Abhijnanashakuntalam
Act 1
या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री
ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥ १ ॥
(नान्द्यन्ते)
सूत्रधारः — (नेपथ्याभिमुखमवलोक्य) आर्ये, यदि नेपथ्यविधानमवसितम्, इतस्तावदागम्यताम्।
(प्रविश्य)
नटी — अज्जउत्त, इयं म्हि। आणवेदु अज्जो को णिओओ अणुचिठ्ठीअदुत्ति।
(आर्यपुत्र, इयमस्मि। आज्ञापयत्वार्यः को नियोगोऽनुष्ठीयतामिति।)
सूत्रधारः — आर्ये, अभिरूपभूयिष्ठा परिषदियम्। अद्य खलु कालिदासग्रथितवस्तुना नवेनाभिज्ञानशाकुन्तलाख्येन नाटकेनोपस्थातव्यमस्माभिः। तत्प्रतिपात्रमाधीयतां यत्नः।
नटी — सुविहिदप्पओअदाए अज्जस्स ण किं पि परिहाइस्सदि।
(सुविहितप्रयोगतयार्यस्य न किमपि परिहास्यते।)
सूत्रधारः — आर्ये, कथयामि ते भूतार्थम्।
आ परितोषाद्विदुषां न साधु मन्ये प्रयोगविज्ञानम्।
बलवदपि शिक्षितानात्मन्यप्रत्ययं चेतः ॥ २ ॥
नटी — अज्ज, एवं णेदम्। अणन्तरकरणिज्जं दाव अजो आणवेदु।
(आर्य, एवमेतत्। अनन्तरकरणीयं तावदार्य आज्ञापयतु।)
सूत्रधारः — किमन्यदस्याः परिषदः श्रुतिप्रसादनतः। तदिममेव तावदचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसमयमधिकृत्य गीयताम्। संप्रति हि सुभगसलिलावगाहाः पाटलसंसर्गसुरभिवनवाताः।
प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥ ३ ॥
नटी — तह। तथा। (इति गायति।)
ईसीसिचुम्बिआइं भमरेहिं सुउमारकेसरसिहाइं।
ओदंसयन्ति दअमाणा पमदाओ सिरीसकुसुमाइं ॥ ४ ॥
(इषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि।)
(अवतंसयन्ति दयमानाः प्रमदाः शिरीषकुसुमानि ॥ ४ ॥)
सूत्रधारः — आर्ये, साधु गीतम्। अहो रागबद्धचित्तवृत्तिरालिखित इव सर्वतो रङ्गः। तदिदानीं कतमत्प्रकरणमाश्रित्यैनमाराधयामः।
नटी — णं अज्जमिस्सेहिं पढमं एव्व आणत्तं अहिण्णाणसउन्दलं णाम अपुव्वं णाडअं पओरण अधिकरीअदुत्ति।
(नन्वार्यमिश्रैः प्रथममेवाज्ञप्तमभिज्ञानशाकुन्तलं नामापूर्व नाटकं प्रयोगेणाधिक्रियतामिति।)
सूत्रधारः — आर्ये, सम्यगनुबोधितोऽस्मि। अस्मिन्क्षणे विस्मृतं खलु मया। कुतः।
तवास्मि गीतरागेण हारिणा प्रसभं हृतः।
एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ॥ ५ ॥
(निष्क्रान्तौ।)
इति प्रस्तावना।
(ततः प्रविशति मृगानुसारी सशरचापहस्तो राजा रथेन सूतश्च।)
सूतः — (राजानं मृगं चावलोक्य।) आयुष्मन्,
कृष्णसारे ददश्चक्षुस्त्वयि चाधिज्यकार्मुके।
मृगानुसारिणं साक्षात्पश्यामीव पिनाकिनम् ॥ ६ ॥
राजा — सूत, दूरममुना सारङ्गेण वयमाकृष्टाः। अयं पुनरिदानीमपि
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः
पञ्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम्।
दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा
पश्योदग्रप्लुतत्वाद्वियति वहुतरं स्तोकमुर्व्यां प्रयाति ॥ ७ ॥
(सविस्मयम्।) कथमनुपतत एव मे प्रयत्न प्रेक्षणीयः संवृत्तः।
सूतः — आयुष्मन्, उद्घातिनी भूमिरिति मया रश्मिसंयमनाद्रथस्य मन्दीकृतो वेगः। तेन मृग एष विप्रकृष्टान्तरः संवृत्तः। संप्रति समदेशवर्तिनस्ते न दुरासदो भविष्यति।
राजा — तेन हि मुच्यन्तामभीशवः।
सूतः — यदाज्ञापयत्यायुष्मान्। (रथवेगं निरूप्य) आयुष्मन्, पश्य पश्य।
मुक्तेषु रश्मिषु निरायतपूर्वकाया
निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः।
आत्मोद्धतैरपि रजोभिरलङ्घनीया
धावन्त्यमी मृगजवाक्षमयेव रथ्याः ॥ ८ ॥
राजा — (सहर्षन्।) सत्यम्। अतीत्य हरितो हरींश्च वर्तन्ते वाजिनः। तथा हि
यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां
यदर्धे विच्छिन्नं भवति कृतसंधानमिव तत्।
प्रकृत्या यद्वक्रं तदपि समरेखं नयनयो-
र्म मे दूरे किंचित्क्षणमपि न पार्श्वे रथजवात् ॥ ९ ॥
सूत, पश्चैनं व्यापाद्यमानम्। (इति शरसंधानं नाटयति।)
(नेपथ्ये।)
भो भो राजन्, आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः।
सूतः — (आकर्ष्यावलोक्य च।) आयुष्मन्, अस्य बालु ते बाणपथवर्तिनः कृष्णसारस्यान्तरे तपस्विन उपस्थिताः।
राजा — (ससंभ्रमम्।) तेन हि प्रगृह्यन्तां वाजिनः।
सूतः — तथा। (इति रथं स्थापयति।)
(ततः प्रविशत्यात्मना तृतीयो वैखानसः।)
वैखानसः — (हस्तमुद्यम्य।) राजन्, आश्रममृगोऽयं न हन्तव्यो
न हन्तव्यः।
न खलु न खलु बाणः सन्निपात्योऽयमस्मिन्
मृदुनि मृगशरीरे पुष्पराशाविवाग्निः।
क्व बत हरिणकानां जीवितं चातिलोलं
क्व च निशितनिपाताः वज्रसाराः शरास्ते ॥ १० ॥
तत्साधुकृतसंधानं प्रतिसंहर सायकम्।
आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि ॥ ११ ॥
राजा — एष प्रतिसंहृतः। (इति यथोक्तं करोति।)
वैखानसः — सदृशमेतत्पुरुवंशप्रदीपस्य भवतः।
जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव।
पुत्रमेवंगुणोपेतं चक्रवर्तिनमाप्नुहि ॥ १२ ॥
इतरौ — (बाहू उद्यम्य।) सर्वथा चक्रवर्तिनं पुत्रमाप्नुहि।
राजा — (सप्रणामम्।) प्रतिगृहीतम्।
वैखानसः — राजन्, समिदाहरणाय प्रस्थिता वयम्। एष खलु कण्वस्य कुलपतेरनुमालिनीतीरमाश्रमो दृश्यते। न चेदन्यकार्यातिपातः, तत्प्रविश्य प्रतिगृह्यतामातिथेयः सत्कारः। अपि च।
रम्यास्तपोधनानां प्रतिहतविघ्नाः क्रियाः समवलोक्य।
ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिणाङ्क इति ॥ १३ ॥
राजा — अपि संनिहितोऽत्र कुलपतिः।
वैखानसः — इदानीमेव दुहितरं शकुन्तलामतिथिसत्काराय नियुज्य दैवमस्याः प्रतिकूलं शमयितुं सोमतीर्थं गतः।
राजा — भवतु। तामेव द्रक्ष्यामि। सा खलु विदितभक्तिर्मां महर्षेः कथयिष्यति।
वैखानसः — साधयामस्तावत्। (इति सशिष्यो निष्क्रान्तः।)
