Ritusamhara
Act 1
ऋतुसंहारम्
प्रथमः सर्गः
प्रचण्डसूर्यः स्पृहणीयचन्द्रमाः
सदावगाहक्षतवारिसञ्चयः ।
दिनान्तरम्योऽभ्युपशान्तमन्मयो
निदाघकालोऽयमुपागतः प्रिये ॥ १ ॥
निशाः शशाङ्कक्षतनीलराजयः
क्वचिद्विचित्रं' जलयन्त्रमन्दिरम् ।
मणिप्रकाराः सरसं च चन्दनं
शुचौ प्रिये ! यान्ति जनस्य सेव्यताम् ॥२॥
सुवासितं हर्म्यतलं मनोहरं
प्रियामुखोच्छ वासविकम्पितं मधु ।
सुतन्त्रिगीतं मदनस्य दीपनं
शुचौ निशीथेऽनुभवन्ति कामिनः॥३॥
नितम्बबिम्बैः सुदुकूलमेखलैः
स्तनैः सहाराभरणैः सचन्दनैः ।
शिरोरुहैः स्नानकषायवासितैः
स्त्रियो निदाघं शमयन्ति कामिनाम् ॥४॥
नितान्तलाक्षारसरागरञ्जितै-
नितम्बिनीनां चरणैः सनूपुरैः ।
पदे पदे हंसरुतानुकारिभि-
जनस्य चित्तं क्रियते समन्मथम् ॥ ५ ॥
पयोधराश्चन्दनपङ्कचर्चिता-
स्तुषारगौरार्पितहारशेखराः ।
नितम्बदेशाश्च सहेममेखलाः
प्रकुर्वते कस्य मनो न सोत्सुकम् ॥६ ॥
समुद्गतस्वेदचिताङ्गसन्धयो
विमुच्य वासांसि गुरुरि साम्प्रतम् ।
स्तनेषु तन्वंशुकमुन्नतस्तना
निवेशयन्ति प्रमदाः सयौवनाः ॥७॥
सचन्दनाम्बुव्यजनोद्भवानिलः
सहारयष्टिस्तनमण्डलार्पणै:।
सवल्लकीकाकलिगीतनिःस्वनै -
विबोध्यते सुप्त इवाद्य मन्मथः ॥८॥
सितेषु हर्म्येषु निशासु योषितां
सुखप्रसुप्तानि मुखानि चन्द्रमाः ।
विलोक्य नूनं भृशमुत्सुकश्चिरं
निशाक्षये याति ह्रियेव पाण्डुताम् ॥९॥
प्रसह्यवातोद्धतरेणुमण्डला
प्रचण्डसूर्यातपतापिता मही।
न शक्यते द्रष्टुमपि प्रवासिभिः
प्रियावियोगानलदग्धमानसैः ॥ १० ॥
मृगाः प्रचण्डातपतापिता भृशं
तृषा महत्या परिशुष्कतालवः ।
वनान्तरे तोयमिति प्रधाविता
निरीक्ष्य भिन्नाञ्जनसन्निभं नभः ॥११॥
सविभ्रमैः सस्मितजिह्मवीक्षितै -
र्विलासवत्यो मनसि प्रवासिनाम् ।
अनङ्गसन्दीपनमाशु कुर्वते
यथा प्रदोषाः शशिचा रुभूषरणाः ॥१२॥
रवेर्मयूखैरभितापितो भृशं
विदह्यमानः पथि तप्तपांसुभिः ।
अवाङ्मुखो जिह्मगतिः श्वसन्मुहुः
फणी मयूरस्य तले निषीदति ॥१३॥
तृषा महत्या हतविक्रमोद्यमः
श्वसन्मुहुर्दूरविदारिताननः ।
स हन्त्यदूरेऽपि गजान्मृगेश्वरो
विलोलजिह्वश्चलिताग्रकेसरः ॥१४॥
विशुष्ककण्ठाहृतसीकराम्भसो
गभस्तिभिर्भानुमतोऽनुतापिताः ।
प्रवृद्धतृष्णोपहता जलार्थिनो
न दन्तिनः केसरिणोऽपि बिभ्यति ॥१५॥
हताग्निकल्पैः सवितुर्गभस्तिभिः
कलापिनः क्लान्तशरीरचेतसः ।
न भोगिनं घ्नन्ति समीपवर्तिनं
कलापचक्रेषु निवेशिताननम् ॥ १६ ॥
सभद्रमुस्तं परिशुष्ककर्वमं
सरः खनन्नायतपोतृमण्डलः ।
रवेर्मयूखैरभितापितो भूशं
वराहयूथो विशतीव भूतलम् ॥१७॥
विवस्वता तीक्ष्णतरांशुमालिना
सपङ्कतोयात्सरसोऽभितापितः ।
उत्प्लुत्य भेकस्तृषितस्य भोगिनः
फणातपत्रस्य तले निषीदति ॥ १८ ॥
समुद्धृताशेषमृगालबालकं
विपन्नमीनं द्रुतभीतसारसम् ।
परस्परोत्पीडनसंहतैर्गजैः
कृतं सरः सान्द्रविमर्दकर्दमम् ॥ १६ ॥
