मानुषीधर्मे दिव्यासु संभावयतु । प्रभावनिगूढानि तासां चरितानि ।)

राजा — अस्तु तावदेवं यथा भवानाह । पुत्रसंवरणे किमिव कारणं तत्रभवत्याः ।

विदूषकः — को देवदा-रहस्साइं तक्कइस्सदि । (को देवतारहस्यानि तर्कयिष्यति ।)

(प्रविश्य कञ्चुकी ।)

कञ्चुकी — जयतु जयतु देवः । देव च्यवनाश्रमात् कुमारं गृहीत्वा तापसी संप्राप्ता देवं द्रष्टुमिच्छति ।

राजा — उभयमपि अविलम्बितं प्रवेशय ।

कञ्चुकी — यदाज्ञापयति देवः ।

(इति निष्क्रम्य चापहस्तेन कुमारेण तापस्या च सह प्रविष्टः ।)

कञ्चुकी — इत इतो भगवती । (सर्वे परिक्रामन्ति ।)

विदूषकः — (विलोक्य) किं ण खु सो एसो तत्तभवं खत्तिअ-कुमारओ जस्स णामङ्किदो गिद्ध-लक्ख-वेधी अद्ध-णाराओ । तह बहुअरं भवन्तं अणुकरेदि । (किं न खलु स एष तत्रभवान् क्षत्रियकुमारको यस्य नामाङ्कितां गृध्रलक्षवेधी अर्धनाराचः । तथा बहुतरं भवन्तमनुकरोति ।)

राजा — स्वादेवम् । अतः खलु बाष्पायते निपतिता मम दृष्टिरस्मिन् वात्सल्यबन्धि हृदयं मनसः प्रसादः । संजातवेपथुमिरुज्झितधैर्यवृत्ति- रिच्छामि चैनमदयं परिरब्धुमङ्गैः ॥ ९ ॥

कञ्चुकी — भगवति एवं स्थीयताम् ।

(तापसीकुमारौ स्थितौ ।)

राजा — अम्ब अभिवादये ।

तापसी — महा-भाअ सोम-वंस-वित्थारइत्तओ होहि । (आत्मगतम्) अम्हो अणाचक्खिदोवि विण्णादो इमस्स राएसिणो आउसो अ ओरसो संबन्धो । (प्रकाशम्) जाद पणम दे गुरुं । (महाभाग सोमवंशविस्तारयिता भव । अहो अनाख्यातोपि विज्ञातः अस्य राजर्षेरायुषश्चौरसः संबन्धः । जात प्रणम ते गुरुम् ।)

(कुमारञ्चापगर्भमञ्जलिं करोति ।)

राजा — आयुष्मान् भव ।

कुमारः — (आत्मगतम्) यदि हार्दमिदं श्रुत्वा पिता ममायं सुतोऽहमस्येति । उत्सङ्गवर्धितानां गुरुषु भवेत् कीदृशः स्नेहः ॥ १० ॥

राजा — भगवति किमागमनप्रयोजनम् ।

तापसी — सुणादु महाराओ । एसो दीहाऊ आऊ जाद-मेत्तो एव्व उव्वसीए किंवि णिमित्तं अवेक्खिअ मम हत्थे णासी-किदो । जं खत्तिअ-कुमारअस्स जाद-कम्मादि विहाणं तं से भअवदा चवणेण असेसं अणुचिट्ठिदं । गहिद-विज्जो धणुव्वेदे अहिविणोदो । (शृणोतु महाराजः । एष दीर्घायुरायुर्जातमात्र एव उर्वश्या किमपि निमित्तमवेक्ष्य मम हस्ते न्यासीकृतः । यत् क्षत्रियकुमारस्य जातकर्मादि विधानं तदस्य भगवता च्यवनेन अशेषमनुष्ठितम् । गृहीतविद्यो धनुर्वेदेभिविनीतः ।)

राजा — सनाथः खलु संवृत्तः ।

तापसी — अज्ज पुप्फ-समिदत्थं इसि-कुमारएहिं सह-गदेण इमिणा अस्सम-विरुद्धं आअरिदं । (अद्य पुष्पसमिदर्थमृषिकुमारकैः सह गतेन अनेन आश्रमविरुद्धमाचरितम् ।)

विदूषकः — (सावेगम्) किं विअ । (किमिव ।)

तापसी — गहिदामिसो किल गिद्धो पादव-सिहरे णिलीअमाणो अणेण लक्खी-किदो बाणस्स । (गृहीतामिषः किल गृध्रः पादपशिखरे निलीयमानोऽनेन लक्ष्यीकृतो बाणस्य ।)