राजा — सूत चोदयाश्वान्। पुण्याश्रमदर्शनेन तावदात्मानं पुनीमहे।
सूतः — यदाज्ञापयत्यायुष्मान्। (इति भूयो रथवेगं निरूपयति।)
राजा — (समन्तादवलोक्य।) सूत, अकथितोऽपि ज्ञायत एव यथायमाभोगस्तपोवनस्येति।
सूतः — कथमिव।
राजा — किं न पश्यति भवान्। इह हि
नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः
प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः।
विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगा-
स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥ १४ ॥
अपि च।
कुल्यांभोभिः पवनचपलैः शाखिनो धौतमूला
भिन्नो रागः किसलयरुचामाज्यधूमोद्गमेन।
एते चार्वागुपवनभुविच्छिन्नदर्भाङ्कुरायां
नष्टाशङ्का हरिणशिशवो मन्दमन्दं चरन्ति ॥ १५ ॥
सूतः — सर्वमुपपन्नम्।
राजा — (स्तोकमन्तरं गत्वा।) तपोवननिवासिनामुपरोधो मा भूत्। अत्रैव रथं स्थापय। यावदवतरामि।
सूतः — धृताः प्रग्रहाः। अवतरत्वायुष्मान्।
राजा — (अवतीर्यात्मानमवलोक्य च।) सूत, विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम। इदं तावद्गृह्यताम्। (इति सूतस्याभरणानि धनुश्चोपनीय।) सूत, यावदाश्रमवासिनः प्रत्यवेक्ष्याहमुपावर्ते तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः।
सूतः — तथा। (इति निष्क्रान्तः।)
राजा — (परिक्रम्यावलोक्य च) इदमाश्रमद्वारम्। यावत्प्रविशामि। (प्रविश्य। निमित्तं सूचयन्।)
शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य।
अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ १६ ॥
(नेपथ्ये।)
इदो इदो सहीओ।
(इत इतः सख्यौ।)
राजा — (कर्ण दत्वा।) अये, दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते। यावदग्रे गच्छामि। (परिक्रम्यावलोक्य च।) अये, एतास्तपस्विकन्यकाः स्वप्रमाणानुरूपैः सेचनघटैर्बालपादपेभ्यः पयो दातुमित एवाभिवर्तन्ते। (निपुणं निरूप्य।) अहो, मधुरमासां दर्शनम्।
शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य।
दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥ १७ ॥
यावदिमां छायामाश्रित्य प्रतिपालयामि। (इति विलोकयन्स्थितः।)
[ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला।]
शकुन्तला — इदो इदो सहीओ।
(इत इतः सख्यौ।)
अनसूया — हला सउन्दले, तुवत्तो वि तादकस्सवस्स अस्समरुक्खआ पिअदरत्ति तक्केमि। जेण णोमालिआकुसुमपेलवा वितुमं एदाणं आलवालपूरणे णिउत्ता।
(हला शकुन्तले, त्वत्तोऽपि तातकाश्यपस्याश्रमवृक्षकाः प्रियतरा इति तर्कयामि। येन नवमालिकाकुसुमपेलवा त्वमप्येतेषामालवालपूरणे नियुक्ता।)
शकुन्तला — ण केअलं तादणिओओ एव्व। अत्थि मे सोदरसिणेहो वि एदेसु। (इति वृक्षसेचनं रूपयति।)
(न केवलं तातनियोग एव। अस्ति मे सोदरस्नेहोऽप्येतेषु।)
राजा — कथमियं सा कण्वदुहिता। असाधुदर्शी खलु तत्रभवान्काश्यपः, य इमामाश्रमधर्मे नियुङ्क्ते।
इदं किलाव्याजमनोहरं वपु-
स्तपःक्षमं साधयितुं य इच्छति।
ध्रुवं स नीलोत्पलपत्रधारया
शमीलतां छेत्तुमृषिर्व्यवस्यति ॥ १८ ॥
भवतु। पादपान्तरित एव विश्वस्तां तावदेनां पश्यामि। (इति तथा करोति।)
शकुन्तला — सहि अणसूए, अदिपिणद्धेण वक्कलेण पिअंवदाए णिअन्तिदम्हि। सिढिलेहि दाव णं।
(सखि अनसूये, अतिपिनद्धेन वल्कलेन प्रियंवदया नियन्त्रितास्मि! शिथिलय तावदेतत्।)
अनसूया — तह। (इति शिथिलयति।) तथा।
प्रियंवदा — (सहासम्।) एत्थ पओहरवित्थारइत्तअं अत्तणो जोव्वणं उचालह। मं किं उवालम्भेसि।
(अत्र पयोधरविस्तारयितृ आत्मनो यौवनमुपालभस्व। मां किमुपालभसे।)
राजा — सम्यगियमाह।
इदमुपहितसूक्ष्मग्रन्थिना स्कन्धदेशे
स्तनयुगपरिणाहाच्छादिना वल्कलेन।
वपुरभिनवमस्याः पुष्यति स्वां न शोभां
कुसुममिव पिनद्धं पाण्डुपत्रोदरेण ॥ १९ ॥
अथवा काममननुरूपमस्या वपुषो वल्कलं न पुनरलंकारश्रियं न पुष्यति। कुतः।
सरसिजमनुविद्धं शैवलेनापि रम्यं
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ २० ॥
शकुन्तला — (अग्रतोऽवलोक्य।) एसो वादेरिदपलुवङ्गलीहिं तुवरेदि विअ मं केसररुक्खओ। जाव णं संभावेमि। (इति परिक्रामति।)
(एष वातेरितपल्लवाङ्गुलीभिस्त्वरयतीव मां केसरवृक्षकः। यावदेनं संभावयामि।)
प्रियंवदा — हला सउन्दले पत्थ एव्व दाव मुहुत्तअं चिट्ठ।
(हला शकुन्तले, अत्रैव तावन्मुहूर्तं तिष्ठ।)
शकुन्तला — किंणिमित्तं।
(किंनिमित्तम्।)
प्रियंवदा — जाव तुए उवगदाए लदासणाधो विअ अअं केसररुक्खओ पडिभादि।
(यावत्त्वयोपगतया लतासनाथ इवायं केसरवृक्षकः प्रतिभाति।)
शकुन्तला — अदो क्खु पिअंवदा सि तुमं।
(अतः खलु प्रियंवदासि त्वम्।)
राजा — प्रियमपि तथ्यमाह शकुन्तलां प्रियंवदा। अस्याः खलु
अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू।
कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥ २१ ॥
अनसूया — हला सउन्दले, इअं सअंवरवहू सहआरस्स तुए किदणामहेआ वणजोसिणित्ति णोमालिआ। णं विसुमरिदा सि।
(हला शकुन्तले, इयं स्वयंवरवधूः सहकारस्य त्वया कृतनामधेया वनज्योत्स्नेति नवमालिका। एनां विस्मृतवत्यसि।)
शकुन्तला — तदा अत्ताणं वि विसुमरिस्सं। (लतामुपेत्यावलोक्य च सहर्षम्।) हला, रमणीए क्खु काले इमस्स लदापाअवमिधुणस्स वइअरो संवुत्तो। णवकुसुमजोव्वणा वणजोसिणी, बद्धपल्लवदाए उवभोअक्खमो सहआरो। (इति पश्यन्ती तिष्ठति।)
(तदात्मानमपि विस्मरिष्यामि। हला, रमणीये खलु काल एतस्य लतापादपमिथुनस्य व्यतिकरः संवृत्तः। नवकुसुमयौवना वनज्योत्स्ना, स्निग्धपल्लवतयोपभोगक्षमः सहकारः।)
प्रियंवदा — (सस्मितम्।) अणसूए, जाणासि किंणिमित्तं सउन्दला वणजोसिणीं अदिमेत्तं पेक्खदित्ति।