रविप्रभोद्भिन्नशिरोमणिप्रभो
विलोलजिह्वाद्वयलीढमारुतः ।
विषाग्निसूर्यातपतापितः फणी
न हन्ति मण्डुककुलं तृषाकुलः ॥२०॥
सफेनलोलायतवक्त्रसम्पुटं
विनिस्सृतालोहितजिह्वमुन्मुखम् ।
तृषाकुलं निस्सृतमद्रिगह्वरा-
दवेक्ष्यमाणं महिषीकुलं जलम् ॥२१॥
पटुतरदवदाहोच्छुष्कसस्यप्ररोहाः
परुषपवनवेगोत्क्षिप्तसंशुष्कपर्णाः ।
दिनकरपरितापक्षीरणतोयाः समन्ता-
द्विदधति भयमुच्चैर्वीक्ष्यमाणा वनान्ताः ॥२२॥
श्वसिति विहगवर्गः शीर्णपर्णद्रुमस्थः
कपिकुलमुपयाति क्लान्तमद्रेर्निकुञ्जम् ।
भ्रमति गवययूथः सर्वतस्तोय मिच्छ-
ञ्छरभकुलमजिह्मं प्रोद्धरत्यम्बुकूपात् ॥२३॥
विकचनवकुसुम्भस्वच्छसिन्दूरभासा
प्रबलपवनवेगोद्भूतवेगेन तूर्णम् ।
तरुविटपलताग्रालिङ्गनव्याकुलेन
दिशि दिशि परिदग्धा भूमयः पावकेन ॥२४॥
ज्वलति पवनवृद्धः पर्वतानां दरीषु
स्फुटति पटुनिनादः शुष्कवंशस्थलीषु ।
प्रसरति तृणमध्ये लब्धवृद्धिः क्षपेन
ग्लपयति मृगवगं प्रान्तलग्नो दवाग्निः ॥ २५ ॥
बहुतर इव जातः शाल्मलीनां वनेषु
स्फुरति कनकगौरः कोटरेषु द्रुमाणाम् ।
परिणतदलशाखानुत्पतन्प्रांशुवृक्षा-
न्भ्रमति पवनधूतः सर्वतोऽग्निर्वनान्ते ॥२६॥
गजगवयमृगेन्द्रा वह्निसन्तप्तदेहाः
सुहृद इव समेता द्वन्द्वभावं विहाय ।
हुतवहपरिखेदादाशु निर्गत्य कक्षा-
द्विपुलपुलिनदेशान्निम्नगां संविशन्ति ॥२७॥
कमलवनचिताम्बुः पाटलामोदरम्यः
सुखसलिलनिषेकः सेव्यचन्द्रांशुहारः ।
व्रजतु तव निदाघः कामिनीभिः समेतो
निशि सुललितगीते हयं पृष्ठे सुखेन ॥ २८ ॥
Act 2
द्वितीयः सर्गः
ससीकराम्भोधरमत्तकुञ्जर-
स्तडित्पताकोऽशनिशब्दमर्दलः ।
समागतो राजवदुद्धतद्युति-
र्घनागमः कामिजनप्रियः प्रिये ॥१॥
नितान्तनीलोत्पलपत्रकान्तिभिः
क्वचित्प्रभिन्नाञ्जनराशिसन्निभैः ।
क्वचित्सगर्भप्रमदास्तनप्रभैः
समाचितं व्योम घनैः समन्ततः ॥२॥
तृषाकुलैश्चातकपक्षिणां कुलैः
प्रयाचितास्तोयभरावलम्बिनः ।
प्रयान्ति मन्दं बहुधारवर्षिणो
बलाहकाः श्रोत्रमनोहरस्वनाः ॥३॥
बलाहकाश्चाशनिशब्दमर्दलाः
सुरेन्द्रचापं दधतस्तडिद्गणम् ।
सुतीक्ष्णधारापतनोग्रसायकै-
स्तुदन्ति चेतः प्रसभं प्रवासिनाम् ॥४॥
प्रभिन्नवैदूर्यनिभैस्तृणाङ्कुरैः
समाचिताः प्रोत्थितकन्दलीदलैः ।
विभाति शुक्लेतररत्नभूषिता
वराङ्गनेव क्षितिरिन्द्रगोपकैः ॥५॥
सदा मनोज्ञं स्वनदुत्सवोत्सुकं
विकीर्णविस्तीर्णकलापशोभितम् ।
ससम्भ्रमालिङ्गनचुम्बनाकुलं
प्रवृत्तनृत्यं कुलमद्य बर्हिणाम् ॥६॥
निपातयन्त्यः परितस्तटद्रुमा-
न्प्रवृद्धवेगैः सलिलैरनिर्मलैः ।
स्त्रियः सुदुष्टा इव जातविभ्रमाः
प्रयान्ति नद्यस्त्वरितं पयोनिधिम् ॥७॥
तृणोत्करैरुद्गतकोमलाङ्कुरै-
र्विचित्रनीलैर्हरिणीमुखक्षतैः ।
वनानि वन्ध्यानि हरन्ति मानसं
विभूषितान्युद्गतपल्लवैर्द्रुमैः ॥८॥
विलोलनेत्रोत्पलशोभिताननै-
र्मृगैः समन्तादुपजातसाध्वसैः ।