(विदूषको राजानमवलोकयति ।)

राजा — ततस्ततः ।

तापसी — तदो उवलद्ध-उत्तन्तेण भअवदा चवणेण अहं समादिट्ठा । णिज्जादेहि हत्थ-णासंति । ता इच्छामि देविं उव्वसिं पेक्खिदुं । (तत उपलब्धवृत्तान्तेन भगवता च्यवनेन अहं समादिष्टा । निर्यातय हस्तन्यासमिति । तदिच्छामि देवीमुर्वशीं प्रेक्षितुम् ।)

राजा — तेन हि आसनमनुगृण्हातु भगवती ।

(तापसी उपनीत आसने उपविशति ।)

राजा — लातव्य आहूयतामुर्वशी ।

कञ्चुकी — यदाज्ञापयति देवः । (इति निष्क्रान्तः)

राजा — (कुमारमवलोक्य) एह्येहि वत्स । सर्वाङ्गीणः स्पर्शः सुतस्य किल तेन मामुपगतेन । आह्लादयस्व तावच्चन्द्रकरश्चन्द्रकान्तमिव ॥ ११ ॥

तापसी — जाद आणन्देहि पितरं । (जात आनन्दय पितरम् ।)

(कुमारः राजानमुपगम्य पादग्रहणं करोति ।)

राजा — (कुमारं परिष्वज्य पादपीठे चोपवेश्य) वत्स इतस्तव पितुः प्रियसखं ब्राह्मणमशङ्कितो वन्दस्व ।

विदूषकः — किं ति सङ्किस्सदि । अस्सम-वास-परिचिदो एव्व साहामिओ । (किमिति शङ्किष्यते । आश्रमवासपरिचित एव शाखामृगः ।)

कुमारः — (सस्मितम्) तात वन्दे ।

विदूषकः — सत्थि भवदो । (स्वस्ति भवते ।)

(ततः प्रविशति उर्वशी कञ्चुकी च ।)

कञ्चुकी — इत इतो देवी ।

उर्वशी — (कुमारमवलोक्य) को णु खु एसो म बाणासणो पादपीठे सअं महाराएण संजमीअमाण-सिहण्डओ चिट्ठदि । (तापसीं दृष्ट्वा) अम्मो सच्चवदी-सूइदो मे पुत्तओ आऊ । महन्तो खु संवुत्तो । (परिक्रामति) (को नु खल्वेष सबाणासनः पादपीठे स्वयं महाराजेन संयम्यमानशिखण्डकस्तिष्ठति । अहो सत्यवतीसूचितां मम पुत्रक आयुः । महान् खलु संवृत्त ।)

राजा — (उर्वशीं दृष्ट्वा) इयं से जननी प्राप्ता त्वदालोकनतत्परा । स्नेहप्रस्नवनिर्भिन्नमुद्वहन्ती स्तनाशुकम् ॥ १२ ॥

तापसी — जाद एहि पच्चुग्गच्छ मादरं । (जात एहि प्रत्युद्गच्छ मातरम् ।)

(कुमार उर्वशीं प्रत्युद्गच्छति ।)

उर्वशी — अम्ब पाद-पणामं करेमि । (अम्ब पादप्रणामं करोमि ।)

तापसी — वच्छ भत्तुणो बहु-मदा होहि । (वत्से भर्तुर्बहुमता भव ।)

कुमारः — अम्ब अभिवादये ।

उर्वशी — (कुमारमुन्नमितमुखं परिष्वज्य) वच्छ पिदरं आराधइत्तओ होहि । (राजानमुपेत्य) जेदु जेदु महाराओ ! (वत्स पितरमाराधयिता भव । जयतु जयतु महाराजः ।)

राजा — स्वागतं पुत्रवत्यै । इत आस्यताम् । (अर्धासनं ददाति ।) (उर्वशी उपविशति ।)

तापसी — सो गहिद-विज्जो आऊ संपदं कवअ-हरो संवुत्तो । एदस्स दे भत्तुणो समक्खं णिज्जादिदो हत्थणिक्खेवो । ता विसज्जेदुं इच्छामि । उवरुज्झइ मे अस्सम-धम्मो । (एष गृहीतविद्य आयुः सांप्रतं कवचहरः संवृत्तः । तदेतस्य ते भर्तुः समक्षं निर्यातितो हस्तनिक्षेपः । तद् विसर्जयितुमिच्छामि । उपरुध्यते ममाश्रमधर्मः ।)