(अनसूये, जानासि किंनिमित्तं शकुन्तला वनज्योत्स्नामतिमात्रं पश्यतीति।)
अनसूया — ण क्खु विभावेमि। कहेहि।
(न खलु विभावयामि। कथय।)
प्रियंवदा — जधा वणजोसिणी अणुरुवेण पाअवेण संगदा अवि णाम एव्वं अहं वि अन्तणो अणुरूवं वरं लहेअंति।
(यथा वनज्योत्स्नानुरूपेण पादपेन संगता, अपि नामैवमहमप्यात्मनोऽनुरूपं वरं लभेयेति।)
शकुन्तला — एसो णूणं तुह अत्तगदो मणोरधो। (इति कलशमावर्जयति।)
(एष नूनं तवात्मगतो मनोरथः।)
राजा — अपि नाम कुलपतेरियमसवर्णक्षेत्रसंभवा स्यात्। अथवा कृतं संदेहेन।
असंशयं क्षत्रपरिग्रहक्षमा
यदार्यमस्यामभिलाषि मे मनः।
सतां हि संदेहपदेषु वस्तुषु
प्रमाणमन्तःकरणप्रवृत्तयः ॥ २२ ॥
तथापि तत्त्वत एनामुपलप्स्ये।
शकुन्तला — (ससंभ्रमम्।) अम्मो। सलिलसेअसंभमुग्गदो णोमालिअं उज्झिअ वअणं मे महुअरो अहिवट्टइ। (इति भ्रमरबाधां रूपयति।)
(अम्मो। सलिलसेकसंभ्रमोद्गतो नवमालिकामुज्झित्वा वदनं मे मधुकरोऽभिवर्तते।)
राजा — (सस्पृहं विलोक्य।)
यतो यतः षट्चरणोऽभिवर्तते
ततस्ततः प्रेरितलोललोचना।
विवर्तितभ्रूरियमद्य शिक्षते
भयादकामापि हि दृष्टिविभ्रमम् ॥ २३ ॥
अपि च। (सासूयमिव।)
चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं
रहस्याख्यायीव स्वनसि मृदु कर्णान्तिकचरः।
करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं
वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु कृती ॥ २४ ॥
शकुन्तला — ण एसो धिट्ठो विरमदि। अण्णदो गमिस्सं। (पदान्तरे स्थित्वा सदृष्टिक्षेपम्।) कथं इदो वि आअच्छदि। हला, परित्ताअध मं इमिणा दुव्विणीदेण दुट्ठमहुअरेण अहिहूअमाणं।
(न एष धृष्टो विरमति। अन्यतो गमिष्यामि। कथमितोऽप्यागच्छति। हला, परित्रायेथां मामनेन दुर्विनीतेन दुष्टमधुकरेणाभिभूयमानाम्।)
उभे — (सस्मितम्।) काओ अम्हे परित्तादुं। दुस्सन्दं अक्कन्द। राअरक्खिदव्वाइं तवोवणाइं णाम।
(के आवां परित्रातुम्। दुष्यन्तमाक्रन्द। राजरक्षितव्यानि तपोवनानि नाम।)
राजा — अवसरोऽयमात्मानं प्रकाशयितुम्। न भेतव्यं (इत्यर्धोक्ते। स्वगतम्।) राजभावस्त्वभिज्ञातो भवेत्। भवतु। एवं तावदभिधास्ये।
शकुन्तला — (पदान्तरे स्थित्वा। सदृष्टिक्षेपम्।) कथं इदोवि मं अणुसरदि।
(कथमितोऽपि मामनुसरति।)
राजा — (सत्वरमुपसृत्य।) आः।
कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम्।
अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ॥ २५ ॥
(सर्वा राजानं दृष्ट्वा किंचिदिव संभ्रान्ताः।)
अनसूया — अज्ज, ण क्खु किंपि अच्चाहितं। इअं णो पिअसही महुअरेण अहिहुअमाणा कादरीभूदा। (इति शकुन्तलां दर्शयति।)
(आर्य, न खलु किमप्यत्याहितम्। इयं नः प्रियसखी मधुकरेणाभिभूयमाना कातरीभूता।)
राजा — (शकुन्तलाभिमुखो भूत्वा।) अपि तपो वर्धते। (शकुन्तला साध्वसादवचना तिष्ठति।)
अनसूया — दाणि अदिधिविसेसलाहेण। हला सउन्दले, गच्छ उडअं। फलमिस्सं अग्धं उवहर। इदं पादोदअं भविस्सदि।
(इदानीमतिथिविशेषलाभेन। हला शकुन्तले, गच्छोटजम्। फलमिश्र मर्धमुपहर। इदं पादोदकं भविष्यति।)
राजा — भवतीनां सूनृतयैव गिरा कृतमातिथ्यम्।
प्रियंवदा — तेण हि इमस्सिं पच्छाअसीदलाए सत्तवण्णवेदिआए मुहुत्तअं उवविसिअ परिस्समविणोदं करेदु अज्जो।
(तेन ह्यस्यां प्रच्छायशीतलायां सप्तपर्णवेदिकायां मुहूर्तमुपविश्य परिश्रमविनोदं करोत्वार्यः।)
राजा — नूनं यूयमप्यनेन कर्मणा परिश्रान्ताः।
अनसूया — हला सउन्दले, उइदं णो पज्जुवासणं अदिधीणं। एत्थ उवविसम्ह। (इति सर्वा उपविशन्ति।)
(हला शकुन्तले, उचितं नः पर्युपासनमतिथीनाम्। अत्रोपविशामः।)
शकुन्तला — (आत्मगतम्।) किं णु क्खु इमं पेक्खिअ तवोवणविरोहिणो विआरस्स गमणीअम्हि संवृत्ता।
(किं नु खल्विमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य गमनीयास्मि संवृत्ता।)
राजा — (सर्वा विलोक्य।) अहो समवयोरूपरमणीयं भवतीनां सौहार्दम्।
प्रियंवदा — (जनान्तिकम्।) अणसूए, को णु क्खु एसो चउरगम्भीराकिदी महुरं आलवन्तो पहाववन्तो विअ लक्खीअदि।
(अनसूये, को नु खल्वेष चतुरगम्भीराकृतिर्मधुरमालपन्प्रभाववानिव लक्ष्यते।)
अनसूया — सहि, मम वि अस्थि कोदूहलं। पुच्छिस्सं दाव णं। (प्रकाशम्।) अजस्स महुरालावजणिदो वीसम्भो मं मन्तावेदि। कदमो अज्जेण राएसिणो वंसो अलंकरीअदि कदमो वा विरहपज्जुस्सुअजणो किदो देसो, किंणिमित्तं वा सुउमारदरो वि तवोवणगमणपरिस्समस्स अत्ता पदं उवणीदो।
(सखि, ममाप्यस्ति कौतूहलम्। पृच्छामि तावदेनम्। आर्यस्य मधुरालापजनितो विश्रम्भो मां मन्त्रयते। कतम आर्येण राजर्षेर्वंशोऽलंक्रियते, कतमो वा विरहपर्युत्सुकजनः कृतो देशः, किंनिमित्तं वा सुकुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मा पदमुपीतः।)
शकुन्तला — (आत्मगतम्) हिअअ, मा उत्तम्म। एसा तुए चिन्तिदाइं अणसूआ मन्तेदि।
(हृदय, मोत्ताम्य। एषा त्वया चिन्तितान्यनसूया मन्त्रयते।)
राजा — (आत्मगतम्।) कथमिदानीमात्मानं निवेदयामि, कथं वात्मापहारं करोमि। भवतु। एवं तावदेनां वक्ष्ये। (प्रकाशम्।) भवति, यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः सोऽहमविघ्नक्रियोपलम्भाय धर्मारण्यमिदमायातः।
अनसूया — सणाधा दाणिं धम्मआरिणो।
(सनाथा इदानीं धर्मचारिणः।)
(शकुन्तला श्रृङ्गारलज्जां रूपयति।)
सख्यौ — (उभयोराकारं विदित्वा। जनान्तिकम्।) हला सउन्दले, जइ एत्थ अज्ज तादो संणिहिदो भवे।
(हला शकुन्तले, यद्यत्राद्य तातः संनिहितो भवेत्।)
शकुन्तला — तदो किं भवे।
(ततः किं भवेत्।)
सख्यौ — इमं जीविदसव्वस्सेण वि अदिधिविसेसं किदत्थं करिस्सदि।
(इमं जीवितसर्वस्वेनाप्यतिथिविशेषं कृतार्थं करिष्यति।)