समाचिता सैकतिनी वनस्थली
समुत्सुकत्वं प्रकरोति चेतसः ॥९॥
अभीक्ष्णमुच्चैर्ध्वनता पयोमुचा
घनान्धकारीकृतशर्वरीष्वपि ।
तडित्प्रभादर्शितमार्गभूमयः
प्रयान्ति रागादभिसारिकाः स्त्रियः ॥१०॥
पयोधरैर्भीमगभीरनिस्वनै-
स्तडिद्भिरुद्वेजितचेतसो भृशम् ।
कृतापराधानपि योषितः प्रिया-
न्परिष्वजन्ते शयने निरन्तरम् ॥११॥
विलोचनेन्दीवरवारिविन्दुभि-
र्निषिक्तबिम्बाधरचारुपल्लवाः ।
निरस्तमाल्याभरणानुलेपनाः
स्थिता निराशाः प्रमदा प्रवासिनाम् ॥१२॥
विपाण्डुरं कीटरजस्तृणान्वितं
भुजङ्गवद्वक्रगतिप्रसर्पितम् ।
ससाध्वसैर्भेककुलैर्निरीक्षितं
प्रयाति निम्नाभिमुखं नवोदकम् ॥१३॥
विपत्रपुष्पां नलिनीं समुत्सुका
विहाय भृङ्गाः श्रुतिहारिनिस्स्वनाः ।
पतन्ति मूढाः शिखिनां प्रनृत्यतां
कलापचक्रेषु नवोत्पलाशया ॥१४॥
वनद्विपानां नववारिदस्वनै-
र्मदान्वितानां ध्वनतां मुहुर्मुहुः ।
कपोलदेशा विमलोत्पलप्रभाः
सभृङ्गयूथैर्मदवारिभिश्चिताः ॥१५॥
सितोत्पलाभाम्बुदचुम्बितोपलाः
समाचिताः प्रस्रवणैः समन्ततः ।
प्रवृत्तनृत्यैः शिखिभिः समाकुलाः
समुत्सकत्वं जनयन्ति भूधराः ॥१६॥
कदम्बसर्जार्जुनकेतकीवनं
विकम्पयंस्तत्कुसुमाधिवासिनः ।
ससीकराम्भोधरसङ्गशीतलः
समीरणः कं न करोति सोत्सुकम् ॥१७॥
शिरोरुहैः श्रोणितटावलम्बिभिः
कृतावतंसैः कुसुमैः सुगन्धिभि ।
स्तनैः सहारैर्वदनैः ससीधुभिः
स्त्रियो रतिं सञ्जनयन्ति कामिनाम् ॥१८॥
तडिल्लताशक्रधनुर्विभूषिताः
पयोधरास्तोयभरावलम्बिनः ।
स्त्रियश्च काञ्चीमणिकुण्डलोज्ज्वला
हरन्ति चेतो युगपत्प्रवासिनाम् ॥१९॥
मालाः कदम्बनवकेसरकेतकीभि-
रायोजिताः शिरसि बिभ्रति योषितोऽद्य ।
कर्णान्तरेषु ककुभद्रुममञ्जरीभि-
रिच्छानुकूलरचितानवतंसकौश्च ॥२०॥
कालागुरुप्रचुरचन्दनचर्चिताङ्ग्यः
पुष्पावतंससुरभीकृतकर्णपाशाः ।
श्रुत्वा ध्वनिं जलमुचां त्वरितं प्रदोषे
शय्यागृहं गुरुगृहात्प्रविशन्ति नार्यः ॥२१॥
कुवलयदलनीलैरुन्नतैस्तोयनम्रै-
र्मृदुपवनविधूतैर्मन्दमन्दं चलद्भिः ।
अपहृतमिव चेतस्तोयदैः सेन्द्रचापैः
पथिकजनवधूनां तद्वियोगाकुलानाम् ॥२२॥
मुदित इव कदम्बैर्जातपुष्पैः समन्ता-
त्पवनचलितशाखैः शाखिभिर्नृत्यतीव ।
हसितमिव विधत्ते सूचिभिः केतकीनां
नवसलिलनिषेकच्छिन्नतापो वनान्तः ॥२३॥
शिरसि बकुलमालां मालतीभिः समेतां
विकसितनवपुष्पैर्यूथिकाकुड्मलैश्च ।
विकचनवकदम्बैः कर्णपूरं वधूनां
रचयति जलदौघैः कान्तवत्काल एषः ॥२४॥
दधति वरकुचाग्रैरुन्नतैर्हारयष्टिं
प्रतनुसितदुकूलान्यायतैः श्रोणिबिम्बैः ।
नवजलकणसेकादुद्गतां रोमराजिं
ललितवलिविभङ्गैर्मध्यदेशैश्च नायः ॥२५॥
नवजलकणसङ्गाच्छीततामादधानः
कुसुमभरनतानां लासकः पादपानाम् ।
जनितरुचिरगन्धः केतकीनां रजोभिः
परिहरति नभस्वान् योषितानां मनांसि ॥२६॥
जलधरविनतानामाश्रयोऽस्माकमुच्चै-
रयमितिजलसेकैस्तोयदास्तोयनम्राः ।