उर्वशी — चिरस्स अज्जं देख्खिअ अहिअदरं अवितिण्ह-म्हि । ण सक्कुणोमि विसज्जिदुं । अण्णय्यं उवरोहिदुं । गच्छदु अज्जा पुणो-दंसणाअ । (चिरस्यार्यां दृष्ट्वा अधिकतरमवितृष्णास्मि । न शक्नोमि विस्रष्टुम् । अन्याय्यमुपरोद्धुम् । गच्छत्वार्या पुनर्दर्शनाय ।)

राजा — अम्ब भगवते च्यवनाय मां प्रणिपातय ।

तापसी — एव्वं भोदु । (एवं भवतु ।)

कुमारः — आर्ये सत्यं यदि निवर्तसे मामपि आश्रमं नेतुमर्हसि !

राजा — अयि वत्स उषितं त्वया पूर्वस्मिन्नाश्रमे । द्वितीयमध्यासितुं तव समयः ।

तापसी — जाद गुरुणो वअणं अणुचिट्ठ । (जात गुरोर्वचनमनुतिष्ठ ।)

कुमार — तेन हि यः सुप्तवान् मदङ्के शिखण्डकण्डूयनोपलब्धसुखः । तं मे जातकलापं प्रेषय मणिकण्ठकं शिखिनम् ॥ १३ ॥

तापसी — (विहस्य) एव्वं करेमि । सत्थि भोदु तुम्हाणं । (एवं करोमि । स्वस्ति भवतु युष्मभ्यम् ।) (इति निष्क्रान्ता ।)

राजा — कल्याणि अद्याहं पुत्रिणामग्र्यः सत्पुत्रेणामुना तव । पौलोमीसंभवेनेव जयन्तेन पुरंदरः ॥ १४ ॥

(उर्वशी स्मृत्वा रोदिति ।)

विदूषकः — किं णु खु तत्तहोदी एक्क वदे अस्सु-मुही संवुत्ता । (किं नु खलु तत्रभवती एकपदेऽश्रुमुखी संवृत्ता ।)

राजा — (सावेगम्) किं सुन्दरि प्ररुदितासि ममोपपन्ने वंशस्थितेरधिगमान्महति प्रमोदे । पीनोन्नतस्तनविसर्पिभिरानयन्ती मुक्तावलीविरचनापुनरुक्तिमस्त्रैः ॥ १५ ॥

(बाष्पमस्याः प्रमार्ष्टि ।)

उर्वशी — सुणादु महाराओ पढमं उण पुत्त-दंसणेण विसुमरिद म्हि । दाणिं महिन्द-संकित्तणेण समओ मह हिअअं आआसेदि । (शृणोतु महाराजः प्रथमं पुनः पुत्रदर्शनेन विस्मृतास्मि । इदानीं महेन्द्रसंकीर्तनेन समयो मम हृदयमायासयति ।)

राजा — कथ्यतां समयः ।

उर्वशी — अहं पुरा महाराअ-गहिद-हिअआ महिन्देण आणत्ता - (अहं पुरा महाराजगृहीतहृदया महेन्द्रेण आज्ञापिता -)

राजा — किमिति ।

उर्वशी — जदा एसो मम पिअ-सहो राएसी तुइ समुप्पण्णस्स वंस-करस्स मुहं पेक्खिस्सदि तदा तुए भूओ वि मम समीवं आअन्तव्वं ति । तदो मए महाराअ-विओअ-भीरुदाए जादमेत्तो एव्व विज्जागम-णिमित्तं भअवदो चवणस्स अस्सम-पदे अज्जाए सच्चवदीए हत्थे अप्पआसं णिक्खित्तो । अज्ज पिदुणो आराहण-समत्थो संवुत्तो त्ति कलयन्तीए णिज्जादिदो मे दीहाऊ । ता एत्तिओ मे महाराएण संवासो । (यदैष मम प्रियसखो राजर्षिस्त्वयि समुत्पन्नस्य वंशकरस्य मुखं प्रेक्षिष्यते तदा त्वया भूयोपि मम समीपमागन्तव्यमिति । ततो मया महाराजवियोगभीरुतया जातमात्र एव विद्यागमनिमित्तं भगवतश्च्यवनस्याश्रमपदे आर्यायाः सत्यवत्या हस्ते अप्रकाशं निक्षिप्तः अद्य पितुराराधनसमर्थः संवृत्त इति कलयन्त्या निर्यातितो मे दीर्घायुः। तदेतावान् मे महाराजेन संवासः ।)