शकुन्तला — तुम्हे अवेध। किं पि हिएअ कदुअ मन्तेध। ण वो वअणं सुणिस्सं।
(युवामपेतम्। किमपि हृदये कृत्वा मन्त्रयेथे। न युवयोर्वचनं श्रोष्यामि।)
राजा — वयमपि तावद्भवत्योः सखीगतं किमपि पृच्छामः।
सख्यौ — अज्ज, अणुग्गहो विअ इअं अब्भत्थणा।
(आर्य, अनुग्रह इवेयमभ्यर्थना।)
राजा — भगवान्काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशम् |
इयं च वः सखी तदात्मजेति कथमेतत्।
अनसूया — सुणादु अज्जो। अस्थि को वि कोसिओत्ति गोत्तणामहेओ महाप्पहावो राएसी।
(शृणोत्वार्यः। अस्ति कोऽपि कौशिक इति गोत्रनामधेयो महाप्रभावो राजर्षिः।)
राजा — अस्ति। श्रूयते।
अनसूया — तं णो पिअसहीए पहवं अवगच्छ। उज्झिदाए सरीरसंवड्ढणादीहिं तादकस्सवो से पिदा।
(तमावयोः प्रियसख्याः प्रभवमवगच्छ। उज्झितायाः शरीरसंवर्धनादिभिस्तातकाश्यपोऽस्याः पिता।)
राजा — उज्झितशब्देन जनितं मे कौतूहलम्। आ मूलाच्छ्रोतुमिच्छामि।
अनसूया — सुणादु अज्जो। गोदमीतीरे पुरा किल तस्स राएसिणो उग्गे तवसि वट्टमाणस्स किंपि जादसङ्केहिं देवेहिं मेणआणाम अच्छरा पेसिदा णिअमविग्धकारिणी।
(शृणोत्वार्यः। गौतमीतीरे पुरा किल तस्य राजर्षेरुग्रे तपसि वर्तमानस्य किमपिं जातशङ्कैर्देवैर्मेनका नामाप्सराः प्रेषिता नियमविघ्नकारिणी।)
राजा — अस्त्येतदन्यसमाधिभीरुत्वं देवानाम्।
अनसूया — तदो वसन्तोदारसमए से उम्मादइत्तअं रूवं पेक्खिअ - (इत्यर्धोक्ते लज्जया विरमति)
(ततो वसन्तोदारसमये तस्या उन्मादयितृ रूपं प्रेक्ष्य -)
राजा — परस्तादवगम्यत एव। सर्वथाप्सरः संभवैषा।
अनसूया — अह इं।
(अथ किम्।)
राजा — उपपद्यते।
मानुषीषु कथं वा स्यादस्य रूपस्य संभवः।
न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥ २६ ॥
(शकुन्तलाधोमुखी तिष्ठति।)
राजा — (आत्मगतम्।) लब्धावकाशो मे मनोरथः। किंतु सख्याः परिहासोदाहृतां वरप्रार्थनां श्रुत्वा धृतद्वैधीभावकातरं मे मनः।
प्रियंवदा — (सस्मितं शकुन्तलां विलोक्य नायकाभिमुखी भूत्वा।) पुणो वि वत्तुकामो विअ अज्जो।
(पुनरपि वक्तुकाम इवार्यः।)
(शकुन्तला सखीमङ्गुल्यातर्जयति।)
राजा — सम्यगुपलक्षितं भवत्या। अस्ति नः सच्चरितश्रवणलोभादन्यदपि प्रष्टव्यम्।
प्रियंवदा — अलं विआरिअ। अणिअन्तणाणुओओ तवस्सिअणो णाम।
(अलं विचार्य। अनियन्त्रणानुयोगस्तपस्विजनो नाम।)
राजा — इति सखीं ते ज्ञातुमिच्छामि।
वैखानसं किमनया व्रतमाप्रदाना-
द्व्यापाररोधि मदनस्य निषेवितव्यम्।
अत्यन्तमात्मसदृशेक्षणवल्लभाभि-
राहो निवत्स्यति समं हरिणाङ्गनाभिः ॥ २७ ॥
प्रियंवदा — अज्ज, धम्मचरणे वि परवसो अअं जणो। गुरुणो उण से अणुरुववरप्पदाणे संकप्पो।
(आर्य, धर्मचरणेऽपि परवशोऽयं जनः। गुरोः पुनरस्या अनुरूपवरप्रदाने संकल्पः।)
राजा — (आत्मगतं सहर्षम्।) न दुरवापेयं खलु प्रार्थना।
भव हृदय साभिलाषं संप्रति संदेहनिर्णयो जातः।
आशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्नम् ॥ २८ ॥
शकुन्तला — (सरोषमिव।) अणसूए, गमिस्सं अहं।
(अनसूये, गमिष्याम्यहम्।)
अनसूया — किंणिमित्तं।
(किंनिमित्तम्।)
शकुन्तला — इमं असंबद्धप्पलाविणिं पिअंवदं अज्जाए गोदमीए णिवेदस्सं।
(इमामसंबद्धप्रलापिनीं प्रियंवदामार्यायै गौतम्यै निवेदयिष्यामि।)
अनसूया — सहि, ण जुत्तं अकिदसक्कारं अदिधिविसेसं विसज्जिअ सच्छन्ददो गमणं।
(सखि, न युक्तमकृतसत्कारमतिथिविशेषं विसृज्य स्वच्छन्दतो गमनम्।)
(शकुन्तला न किंचिदुक्त्वा प्रस्थितैव)
राजा — (ग्रहीतुमिच्छन्निगृह्यात्मानम्। आत्मगतम्।) अहो चेष्टाप्रतिरूपिका कामिजनमनोवृत्तिः। अहं हि
अनुयास्यन्मुनितनयां सहसा विनयेन वारितप्रसरः।
स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ॥ २९ ॥
प्रियंवदा — (शकुन्तलां निरुध्य।) हला, ण दे जुत्तं गन्तुं।
(हला, न ते युक्तं गन्तुम्।)
शकुन्तला — (सभ्रूभङ्गम्) किं णिमित्तं।
(किंनिमित्तम्।)
प्रियंवदा — रुक्खसेअणे दुवे धारेसि मे। एहि दाव। अत्ताणं मोचिअ तदो गमिस्ससि। (इति बलादेनां निवर्तयति)
(वृक्षसेचने द्वे धारयसि मे। एहि तावत्। आत्मानं मोचयित्वा ततो गमिष्यसि।)
राजा — भद्रे, वृक्षसेचनादेव परिश्रान्तामत्रभवतीं लक्षये। तथा ह्यस्याः
स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणा-
दद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः।
बद्धं कर्णशिरीषरोधि वदने धर्माम्भसां जालकं
बन्धे स्रंसिनि चैक हस्तयमिताः पर्याकुला मूर्धजाः ॥ ३० ॥
तदहमेनामनृणां करोमि। (इत्यङ्गुलीययं दातुमिच्छति।)
(उभे नाममुद्राक्षराप्यनुवाच्य परस्परमवलोकयतः।)
राजा — अलमस्मानन्यथा संभाव्य। राज्ञः परिग्रहोऽयमिति राजपुरुषं मामवगच्छथ।
प्रियंवदा — तेण हि णारिहदि एदं अङ्गुलीअअं अङ्गुलीविओअं। अज्जस्स वअणेण अणिरिणा दाणिं एसा। (किंचिद्विहस्य।) हला सउन्दले, मोइदासि अणुअम्पिणा अज्जेण, अधवा महाराएण। गच्छ दाणिं।
(तेन हि नार्हत्येतदङ्गुलीयकमङ्गुलीवियोगम्। आर्यस्य वचनेनानृणेदानीमेषा। हला शकुन्तले, मोचितास्यनुकम्पिनार्येण, अथवा महाराजेन। गच्छेदानीम्।)
शकुन्तला — (आत्मगतम्।) जइ अत्तणो पहविस्सं। (प्रकाशम्।) का तुमं विसज्जिदव्वस्स रुन्धिदव्वस्स वा।
(यद्यात्मनः प्रभविष्यामि। का त्वं विसर्जितव्यस्य रोद्धव्यस्य वा।)
राजा — (शकुन्तलां विलोक्य, आत्मगतम्।) किं नु खलु यथा वयमस्यामेवमियमप्यस्मान्प्रति स्यात्। अथवा लब्धावकाशा मे प्रार्थना। कुतः।
वाचं न मिश्रयति यद्यपि मद्वचोभिः
कर्णं ददात्यभिमुखं मयि भाषमाणे।
कामं न तिष्ठति मदाननसंमुखीयं
भूयिष्ठमन्यविषया न तु दृष्टिरस्याः ॥ ३१ ॥
(नेपथ्ये।)