अतिशयपरुषाभिर्ग्रीष्मवह्नेः शिखाभिः
समुपजनिततापं ह्लादयन्तीव विन्ध्यम् ॥२७॥
बहुगुणरमणीयः कामिनीचित्तहारी
तरुविटपलतानां बान्धवो निर्विकारः ।
जलदसमय एष प्राणिनां प्राणभूतो
दिशतु तव हितानि प्रायशो वाञ्छितानि ॥२८॥
Act 3
तृतीयः सर्गः
काशांशुका विकचपद्ममनोज्ञवक्त्रा
सोन्मादहंसरवनपुरनादरम्या ।
आपक्वशालिरुचिरा तनुगात्रयष्टिः
प्राप्ता शरन्नववधूरिव रूपरम्या ॥१॥
काशैर्मही शिशिरदीधितिना रजन्यो
हंसैर्जलानि सरितां कुमुदैः सरांसि ।
सप्तच्छदैः कुसुमभारनतैर्वनान्ताः
शुक्लीकृतान्युपवनानि च मालतीभिः ॥२॥
चञ्चन्मनोज्ञशफरीरसनाकलापाः
पर्यन्तसंस्थितसिताण्डजपङक्तिहाराः ।
नद्यो विशालपुलिनान्तनितम्बबिम्बा
मन्दं प्रयान्ति समदाः प्रमदा इवाद्य ॥३॥
व्योम क्वचिद्रजतशङ्खमृणालगौरं
त्यक्ताम्बुभिर्लघुतया शतशः प्रयातैः।
संलक्ष्यते पवनवेगचलैः पयोदै-
राजेव चामरवरैरुपवीज्यमानः ॥४॥
भिन्नाञ्जनप्रचयकान्ति मनो मनोज्ञं
बन्धूकपुष्परचितारुणता च भूमिः ।
वप्राश्च चारुकमलावृतभूमिभागाः
प्रोत्कण्ठयन्ति न मनो भुवि कस्य यूनः ॥५॥
मन्दानिलाकुलितचारुतराग्रशाखः
पुष्पोद्गमप्रचयकोमलपल्लवाग्रः ।
मत्तद्विरेफपरिपीतमधुप्रसेक-
श्चित्तं विदारयति कस्य न कोविदारः ॥६॥
तारागरणप्रवरभूषरणमुद्वहन्ती
मेघावरोधपरिमुक्तशशाङ्कवक्त्रा ।
ज्योत्स्नादुकूलममलं रजनी दधाना
वृद्धिं प्रयात्यनुदिनं प्रमदेव बाला ॥७॥
कारण्डवाहनविघट्टितवीचिमालाः
कादम्बसारसचयाकुलतीरदेशाः ।
कुर्वन्ति हंसविरुतैः परितो जनस्य
प्रीतिं सरोरुहरजोरुरिणतास्तटिन्यः ॥८॥
नेत्रोत्सवो हृदयहारिमरीचिमालः
प्रह्लादकः शिशिरसीकरवारिवर्षी ।
पत्युर्वियोगविषदिग्धशरक्षतानां
चन्द्रो दहत्यतितरां तनुमङ्गनानाम् ॥६॥
आकम्पयन्फलभरानतशालिजाला-
नानर्तयन्तरुवरान् कुसुमावनम्रान् ।
उत्फुल्लपङ्कजवनां नलिनीं विधुन्वन्
यूनां मनश्चलयति प्रसभं नभस्वान् ॥१०॥
सोन्मादहंसमिथुनैरुपशोभितानि
स्वच्छप्रफुल्लकमलोत्पलभूषितानि ।
मन्दप्रभातपवनोद्गतवीचिमाला-
न्युत्कण्ठयन्ति सहसा हृदयं सरांसि ॥११॥
नष्टं धनुर्बलभिदो जलदोदरेषु
सौदामिनी स्फुरति नाद्य वियत्पताका ।
धुन्वन्ति पक्षपवनैर्न नभो बलाका
पश्यन्ति नोन्नतमुखा गगनं मयूराः ॥१२॥
नृत्यप्रयोगरहिताञ्छिखिनो बिहाय
हंसानुपैति मदनो मधुरप्रगीतान् ।
मुक्त्वा कदम्बकुटजार्जुनसर्जनीपा-
न्सप्तच्छदानुपगता कुसुमोद्गमश्रीः ॥१३॥
शेफालिकाकुसुमगन्धमनोहराणि
स्वस्थस्थिताण्डजकुलप्रतिनादितानि।
पर्यन्तसंस्थितमृगीनयनोत्पलानि
प्रोत्कण्ठयन्त्युपवनानि मनांसि पुंसाम् ॥१४॥
कह्लारपद्मकुमुदानि मुहुर्विधुन्वं-
स्तत्सङ्गमादधिकशीतलतामुपेतः ।
उत्कण्ठयत्यतितरां पवनः प्रभाते
पत्रान्तलग्नतुहिनाम्बु विधूयमानः ॥१५॥
सम्पन्नशालिनिचयावृतभूतलानि
स्वस्थस्थितप्रचुरगोकुलशोभितानि ।
हंसै: सारसकुलैः प्रतिनादितानि