(सर्वे विषाद रूपयन्ति ।)

राजा — (सनिःश्वासम्) अहो सुखप्रत्यर्थिता देवस्य । आश्वासितस्य मम नाम सुतोपलब्ध्या सद्यस्त्वया सह कृशोदरि विप्रयोगः । व्यावर्तितातपरुजः प्रथमाभ्रवृष्ट्या वृक्षस्य वैद्युत इवाग्निरुपस्थितोऽयम् ॥ १६ ॥

विदूषकः — अअं सो अत्थो अणत्थाणुबन्धो संवुत्तो संपदं तक्केमि तत्तभवदा वक्कलं गेण्हिअ तवो-वणं गन्दव्वं त्ति । (अयं सोर्थः अनर्थानुबन्धः संवृत्तः । सांप्रतं तर्कयामि तत्रभवता वल्कलं गृहीत्वा तपोवनं गन्तव्यमिति ।)

उर्वशी — मं पि मन्द-भाइणिं किद-विणअस्स पुत्तस्स लाभाणन्तरं सग्गारोहणेण अवसिद-कज्जं महाराओ समत्थेदि । (मामपि मन्दभागिनीं कृतविनयस्य पुत्रस्य लाभानन्तरं स्वर्गारोहणेन अवसितकार्यो महाराजः समर्थयते ।)

राजा — मा मैवम् न हि सुलभवियोगा कर्तुमात्मप्रियाणि प्रभवति परवत्ता शासने तिष्ठ भर्तुः । अहमपि तव सुनावायुषि व्यस्तराज्यो विचरितमृगयूथान्याश्रयिष्ये वनानि ॥ १७ ॥

कुमारः — नार्हति तातः पुंगवधारितायां धुरि दम्यं नियोजयितुम् ।

राजा — अयि वत्स शमयति गजानन्यान् गन्धद्विपः कलभोऽपि सन् भवति सुतरां वेगोदग्रं भुजंगशिशोविषम् । भुवमधिपतिर्बालावस्थोऽप्यलं परिरक्षितुं न खलु वयसा जात्यैवायं स्वकार्यसहो भरः ॥ १८ ॥

लातव्य मद्वचनादमात्यपरिषदं ब्रूहि संभ्रियतामायुषो राज्याभिषेक इति ।

कञ्चुकी — यदाज्ञापयति देवः । (इति दुःखितो निष्क्रान्तः)

(सर्वे दृष्टिप्रविघातं रूपयन्ति ।)

राजा — (आकाशमवलोक्य) किं तु खलु निरभ्रे विद्युत्संपातः ।

उर्वशी — (विलोक्य) अम्मो भअवं णारदो । (अहो भवान् नारदः ।)

राजा — अये भगवान् नारदः । य एष गोरोचनानिकषपिङ्गजटाकलापः संलक्ष्यते शशिकलामलवीतसूत्रः । मुक्तागुणातिशयसंभृतमण्डनश्री- र्हेमप्ररोह इव जङ्गमकल्पवृक्षः ॥ १९ ॥

अर्घ्यमस्मै ।

उर्वशी — (यथोक्तमादाय) इअं भअवदे अरिहणा । (इयं भगवतेऽर्हणा ।)

(ततः प्रविशति नारदः ।)

नारदः — विजयतां मध्यमलोकपालः ।

राजा — (उर्वशी हस्तादर्घ्यमादाय आवर्ज्य) भगवन्नभिवादये ।

उर्वशी — भअवं पणमामि । (भगवन् प्रणमामि ।)

नारदः — अविरहितौ दंपती भूयास्ताम् ।

राजा — (आत्मगतम्) अपि नामैवं स्यात् । (प्रकाशम् । कुमारमाश्लिष्य) वत्स भगवन्तमभिवादवस्व ।

कुमारः — भगवन्नौर्वशेय आयुः प्रणमति ।

नारदः — आयुष्मानेधि ।

राजा — अयं विष्टरोऽनुगृह्यताम् ।

(नारदस्तथोपविष्टः । सर्वे नारदमनूपविशन्ति ।)