भो भोस्तपस्विनः संनिहितास्तपोवनसत्त्वरक्षायै भवत। प्रत्यासन्नः किल मृगयाविहारी पार्थिवो दुष्यन्तः।
तुरगखुरहतस्तथा हि रेणु-
र्विटपविषक्तजलार्द्रवल्कलेषु।
पतति परिणतारुणप्रकाशः
शलभसमूह इवाश्रमद्रुमेषु ॥ ३२ ॥
अपि च।
तीव्राघातप्रतिहततरुः स्कन्धलग्नैकदन्तः
पादाकृष्टव्रततिवलयासङ्गसंजातपाशः।
मूर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथो
धर्मारण्यं प्रविशति गजः स्यन्दनालोकभीतः ॥ ३३ ॥
(सर्वाः कर्णं दत्वा किंचिदिव संभ्रान्ताः।)
राजा — (आत्मगतम्।) अहो धिक्। पौरा अस्मदन्वेषिणस्तपोवनमुपरुन्धन्ति। भवतु। प्रतिगमिष्यामस्तावत्।
सख्यौ — अज्ज, इमिणा आरण्णअवुत्तन्तेण पज्जाउलम्ह। अणुजाणाहि णो उडअगमणस्स।
(आर्य, अनेनारण्यकवृत्तान्तेन पर्याकुलाः स्मः। अनुजानीहि न उटजगमनाय।)
राजा — (ससंभ्रमम्।) गच्छन्तु भवत्यः। वयमप्याश्रमपीडा यथा न भवति तथा प्रयतिष्यामहे।
(सर्व उत्तिष्ठन्ति।)
सख्यौ — अज्ज, असंभाविदअदिहिसक्कारं भूओ वि पेक्खणणिमित्तं लज्जेमो अज्जं विण्णविदुं।
(आर्य, असंभावितातिथिसत्कारं भूयोऽपि प्रेक्षणनिमित्तं लज्जावहे आर्यं विज्ञापयितुम्।)
राजा — मा मैवम्। दर्शनेनैव भवतीनां पुरस्कृतोऽस्मि।
शकुन्तला — अणसूए अहिणवकुससूईए परिक्खदं मे चलणं। कुरवअसाहापरिलग्गं च वक्कलं। दाव परिपालेध मं जाव णं मोआवेमि।
(अनसूये, अभिनवकुशसूच्या परिक्षतं मे चरणम्। कुरवकशाखापरिलग्नं च वल्कलम्। तावत् परिपालयतं मां यावदेतन्मोचयामि।)
(इति राजानमवलोकयन्ती सव्याजं विलम्ब्य सह सखीभ्यां निष्क्रान्ता।)
राजा — मन्दौत्सुक्योऽस्मि नगरगमनं प्रति। यावदनुयात्रिकान्समेत्य नातिदूरे तपोवनस्य निवेशयेयम्। न खलु शक्नोमि शकुन्तलाव्यापारादात्मानं निवर्तयितुम्। मम हि
गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः।
चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥ ३४ ॥
(इति निष्क्रान्ताः सर्वे।)
इति प्रथमोऽङ्कः।
Act 2
द्वितीयोऽङ्कः।
(ततः प्रविशति विषण्णो विदूषकः।)
विदूषकः — (निःश्वस्य।) भो दिट्ठं । एदस्स मिअआसीलस्स रण्णो वअस्सभावेण णिव्विण्णो म्हि । अअं मिओ अअं वराहो अअं सद्दूलो त्ति मज्झणे वि गिम्हविरलपाअवच्छाआसु वणराईसु आहिण्डीअदि अडवीदो अडविं । पत्तसंकरकसाआइं कडुआइं गिरिणईजलाइं पीअन्ति । अणिअदवेलं सुल्लमंसभूइट्ठो आहारो अण्हीअदि । तुरगाणुधावणकण्डिदसंधिणो रत्तिम्मि वि णिकामं सइदन्वं णत्थि । तदो महन्ते एव्व पच्चूसे दासीएपुत्तेहिं सउणिलुद्धएहिं वणग्गहणकोलाहलेण पडिबोधिदोम्हि । एत्तिएण दाणिं पि पीडा ण णिक्कमदि । तदो गण्डस्स उवरि पिण्डिआ संवृत्ता । हिओ किल अम्हेसु ओहीणेसु तत्तहोदो मिआणुसारेण अस्समपदं पविट्ठस्स तावसकण्णआ सउन्दला णाम मम अधण्णदाए दंसिदा ।
संपदं णअरगमणस्स मणं कहं वि ण करेदि । अज्ज वि से तं एव्व चिन्तयन्तस्स अच्छीसु पभादं आसि । का गदी । जाव णं किदाचारपरिक्कमं पेक्खामि । (इति परिक्रम्यावलोक्य च।) एसो बाणासणहत्थाहिं जवणीहिं वणपुफ्फमालाधारिणीहिं परिवुदो इदो एव आअच्छदि पिअवअस्सो । होदु । अङ्गभङ्गविअलो विअ भविअ चिट्ठिस्सं । जइ एवं वि णाम विस्समं लहेअं । (इति दण्डकाष्टमवलम्ब्य स्थितः)
(भो दृष्टम् । एतस्य मृगयाशीलस्य राज्ञो वयस्यभावेन निर्विण्णोऽस्मि । अयं मृगोऽयं वराहोऽयं शार्दूल इति मध्याह्नेऽपि ग्रीष्मविरलपादपच्छायासु वनराजीष्वाहिण्ड्यतेऽटवीतोऽटवीम् । पत्रसंकरकषायाणि कटूनि गिरिनदीजलानि पीयन्ते । अनियतवेलं शूल्यमांसभूयिष्ठ आहारो भुज्यते । तुरगानुधावनकण्डितसंघे रात्रावपि निकामं शयितव्यं नास्ति । ततो महत्येव प्रत्यूषे दास्याः पुत्रैः शकुनिलुब्धकैर्वनग्रहणकोलाहलेन प्रतिबोधितोऽस्मि । इयतेदानीमपि पीडा न निष्क्रामति । ततो गण्डस्योपरि पिण्डिका संवृत्ता । ह्यः
किलास्मास्ववहीनेषु तत्रभवतो मृगानुसारेणाश्रमपदं प्रविष्टस्य तापसकन्यका शकुन्तला नाम ममाधन्यतया दर्शिता । सांप्रतं नगरगमनस्य मनः कथमपि न करोति । अद्यापि तस्य तामेव चिन्तयतोऽक्ष्णोः प्रभातमासीत् । का गतिः । यावत्तं कृताचारपरिक्रमं पश्यामि । एष बाणासनहस्ताभिर्यवनीभिर्वनपुष्पमालाधारिणीभिः परिवृत इत एवागच्छति प्रियवयस्यः । भवतु । अङ्गभङ्गविकल इव भूत्वा स्थास्यामि । यद्येवमपि नाम विश्रमं लभेय ।)
(ततः प्रविशति यथानिर्दिष्टपरिवारो राजा।)
राजा —
कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि ।
अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥ १ ॥
(स्मितं कृत्वा।) एवमात्माभिप्रायसंभावितेष्टजनचित्तवृत्तिः प्रार्थयिता विडम्ब्यते । तद्यथा
स्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेरयन्त्या तया
यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव ।
मा गा इत्युपरुद्धया यदपि सा सासूयमुक्ता सखी
सर्वे तत्किल मत्परायणमहो कामी स्वतां पश्यति ॥ २ ॥
विदूषकः — (तथा स्थित एव।) भो वअस्स , ण मे हत्थपाआ पसरन्ति । ता वाआमेत्तएण जीआवइस्सं ।
(भो वयस्य , न मे हस्तपादं प्रसरति । तद्वाङ्गमात्रेण जापयिष्यामि ।)
राजा — कुतोऽयं गात्रोपघातः ।
विदूषकः — कुदो किल सअं अच्छीइं आउलीकरिअ अस्सुकारणं पुच्छसि ।
(कुतः किल स्वयमक्षीण्याकुलीकृत्याश्रुकारणं पृच्छसि ।)
राजा — न खल्ववगच्छामि । भिन्नार्थमभिधीयताम् ।
विदूषकः — भो वअस्स , जं वेदसो खुज्जलीलं विडम्बेदि तं किं अत्तणो पहावेण । णं णईवेअस्स ।
(वयस्य , यद्वेतसः कुब्जलीलां विडम्बयति , तत्किमात्मनः प्रभावेण । ननु नदिवेगस्य ।)
राजा — नदीवेगस्तत्र कारणम् ।
विदूषकः — मम वि भवं ।
(ममापि भवान् ।)
राजा — कथमिव ।