सीमान्तराणि जनयन्ति नृणां प्रमोदम् ॥१६॥
हंसैर्जिता सुललिता गतिरङ्गनाना-
मम्भोरुहैर्विकसितैर्मुखचन्द्रकान्तिः ।
नीलोत्पलैर्मदकलानि विलोकितानि
भ्रू विभ्रमाश्च रुचिरास्तनुभिस्तरङ्गैः ॥१७॥
श्यामा लताः कुसुमभारनतप्रवालाः
स्त्रीणां हरन्ति धृतभूषणबाहुकान्तिम् ।
दन्तावभासविशदस्मितचन्द्रकान्तिं
कङ्केलिपुष्परुचिरा नवमालती च ॥१८॥
केशान्नितान्तघननीलनिकुञ्चिताग्रा-
नापूरयन्ति वनिता नवमालतीभिः ।
कर्णेषु च प्रवरकाञ्चनकुड्मलेषु
नीलोत्पलानि विविधानि निवेशयन्ति ॥१९॥
हारैः सचन्दनरसैः स्तनमण्डलानि
श्रोणीतटं सुविपुलं रसनाकलापैः ।
पादाम्बुजानि कलनूपुरशेखरैश्च
नार्यः प्रहृष्टमनसोऽद्य विभूषयन्ति ॥२०॥
स्फुटकुमुदचितानां राजहंसस्थितानां
मरकतमणिभासा वारिणा भूषितानाम् ।
श्रियमतिशयरूपां व्योम तोयाशयानां
वहति विगतमेघं चन्द्रतारावकीर्णम् ॥२१॥
शरदि कुमुदसङ्गाद्वायवो वान्ति शीता
विगतजलदवृन्दा दिग्विभागा मनोज्ञाः ।
विगतकलुषमम्भः श्यानपङ्का धरित्री
विमलकिरणचन्द्रं व्योम तारा विचित्रम् ॥२२॥
दिवसकरमयूखैर्बोध्यमानं प्रभाते
वरयुवतिमुखाभं पङ्कजं जृम्भतेऽद्य ।
कुमुदमपि गतेऽस्तं लीयते चन्द्रबिम्बे
हसितमिव वधूनां प्रोषितेषु प्रियेषु ॥२३॥
असितनयनलक्ष्मीं लक्षयित्वोत्पलेषु
क्वणितकनकलक्ष्मीं मत्तहंसस्वनेषु ।
अधररुचिरशोभां बन्धुजीवे प्रियाणां
पथिकजन इदानीं रोदिति भ्रान्तचित्तः ॥२४॥
स्त्रीणां विहाय वदनेषु शशाङ्कलक्ष्मीं.
कामं च हंसवचनं मरिणनूपुरेषु ।
बन्धूककान्तिमधरेषु मनोहरेषु
क्वापि प्रयाति सुभगा शरदागमश्रीः ॥२५॥
विकचकमलवक्त्रा फुल्लनीलोत्पलाक्षी
विकसितनवकाशश्वेतवासो वसाना।
कुमुदरुचिरकान्तिः कामिनीवोन्मदेयं
प्रतिदिशतु शरद्वश्चेतसः प्रीतिमग्र, याम् ॥२६॥
Act 4
(चतुर्थः सर्गः)
नवप्रवालोद्गमसस्यरम्यः
प्रफुल्ललोध्रः परिपक्वशालिः ।
विलीनपद्मः प्रपतत्तुषारो
हेमन्तकालः समुपागतोऽयम् ॥१॥
मनोहरैश्चन्दनरागरक्तै-
स्तुषारकुन्देन्दुनिभैश्च हारैः ।
विलासिनीनां स्तनशालिनीनां
नालङ्क्रियन्ते स्तनमण्डलानि ॥२॥
न बाहुयुग्मेषु विलासिनीनां
प्रयान्ति सङ्गं वलयाङ्गदानि ।
नितम्बबिम्बेषु नवं दुकूलं
तन्वंशुकं पीनपयोधरेषु ॥३॥
काञ्चीगुणैः काञ्चनरत्नचित्रै -
र्नो भूषयन्ति प्रमदा नितम्बम् ।
न नूपुरैर्हंसरुतं भजद्भिः
पादाम्बुजान्यम्बुजकान्तिभाञ्जि ॥४॥
गात्राणि कालीयकचर्चितानि
सपत्रलेखानि मुखाम्बुजानि ।
शिरांसि कालागुरुधूपितानि
कुर्वन्ति नार्यः सुरतोत्सवाय ॥५॥
रात्रिश्रमक्षामविपाण्डुवक्राः
सम्प्राप्तहर्षाभ्युदयास्तरुण्यः ।
हसन्ति नोच्चैर्दशनाग्रभिन्ना-
न्प्रपीड्यमानानधरानवेक्ष्य ॥६॥
पीनस्तनोरःस्थलभागशोभा-
मासाद्य तत्पीडनजातखेदः ।
तृणाग्रलग्नेैस्तुहिनैः पतद्भि-
राक्रन्दतीवोषसि शीतकालः ॥७॥
प्रभूतशालिप्रसवैश्चितानि
मृगाङ्गनायूथविभूषितानि ।