नारदः — राजन् श्रूयतां महेन्द्रसंदेशः ।

राजा — अवहितोऽस्मि ।

नारदः — प्रभावदर्शी मघवा वनगमनाय कृतबुद्धिं भवन्तमनुशास्ति ।

राजा — किमाज्ञापयति ।

नारदः — त्रिकालदर्शिभिर्मुनिभिरादिष्टः सुरासुरसंगरो भावी । भवांश्च सांयुगीनः सहायो नः । तेन त्वया न शस्त्रं संन्यस्तव्यम् । इयं चोर्वशी यावदायुस्तव सहधर्मचारिणी भवत्विति ।

उर्वशी — (अपवार्य) अम्महे सलं मे हिअआदो अवणीदं विअ । (अहो शल्यं मे हृदयादपनीतमिव ।)

राजा — परवानस्मि देवेश्वरेण ।

नारदः — युक्तम् । त्वत्कार्ये वासवः कुर्यात् त्वं च तस्येष्टमाचरेः । सूर्यः समेधयत्यग्निमग्निः सूर्ये च तेजसा ॥ २० ॥

(आकाशमवलाेक्य) रम्भे उपनीयतां स्वयं महेन्द्रेण संभृतः कुमारस्यायुषो यौवराज्याभिषेकः ।

(प्रविष्टा यथोक्तहस्ता अप्सरसः ।)

अप्सरसः — भअवं इमे अभिसेअ-संभारा । (भगवन्नेतेऽभिषेकसंभागः ।)

नारदः — उपवेश्यतामायुष्मान् भद्रपीठे ।

रम्भा — इदो वच्छ । (कुमारमुपवेशयति) (इतो वत्स ।)

नारदः — (कुमारम्य शिरसि कलशमावर्ज्य) रम्भे निर्वर्त्यतां शेषो विधिः ।

रम्भा — (यथोक्तं निर्वर्त्य) वच्छ पणम भअवन्तं मादा पिदरे अ । (वत्स प्रणम भगवन्तं मातापितरौ च ।)

(कुमारः यथाक्रमं प्रणमति ।)

नारदः — स्वस्ति भवते ।

राजा — कुलधुरंधरो भव ।

उर्वशी — पिदुणो आराधइत्तओ होहि । (पितुराराधयिता भव ।)

(नेपथ्ये वैतालिको ।)

प्रथमः — विजयतां युवराजः । अमरमुनिरिवात्रिर्ब्रह्मणोऽत्रेरिवेन्दु- र्बुध इव शिशिरांशोर्बोधनस्येव देवः । भव पितुरनुरूपस्त्वं गुणैर्लोककान्तै- रतिशयिनि समाप्ता वंश एवाशिषस्ते ॥ २१ ॥

द्वितीयः — तव पितरि पुरस्तादुन्नतानां स्थितेऽस्मिन् स्थितिमति च विभक्ता त्वय्यनाकम्प्यधैर्ये । अधिकतरमिदानीं राजते राज्यलक्ष्मी- र्हिमवति जलधौ च व्यस्ततोयेव गङ्गा ॥ २२॥

अप्सरसः — (उर्वशीमुपेत्य) दिट्ठिआ पुत्तस्स जुव-राअ-सिराए भत्तुणो अविरहेण वड्ढसि । (दिष्ट्या पुत्रस्य युवराजश्रिया भर्तुरविरहेण वर्धसे ।)

उर्वशी — साहारणो एसो अब्भुदओ । (कुमारं हस्तेगृहीत्वा) एहि वच्छ जेठ्ठ-मादरं अभिवन्देहि । (साधारण एषोभ्युदयः । एहि वत्स ज्येष्ठमातरमभिवन्दस्व ।)

(कुमारः प्रतिष्ठते ।)

राजा — तिष्ठ । सममेव तत्रभवत्याः समीपं यास्यामस्तावत् ।

नारदः — आयुषो यौवराज्यश्रीः स्मारयत्यात्मजस्य ते । अभिषिक्तं महासेनं सैनापत्ये मरुत्वता ॥ २३ ॥

राजा — एवमनुगृहीतो भगवता कथं न योग्यो भविष्यति ।

नारदः — किं ते भूयः पाकशासनः प्रियं करोतु ।

राजा — यदि मे मघवा प्रसन्नः किमतः परमिच्छामि । तथापीदमस्तु । (भरतवाक्यम्) परस्परविरोधिन्योरेकसंश्रयदुर्लभम् । संगतं श्रीसरस्वत्योर्भूतयेऽस्तु सदा सताम् ॥ २४ ॥

(इति निष्क्रान्ताः सर्वे ।) (इति विक्रमोर्वशीये नाटके पञ्चमोङ्कः ।) (समाप्तमिदं विक्रमोर्वशीयं नाटकम् ।)