विदूषकः — एव्वं राअकज्जाणि उज्झिअ एदारिसे आउलप्पदेसे वणचरखुत्तिणा तुए होदव्वं । जं सच्चं पच्चहं सावदाणुसरणेहिं संखोहिअसंधिबन्धाणं मम गत्ताणं अणीसो म्हि संवुतो । ता पसादइस्सं विसज्जिदुं मं एक्काहं वि दाव विस्समिदुं ।
(एवं राजकार्याण्युज्झित्वैतादृश आकुलप्रदेशे वनचरवृत्तिना त्वया भवितव्यम् । यत्सत्यं प्रत्यहं श्वापदानुसरणैः संक्षोभितसंधिबन्धानां मम गात्राणामनीशोऽस्मि संवृत्तः । तत्प्रसादयिष्यामि विसर्जितुं मामेकाहमपि तावद्विश्रमितुम् ।)
राजा — (स्वगतम्।) अयं चैवमाह । ममापि काश्यपसुतामनुस्मृत्य मृगयाविक्लवं चेतः । कुतः ।
न नमयितुमधिज्यमस्मि शक्तो
धनुरिदमाहितसायकं मृगेषु ।
सहवसतिमुपेत्य यैः प्रियायाः
कृत इव मुग्धविलोकितोपदेशः ॥ ३ ॥
विदूषकः — (राज्ञो मुखं विलोक्य।) अत्तभवं किं वि हिअए करिअ मन्तेदि । अरण्णे मए रुदिअं आसि ।
(अत्रभवान्किमपि हृदये कृत्वा मन्त्रयते । अरण्ये मया रुदितमासीत् ।)
राजा — (सस्मितम्।) किमन्यत् । अनतिक्रमणीयं मे सुहृद्वाक्यमिति स्थितोऽस्मि ।
विदूषकः — चिरं जीअ । (इति गन्तुमिच्छति)
(चिरं जीव ।)
राजा — वयस्य , तिष्ठ । सावशेषं मे वचः ।
विदूषकः — आणवेदु भवं ।
(आज्ञापयतु भवान् ।)
राजा — विश्रान्तेन भवता ममाप्यनायासे कर्मणि सहायेन भवितव्यम् ।
विदूषकः — किं मोदअखण्डिआए । तेण हि अअं खणो ।
(किं मोदकखण्डिकायाम् । तेन ह्ययं सुगृहीतः क्षणः ।)
राजा — यत्र वक्ष्यामि । कः कोऽत्र भोः ।
(प्रविश्य ।)
दौवारिकः — [प्रणम्य ।] आणवेदु भट्टा ।
(आज्ञापयतु भर्ता ।)
राजा — रैवतक , सेनापतिस्तावदाहूयताम् ।
दौवारिकः — तह । (इति निष्क्रम्य सेनापतिना सह पुनः प्रविश्य ।) एसो अण्णावअणुक्कण्ठो भट्टा इदो दिण्णदिट्ठी एव चिट्ठदि । उवसप्पदु अज्जो ।
(तथा । एष आज्ञावचनोत्कण्ठो भर्तेतो दत्तदृष्टिरेव तिष्ठति । उपसर्पत्वार्यः ।)
सेनापतिः — (राजानमवलोक्य।) दृष्टदोषापि स्वामिनि मृगया केवलं गुण एव संवृत्ता । तथा हि देवः
अनवरतधनुर्ज्यास्फालनक्रूरपूर्वं
रविकिरणसहिष्णु क्लेशलेशैरभिन्नम् ।
अपचितमपि गात्रं व्यायतत्वादलक्ष्यं
गिरिचर इव नागः प्राणसारं बिभर्ति ॥ ४ ॥
(उपेत्य ।) जयतु स्वामी । गृहीतश्वापदमरण्यम् । किमिति स्थीयते ।
राजा — मन्दोत्साहः कृतोऽस्मि मृगयापवादिना माठव्येन ।
सेनापतिः — (जनान्तिकम्।) सखे , स्थिरप्रतिबन्धो भव । अहं तावत्स्वामिनश्चित्तवृत्तिमनुवर्तिष्ये । (प्रकाशम्।) प्रलपत्येष वैधेयः ।
ननु प्रभुरेव निदर्शनम् ।
मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः
सत्त्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः ।
उत्कर्षः स च धन्विना यदिषवः सिध्यन्ति लक्ष्ये चले
मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः ॥ ५ ॥
विदूषकः — (सरोषम्) अवेहि रे उच्छाहहेतुअ । अत्तभवं पकिदिं आपण्णो । तुमं दाव अडवीदो अडवीं आहिण्डन्तो णरणासिआलोलुवस्स जिण्णरिच्छस्स कस्स वि मुहे पडिस्ससि ।
(अपेहि रे उत्साहहेतुक । अत्रभवान्प्राकृतिमापन्नः । त्वं तावदटवीतोऽटवीमाहिण्डमानो नरनासिकालोलुपस्य जीर्णऋक्षस्य कस्यापि मुखे पतिष्यसि ।)
राजा — भद्र सेनापते , आश्रमसंनिकृष्टे स्थिताः स्मः । अतस्ते वचो नाभिनन्दामि । अद्य तावत्
गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं
छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ।
विश्रब्धं क्रियतां वराहततिभिर्मुस्ताक्षतिः पल्वले
विश्रामं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥ ६ ॥
सेनापतिः — यत्प्रभविष्णवे रोचते ।
राजा — तेन हि निवर्तय पूर्वगतान्वनग्राहिणः । यथा न मे सैनिकास्तपोवनमुपरुन्धन्ति तथा निषेद्धव्याः । पश्य ।
शमप्रधानेषु तपोवनेषु
गूढं हि दाहात्मकमस्ति तेजः ।
स्पर्शानुकूला इव सूर्यकान्ता-
स्तदन्यतेजोऽभिभवाद्वमन्ति ॥ ७ ॥
सेनापतिः — यदाज्ञापयति स्वामी ।
विदूषकः — गच्छ भो दासीपुत्त । धंसदु दे उच्छाहवुत्तन्तो ।
(गच्छ भो दास्याः पुत्र । ध्वंसतां त उत्साहवृत्तान्तः ।)
(निष्क्रान्तः सेनापतिः ।)
राजा — (परिजनं विलोक्य।) अपनयन्तु भवत्यो मृगयावेषम् । रैवतक , त्वमपि स्वं नियोगमशून्यं कुरु ।
परिजनः — जं देवो आणवेदि । (इति निष्क्रान्तः ।)
(यद्देव आज्ञापयति ।)
विदूषकः — किदं भवदा णिम्मच्छिअं । संपदं एदस्सिं पादवच्छाआए विरइदलदाविदाणदंसणीआए आसणे णिसीददु भवं जाव अहं वि सुहासीणो होमि ।
(कृतं भवता निर्मक्षिकम् । सांप्रतमेतस्यां पादपच्छायायां विरचितलतावितानदर्शनीयायामासने निषीदतु भवान्, यावदहमपि सुखासीनो भवामि ।)
राजा — गच्छाग्रतः ।
विदूषकः — एदु भवं । एतु भवान् ।
(इत्युभौ परिक्रम्योपविष्टौ ।)
राजा — माठव्य , अनवाप्तचक्षुःफलोऽसि । येन त्वया दर्शनीयं न दृष्टम् ।
विदूषकः — णं भवं अग्गदो मे वट्टदि ।
(ननु भावनप्रतो मे वर्तते ।)
राजा — सर्वः कान्तमात्मीयं पश्यति । तामाश्रमललामभूतां शकुन्तलामधिकृत्य ब्रवीमि ।
विदूषकः — (स्वगतम्) होदु । से अवसरं ण दाइस्सं । (प्रकाशम्) भो वअस्स , ते तावसकण्णआ अब्भत्थणीआ दीसदि ।
(भवतु । अस्यावसरं न दास्ये । भो वयस्य , ते तापसकन्यकाभ्यर्थनीया दृश्यते ।)
राजा — सखे , न परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते ।
सुरयुवतिसंभवं किल मुनेरपत्यं तदुज्झिताधिगतम् ।
अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम् ॥ ८ ॥
विदूषकः — (विहस्य) — जह कस्स वि पिण्डखज्जूरेहिं उव्वेजिदस्स तिन्तिणीए अहिलासो भवे , तह इत्थिआरदणपरिभाविणो भवदो इअं अब्भत्थणा ।
(यथा कस्यापि पिण्डखर्जूरैरुद्वेजितस्य तिन्तिण्यामभिलाषो भवेत् , तथा स्त्रीरत्नपरिभाविनो भवत इयमभ्यर्थना ।)
राजा — न तावदेनां पश्यसि येनैमवादीः ।