मनोहरक्रौञ्श्वनिनादितानि
सीमान्तराण्युत्सुकयन्ति चेतः ॥८॥
प्रफुल्लनीलोत्पलशोभितानि
सोन्मादकादम्बविभूषितानि
प्रसन्नतोयानि सुशीतलानि
सरांसि चेतांसि हरन्ति पुंसाम् ॥९॥
पाकं व्रजन्ती हिमजातशीतै-
राधूयमाना सततं मरुद्भिः
प्रिये प्रियङ्गुः प्रियविप्रयुक्ता
विपाण्डुतां याति विलासिनीव ॥१०॥
पुष्पासवामोदिसुगन्धिवक्त्रो
निःश्वासवातैः सुरभीकृताङ्गः ।
परस्पराङ्गव्यतिरिक्तशायी
शेते जनः कामरसानुविद्धः ॥११॥
दन्तच्छदैः सव्रणदन्तचिह्नैः
स्तनैश्च पाण्यग्रकृताभिलेखैः ।
संसूच्यते निर्दयमङ्गनानां
रतोपयोगो नवयौवनानाम् ॥१२॥
काचिद् विभूषयति दर्पण.सक्तहस्ता
बालातपेषु वनिता वदनारविन्दम् ।
दन्तच्छदं प्रियतमेन निपीतसारं
दन्ताग्रभिन्नमवकृष्य निरीक्षते च ॥१३॥
अन्या प्रकामसुरतश्रमखिन्नदेहा
रात्रिप्रजागरविपाटलनेत्रपद्मा ।
स्रस्तांसदेशलुलिताकुलकेशपाशा
निद्रां प्रयाति मृदुसूर्यकराभितप्ता ॥१४॥
निर्माल्यदाम परिभुक्तमनोज्ञगन्धं
मर्ध्नोऽपनीय घननीलशिरोरुहान्ताः
पीनोन्नतस्तनभरानतगात्रयष्टयः
कुर्वन्ति केशरचनामपरास्तरुण्यः ॥१५॥
अन्या प्रियेण परिभुक्तमवेक्ष्य गात्रं
हर्षान्विता विरचिताधरचारुशोभा ।
कूर्पासकं परिदधाति नखक्षताङ्गी
व्यालम्बिनीलललितालककुञ्चिताक्षी ॥१६॥
अन्याश्चिरं सुरतकेलिपरिश्रमेण
खेदं गताः प्रशिथिलीकृतगात्रयष्ट्यः ।
संहृष्यमारणपुलकोरुपयोधरान्ता
अभ्यञ्जनं विदधति प्रमदाः सुशोभाः॥१७॥
बहुगुणरमणीयो योषितां चित्तहारी
परिरणतबहशालिव्याकुलग्राससीमा ।
सततमतिमनोज्ञः क्रौञ्चमालापरीतः
प्रदिशतु हिमयुक्तः काल एष सुखं वः ॥१८॥
Act 5
(पञ्चमः सर्गः)
प्ररूढशालीक्ष चयावृतक्षितिं
क्वचित्स्थितक्रौञ्चनिनादराजितम् ।
प्रकामकालं प्रमदाजनप्रियं
वरोरु कालं शिशिराह्वयं शृणु ॥१॥
निरुद्धवातायनमन्दिरोदरं
हुताशनो भानुमतो गभस्तयः ।
गुरुणि वासांस्यबलाः सयौवनाः
प्रयान्ति कालेऽत्र जनस्य सेव्यताम् ॥२॥
न चन्दनं चन्द्रमरीचिशीतलं
न हर्म्यपृष्ठं शरबिन्दुनिर्मलम् ।
न वायवः सान्द्रतुषारशीतला
जनस्य चित्तं रमयन्ति साम्प्रतम् ॥३॥
तुषारसङ्घातनिपातशीतलाः
शशाङ्कभाभिः शिशिरीकृताः पुनः ।
विपाण्डुतारागणजिह्मभूषिता
जनस्य सेव्या न भवन्ति रात्रयः ॥४॥
गृहीतताम्बूलविलेपनस्रजः
सुखासवामोदितवक्त्रपङ्कजाः ।
प्रकामकालागुरुषूपवासितं
विशन्ति शय्यागृहमुत्सुकाः स्त्रियः ॥५॥
कृतापराधान्बहुशोऽपि तर्जिता-
न्सवेपथू्न् साध्वसलुप्तचेतसः ।
निरीक्ष्य भर्तृन् सुरताभिलाषिणः
स्त्रियोऽपराधान् समदा विसस्मरुः॥६॥
प्रकामकामैर्यु वभिः सनिर्दयं
निशासु दीर्घास्वभिरामिताश्चिरम् ।
भ्रमन्ति मन्दं श्रमखेदितोरसः
क्षपावसाने नवयौवनाः स्त्रियः ॥७॥
मनोजकूर्पासकपीडितस्तनाः
सरागकौशेयकभूषितोरसः ।
निवेशितान्तः कुसुमैः शिरोरुहै-
विभूषयन्तीव हिमागमं स्त्रियः ॥८॥
पयोधरैः कुङ्कुमरागपिञ्जरैः