विदूषकः — तं क्खु रमणिज्जं जं भवदो वि विम्हअं उप्पादेदि ।
(तत्खलु रमणीयं यद्भवतोऽपि विस्मयमुत्पादयति ।)
राजा — वयस्य , किं बहुना ।
चित्रे निवेश्य परिकल्पितसत्त्वयोगा
रूपोच्चयेन मनसा विधिना कृता नु ।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे
धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः ॥ ९ ॥
विदूषकः — जइ एव्वं पच्चादेसो दाणिं रुबवदीणं ।
(यद्येवं प्रत्यादेश इदानीं रूपवतीनाम् ।)
राजा — इदं च मे मनसि वर्तते ।
अनाघ्रातं पुष्पं किसलयमलूनं कररुहै-
रनाविद्धं रत्नं मधु नवमनास्वादितरसम् ।
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं
न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥ १० ॥
विदूषकः — तेण हि लहु परित्ताअदु णं भवं । मा कस्स वि तवस्सिणो इङ्गुदीतेल्लचिक्कणसीसस्स हत्थे पडिस्सदि ।
(तेन हि लघु परित्रायतामेनां भवान् । मा कस्यापि तपस्विन इङ्गुदीतैलमिश्रचिक्कणशीर्षस्य हस्ते पतिष्यति ।)
राजा — परवती खलु तत्रभवती । न च संनिहितोऽत्र गुरुजनः ।
विदूषकः — अध भवन्तं अन्तरेण कीदिसो से दिट्ठिराओ ।
(अथ भवन्तमन्तरेण कीदृशस्तस्या दृष्टिरागः ।)
राजा — निसर्गादेवाप्रगल्भस्तपस्विकन्याजनः । तथापि तु
अभिमुखे मयि संहृतमीक्षितं
हसितमन्यनिमित्तकृतोदयम् ।
विनयवारितवृत्तिरतस्तया
न विवृतो मदनो न च संवृतः ॥ ११ ॥
विदूषकः — णं क्खु दिट्ठमेत्तस्स तुह अङ्कं आरोहदि ।
(ननु खलु दृष्टमात्रस्य तवाङ्कमारोहति ।)
राजा — मिथःप्रस्थाने पुनः शालीनतयापि काममाविष्कृतो भावस्तत्रभवत्या । तथा हि ।
दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे
तन्वी स्थिता कतिचिदेव पदानि गत्वा ।
आसीद्विवृत्तवदना च विमोचयन्ती
शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥ १२ ॥
विदूषकः — तेण हि गहीदपाधेओ होहि । किदं तुए उववणं तवोवणं त्ति पेक्खामि ।
(तेन हि गृहीतपाथेयो भव । कृतं त्वयोपवनं तपोवनमिति पश्यामि ।)
राजा — सखे , तपस्विभिः कैश्चित्परिज्ञातोऽस्मि । चिन्तय तावत्केनापदेशेन सकृदप्याश्रमे वसामः ।
विदूषकः — को अवरो अवदेसो । णं तुमं राआ । णीवारच्छट्ठभाअं अम्हाणं उपहरन्तु त्ति ।
(कोऽपरोऽपदेशः । ननु त्वं राजा । नीवारषष्ठभागमस्माकमुपहरन्त्विति ।)
राजा — मूर्ख , अन्यद्भागधेयमेतेषां रक्षणे निपतति , यद्रत्नराशीनपि विहायाभिनन्द्यम् । पश्य ।
यदुत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तत्फलम् ।
तपःषड्भागमक्षय्यं ददत्यारण्यका हि नः ॥ १३ ॥
(नेपथ्ये ।)
हन्त , सिद्धार्थौ स्वः ।
राजा — (कर्णं दत्त्वा ।) अये , धीरप्रशान्तस्वरैस्तपस्विभिर्भवितव्यम् ।
(प्रविश्य ।)
दौवारिकः — जेदु भट्टा । एदे दुवे इसिकुमारआ पडिहारभूमिं उवट्ठिदा ।
(जयतु भर्ता । एतौ द्वौ ऋषिकुमारौ प्रतीहारभूमिमुपस्थितौ ।)
राजा — तेन ह्यविलम्बितं प्रवेशय तौ ।
दौवारिकः — एसो पवेसेमि । (इति निष्क्रम्य ऋषिकुमाराभ्यां सह प्रविश्य ।) इदो इदो भवन्ता ।
(एष प्रवेशयामि । इत इतो भवन्तौ ।)
(उभौ राजानं विलोकयतः ।)
प्रथमः — अहो दीप्तिमतोऽपि विश्वसनीयतास्य वपुषः । अथवोपपन्नमेतदृषिभ्यो नातिभिन्ने राजनि । कुतः ।
अध्याक्रान्ता वसतिरमुनाऽप्याश्रमे सर्वभोग्ये
रक्षायोगादयमपि तपः प्रत्यहं संचिनोति ।
अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः
पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥ १४ ॥
द्वितीयः — गौतम , अयं स बलभित्सखो दुष्यन्तः !
प्रथमः — अथ किम् ।
द्वितीय : — तेन हि
नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्री-
मेकः कृत्स्नां नगरपरिघप्रांशुबाहुर्भुनक्ति ।
आशंसन्ते सुरसमितयो बद्धवैरा हि दैत्यै-
रस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे ॥ १५ ॥
उभौ — (उपगम्य ।) विजयस्व राजन् ।
राजा — (आसनादुत्थाय ।) अभिवादये भवन्तौ ।
उभौ — स्वस्ति भवते ।
(इति फलान्युपहरतः ।)
राजा — (सप्रणामं परिगृह्य ।) आज्ञापयितुमिच्छामि ।
उभौ — विदितो भवानाश्रमसदामिहस्थः । तेन भवन्तं प्रार्थयन्ते ।
राजा — किमाज्ञापयन्ति ।
उभौ — तत्रभवतः कण्वस्य महर्षेरसांनिध्याद्रक्षांसि न इष्टि विघ्नमुत्पादयन्ति । तत्कतिपयरात्रं सारथिद्वितीयेन भवता सनाथीक्रियतामाश्रम इति ।
राजा — अनुगृहीतोऽस्मि ।
विदूषकः — (अपवार्य ।) एसा दाणिं अणुऊला ते अब्भत्थणा ।
(एषेदानीमनुकूला तेऽभ्यर्थना ।)
राजा — (स्मितं कृत्वा ।) रैवतक , मद्वचनादुच्यतां सारथिः सबाणासनं रथमुपस्थापयेति ।
दौवरिकः — जं देवो आणवेदि । (इति निष्क्रान्तः ।)
(यद्देव आज्ञापयति ।)
उभौ — (सहर्षम् ।)
अनुकारिणि पूर्वेषां युक्तरूपमिदं त्वयि ।
आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः ॥ १६ ॥
राजा — (सप्रणामम् ।) गच्छतां पुरौ भवन्तौ । अहमप्यनुपदमा-
गत एव ।
उभौ — विजयस्व । (इति निष्क्रान्तौ ।)
राजा — माठव्य , अप्यस्ति शकुन्तलादर्शने कुतूहलम् ।
विदूषकः — पढमं सपरीवाहं आसि । दाणिं रक्खसवुत्तन्तेण बिन्दूवि णावसेसिदो ।
(प्रथमं सपरीवाहमासीत् इदानीं राक्षसवृत्तान्तेन बिन्दुरपि नावशेषितः ।)
राजा — मा भैषीः । ननु मत्समीपे वर्तिष्यसे ।
विदूषकः — एस रक्खसादो रक्खिदो म्हि ।
(एष राक्षसाद्रक्षितोऽस्मि ।)
(प्रविश्य ।)
दौवारिकः — सज्जो रधो भट्टिणो विजअप्पत्थाणं अवेक्खदि । एस उण णअरादो देवीणं आणत्तिहरओ करभओ आअदो ।
(सज्जो रथो भर्तुर्विजयप्रस्थानमपेक्षते । एष पुनर्नगराद्देवीनामाज्ञप्तिहरः करभक आगतः ।)
राजा — (सादरम् ।) किमम्बाभिः प्रेषितः ।
दौवारिकः — अह इं ।
(अथ किम् ।)
राजा — ननु प्रवेश्यताम् ।