सुखोपसेव्यैर्नवयौवनोष्ममिः ।
विलासिनीभिः परिपीडितोरसः
स्वपन्ति शीतं परिभूय कामिनः ॥९॥
सुगन्धिनिःश्वासविकम्पितोत्पलं
मनोहरं कामरतिप्रबोधकम् ।
निशासु हृष्टाः सह कामिभिः स्त्रियः
पिबन्ति मद्यं मदनीयमुत्तमम् ॥१०॥
अपगतमदरागा योषिदेका प्रभाते
कृतनिबिडकुचाग्रा पत्युरालिङ्गनेन ।
प्रियतमपरिभुक्तं वीक्षमाणा स्वदेहं
व्रजति शयनवासाद् वासमन्यद् हसन्ती ॥११॥
अगुरुसुरभिधूपामोदितं केशपाशं
गलितकुसुममालं तन्वती कुञ्चिताग्रम् ।
त्यजति गुरुनितम्बा निम्नमध्यावसाना
उषसि शयनमन्या कामिनी चारुशोभा ॥१२॥
कनककमलकान्तैः सद्य एवाम्बुधौतैः
श्रवणतटनिषक्तैः पाटलोपान्तनेत्रै ।
उषसि वदनबिम्बैरंससंसक्तकेशैः
श्रिय इव गृहमध्ये संस्थिताः योषितोऽद्य ॥१३॥
पृथुजघनभरार्ताः किञ्चिदानस्रमध्या
स्तनभरपरिखेदान्मन्दमन्दं व्रजन्त्यः ।
सुरतसमयवेषं नैशमाशु प्रहाय
दधति दिवसयोग्यं वेषमन्यास्तरुण्यः ॥१४॥
नखपदचितभागान्वीक्षमाणा स्तनाग्रा-
नधरकिसलयाग्रं दन्तभिन्नं स्पृशन्त्यः ।
अभिमतरसमेतं नन्दयन्त्यस्तरुण्यः
सवितुरुवयकाले भूषयन्त्याननानि ॥१५॥
प्रचुरगुडविकारः स्वादुशालीक्षुरम्यः
प्रबलसुरतकेलिर्जातकन्दर्पदर्पः ।
प्रियजनरहितानां चित्तसन्तापहेतुः
शिशिरसमय एष श्रेयसे वोऽस्तु नित्यम् ॥१६॥
Act 6
(षष्ठः सर्गः) प्रफुल्लचूताङ्कुरतीक्ष्णसायको द्विरेफमालाविलसद्धनुर्गुणः। मनांसि वेद्धुं सुरतप्रसङ्गिनां वसन्तयोद्धा समुपागतः प्रिये॥ १॥
द्रुमाः सपुष्पाः सलिलं सपद्मं स्त्रियः सकामाः पवनः सुगन्धिः । सुखाः प्रदोषा दिवसाश्च रम्याः सर्वं प्रियं चारुतरं वसन्ते ॥ २॥
वापीजलानां मणिमेखलानां शशाङ्कभासां प्रमदाजनानाम्। चूतद्रुमाणां कुसुमान्वितानां ददाति सौभाग्यमयं वसन्तः॥ ३॥
कुसुम्भरागारुणितैर्दुकुलै- र्नितम्बविम्बानि विलासिनीनाम्। रक्तांशुकैः कुङ्कुमरागगौरै- रलङ्क्रियन्ते स्तनमण्डलानि॥ ४॥
कर्णेषु योग्यं नवकर्णिकारं चलेषु नीलेष्वलकेष्वशोकम्। पुष्पं च फुल्लं नवमल्लिकायाः प्रयाति कान्तिं प्रमदाजनानाम्॥ ५॥
स्तनेषु हाराः सितचन्दनार्द्रा भुजेषु सङ्गं वलयाङ्गदानि। प्रयान्त्यनङ्गातुरमानसानां नितम्बिनीनां जघनेषु काञ्च्यः॥ ६॥
सपत्रलेखेषु विलासिनीनां वक्त्रेषु हेमाम्बुरुहोपमेषु। रत्नान्तरे मौक्तिकसङ्गरम्यः स्वेदागमो विस्तरतामुपैति॥ ७॥
उच्छ्वासयन्त्यः श्लथबन्धनानि गात्राणि कन्दर्पसमाकुलानि। समीपवर्तिष्वधुना प्रियेषु समुत्सुका एव भवन्ति नार्यः॥ ८॥
तनूनि पाण्डूनि समन्थराणि मुहुर्मुहुर्जृम्भणतत्पराणि। अङ्गान्यनङ्गः प्रमदाजनस्य करोति लावण्यससम्भ्रमारणि॥ ९॥
नेत्रेषु लोलो मदिरालसेषु गण्डेषु पाण्डुः कठिनः स्तनेषु। मध्येषु निम्नो जघनेषु पीनः स्त्रीणामनङ्गो बहुधा स्थितोऽद्य॥ १०॥
अङ्गानि निद्रालसविभ्रमाणि वाक्यानि किञ्चिन्मदलालसानि। भ्रू क्षेपजिह्मानि च वीक्षितानि चकार कामः प्रमदाजनानाम्॥ ११॥
प्रियङ्गुकालीयककुङ्कुमाक्तं स्तनेषु गौरेषु विलासिनीभिः। आलिप्यते चन्दनमङ्गनाभि- र्मदालसाभिर्मृगनाभियुक्तम्॥ १२॥
गुरुणि वासांसि विहाय तूर्णं तनूनि लाक्षारसरञ्जितानि। सुगन्धिकालागुरुधूपितानि धत्ते जनः काममदालसाङ्गः॥ १३॥
पुंस्कोकिलश्चूतरसासवेन त्तः प्रियां चुम्बति रागहृष्टः। कूजद् द्विरेफोऽप्ययमम्बुजस्थः प्रियं प्रियायाः प्रकरोति चाटु॥ १४॥
ताम्रप्रवालस्तबकावनम्रा- श्चूतद्रुमाः पुष्पितचारुशाखाः। कुर्वन्ति कामं पवनावधूताः पर्युत्सुकं मानसमङ्गनानाम्॥ १५॥
आ मूलतो विद्रुमरागताम्र सपल्लवाः पुष्पचयं दधानाः। कुर्वन्त्यशोका हृदयं सशोकं निरीक्ष्यमाणा नवयौवनानाम्॥ १६॥
मत्तद्विरेफपरिचुम्बितचारुपुष्पा मन्दानिलाकुलितनम्रमृदुप्रवालाः। कुर्वन्ति कामिमनसां सहसोत्सुकत्वं चूताभिरामकलिकाः समवेक्ष्यमारणाः॥ १७॥
कान्तामुखद्युतिजुषामचिरोद्गतानां शोभां परां कुरबकद्रुममञ्जरीणाम्। दृष्ट्वा प्रिये सहृदयस्य भवेन्न कस्य कन्दर्पबाणपतनव्यथितं हि चेतः॥ १८॥
आदीप्तवह्निसदृशैर्मरुतावधूतैः सर्वत्र किंशुकवनैः कुसुमावनम्रैः। सद्यो वसन्तसमये हि समाचितेयं रक्तांशुका नववधूरिव भाति भूमिः॥ १९॥
किं किंशुकैः शुकमुखच्छविभिन भित्रं किं कर्णिकारकुसुमैर्न कृतं न दग्धम्। यत्कोकिलः पुनरयं मधुरैर्वचोभि- र्यूनां मनः सुवदनानिहतं निहन्ति॥ २०॥
पुंस्कोकिलैः कलवचोभिरूपात्तहर्षैः कूजद्भिरून्मदकलानि वचांसि भृङ्गैः। लज्जान्वितं सविनयं हृदयं क्षणेन पर्याकुलं कुलगृहेऽपि कृतं वधूनाम्॥ २१॥
आकम्पयन् कुसुमिताः सहकारशाखा विस्तारयन् परभृतस्य वचांसि दिक्षु। वायुर्विवाति हृदयानि हरन्नराणां नीहारपानविगमात्सुभगो वसन्ते॥ २२॥
कुन्दैः सविभ्रमवधूहसितावदानै- रुद्योतितान्युपवनानि मनोहराणि। चित्तं मुनेरपि हरन्ति निवृत्तरागं प्रागेव रागमलिनानि मनांसि यूनाम्॥ २३॥
आलम्बिहेमरसनाः स्तनसक्तहाराः कन्दर्पदर्पशिथिलीकृतगात्रयष्ट्यः। मासे मधौ मधुरकोकिलभृङ्गनादै- नार्यो हरन्ति हृदयं प्रसभं नराणाम्॥ २४॥
नानामनोज्ञकुसुमद्रुमभूषितान्ता- न्हृष्टान्यपुष्टनिनदाकुलसानुदेशान्। शैलेयजालपरिणद्धशिलातलौघा- न्दृष्ट्वा जनः क्षितिभृतो मुदमेति सर्वः॥ २५॥
नेत्रे निमीलयति रोदिति याति शोकं घ्राणं करेण विरुणद्धि विरौति चोच्चैः। कान्तावियोगपरिखेदितचित्तवृत्ति- र्दृष्टाध्वगः कुसुमितान् सहकारवृक्षान्॥ २६॥
समदमधुकराणां कोकिलानां च नादैः कुसुमितसहकारैः कर्णिकारैश्च रम्यः। इषुभिरिव सुतीक्ष्णैर्मानसं मानिनीनां नुदति कुसुममासो मन्मथोद्वेजनाय॥ २७॥
आम्रीमञ्जु लमञ्जरीवरशरः सत्किंशुकं यद्धनु- र्ज्या यस्यालिकुलं कलङ्करहितं छत्रं सितांशुः सितम्। मत्तेभो मलयानिलः परभृतो यद्वन्दिनो लोकजि- त्सोऽयं वो वितरीतरीतु वितनुर्भद्रं वसन्तान्वितः॥ २८॥