दौवारिकः — तह । (इति निष्क्रम्य करभकेण सह प्रविश्य ।) एसो भट्टा । उवसप्प ।
(तथा । एष भर्ता । उपसर्प ।)
करभकः — जेदु भट्टा । देवी आणवेदि । आआमिणि चउत्थादिअहे पुत्तपिण्डपालणो णाम उववासो भविस्सदि । तहिं दीहाउणा अवस्सं संभाविदव्वा त्ति ।
(जयतु भर्ता । देव्याज्ञापयति । आगामिनि चतुर्थदिवसे पुत्रपिण्डपालनो नाम उपवासो भविष्यति । तत्र दीर्घायुषावश्यं संभावनीयेति ।)
राजा — इतस्तपस्विकार्यम् । इतो गुरुजनाज्ञा । द्वयमनतिक्रमणीयम् । किमत्र प्रतिविधेयम् ।
विदूषकः — तिसङ्कु विअ अन्तराले चिट्ठ ।
(त्रिशङ्कुरिवान्तराले तिष्ठ ।)
राजा — सत्यमाकुलीभूतोऽस्मि ।
कृत्ययोर्भिन्नदेशत्वाद्द्द्वैधीभवति मे मनः ।
पुरः प्रतिहतं शैले स्त्रोतः स्रोतोवहो यथा ॥ १७ ॥
(विचिन्त्य ।) सखे , त्वमम्बया पुत्र इति प्रतिगृहीतः । अतो भवानितः प्रतिनिवृत्य तपस्विकार्यव्यग्रमानसं मामावेद्य तत्रभवतीनां
पुत्रकृत्यमनुष्ठातुमर्हति ।
विदूषकः — णं क्खु मं रक्खोभीरुअं गणेसि ।
(ननु खलु मां रक्षोभीरुकं गणयसि ।)
राजा — (सस्मितम्) कथमेतद्भवति संभाव्यते ।
विदूषकः — जह राआणुएण गन्तव्वं तह गच्छामि ।
(यथा राजानुजेन गन्तव्यं तथा गच्छामि ।)
राजा — ननु तपोवनोपरोधः परिहरणीय इति सर्वानानुयात्रिकांस्त्वयैव सह प्रस्थापयामि ।
विदूषकः — तेण हि जुवराओ म्हि दाणिं संवृत्तो ।
(तेन हि युवराजोऽस्मीदानीं संवृत्तः ।)
राजा — (आत्मगतम् ।) चपलोऽयं बटुः । कदाचिदस्मत्प्रार्थनामन्तःपुरेभ्यः कथयेत् । भवतु । एनमेवं वक्ष्ये । (विदूषकं हस्ते गृहीत्वा । प्रकाशम्।) वयस्य , ऋषिगौरवादाश्रमं गच्छामि । न खलु सत्यमेव तापसकन्यकायां ममाभिलाषः । पश्य ।
क्व वयं क्व परोक्षमन्मथो
मृगशावैः सममेधितो जनः ।
परिहासविजल्पितं सखे
परमार्थेन न गृह्यतां वचः ॥ १८ ॥
विदूषकः — अह इं ।
(इति निष्क्रान्ताः सर्वे ।)
इति द्वितीयोऽङ्कः ।
Act 3
विदूषकः — तेण हि जुवराओ म्हि दाणिं संवृत्तो ।
(तेन हि युवराजोऽस्मीदानीं संवृत्तः ।)
राजा — (आत्मगतम्।) चपलोऽयं बटुः । कदाचिदस्मत्प्रार्थनामन्तःपुरेभ्यः कथयेत् । भवतु । इदमित्येवं वक्ष्ये । (विदूषकं हस्ते गृहीत्वा । प्रकाशम्।) वयस्य , ऋषिगौरवादाश्रमं गच्छामि । न खलु सत्यमेव तापसकन्यकायां ममाभिलाषः । पश्य ।
क्व वयं क्व परोक्षमन्मथो
मृगशावैः सममेधितो जनः ।
परिहासविजल्गितं सखे
परमार्थेन न गृह्यतां वचः ॥ १८ ॥
(इति निष्क्रान्ताः सर्वे।)
इति द्वितीयोऽङ्कः ।
(ततः प्रविशति कुशानादाय यजमानशिष्यः।)
शिष्यः — अहो , महानुभावः पार्थिवो दुष्यन्तः । प्रविष्टमात्र एवाश्रमं तत्रभवति राजनि निरुपप्लवानि नः कर्माणि संवृत्तानि ।
का कथा बाणसंघाने ज्याशब्देनैव दूरतः ।
हुंकारेणेव धनुषः स हि विघ्नानपोहति ॥ १ ॥
यावदिमान्वेदिसंस्तरणार्थं दर्भानृत्विग्भ्य उपनयामि । (परिक्रम्यावलोक्य च । आकाशे।) प्रियंवदे , कस्येदमुशीरानुलेपनं मृणालवन्ति च नलिनीपत्राणि नीयन्ते । (श्रुतिमभिनीय।) किं ब्रवीषि । आतपलङ्घनाद्वलवदस्वस्था शकुन्तला । तस्याः शरीरनिर्वापणायेति । तर्हि त्वरितं गम्यताम् । सा खलु भगवतः कण्वस्य कुलपतेरुच्छ्वसितम् । अहमपि तावद्वैतानिकं शान्त्युदकमस्यै गौतमीहस्ते विसर्जयिष्यामि ।
(इति निष्क्रान्तः ।)
विष्कम्भकः ।
(ततः प्रविशति कामयमानावस्थो राजा ।)
राजा — (निःश्वस्य।)
जाने तपसो वीर्यं सा बाला परवतीति मे विदितम् ।
न च निम्नादिव सलिलं निवर्तते मे ततो हृदयम् ॥ २ ॥
भगवन्कुसुमायुध , त्वया चन्द्रमसा च विश्वसनीयाभ्यामतिसंधीयते कामिजनसार्थः । कुतः ।
तव कुसुमशरत्वं शीतरश्मित्वमिन्दो-
द्वयमिदमयथार्थं दृश्यते मद्विधेषु ।
विसृजति हिमगर्भैरग्निमिन्दुर्मयूखै-
स्त्वमपि कुसुमबाणान्वज्रसारीकरोषि ॥ ३ ॥
(मदनबाधां निरूप्य । सासूयम्।) भगवन्मन्मथ । कुतस्ते कुसुमायुधस्य शरतैक्ष्ण्यमेतत् । (स्मृत्वा।) आं ज्ञातम् ।
अद्यापि नूनं हरकोपवह्नि-
स्त्वयि ज्वलत्यौर्व इवाम्बुराशौ ।
त्वमन्यथा मन्मथ मद्विधानां
भस्मावशेषः कथमेवमुष्णः ॥ ४ ॥
अथवा-
अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे ।
यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति ॥ ५ ॥
(सखेदं परिक्रम्य।) क्व नु खलु संस्थिते कर्मणि सदस्यैरनुज्ञातः श्रमक्लान्तमात्मानं विनोदयामि । (निःश्वस्य।) किं नु खलु मे प्रियादर्शनादृते शरणमन्यत् । यावदेनामन्विष्यामि । (सूर्यमवलोक्य।) इमामुप्रातपां वेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससखीजना शकुन्तला गमयति । तत्रैव तावद्गच्छामि ।
(परिक्रम्य स्पर्शं रूपयित्वा।) अहो प्रवातसुभगोऽयमुद्देशः ।
शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् ।
अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥ ६ ॥
(परिक्रम्यावलोक्य च।) अस्मिन्वेतसपरिक्षिप्ते लतामण्डपे संनिहितया तया भवितव्यम् । तथा हि । (अधो विलोक्य।)
अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् ।
द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा ॥ ७ ॥
यावद्विटपान्तरेणावलोकयामि । (परिक्रम्य तथा कृत्वा सहर्षम्।) अये ,
लब्धं नेत्रनिर्वाणम् । एषा मे मनोरथप्रियतमा सकुसुमास्तरणं
शिलापट्टमधिशयाना सखीभ्यामन्वास्यते । भवतु । श्रोष्याम्यासां
विश्रम्भकथितानि । (इति विलोकयन् स्थितः।)
(ततः प्रविशति यथोक्तव्यापारा सहसखीभ्यां शकुन्तला)
सख्यौ — (उपवीज्य सस्नेहम्।) हला सउन्दले , अवि सुहेदि दे णलिणीपत्तवाओ ।
(हला शकुन्तले , अपि सुखयति ते नलिनीपत्रवातः ।)
शकुन्तला — किं वीअअन्ति मं सहीओ ।
(किं वीजयतो मां सख्यौ ।)
(सख्यौ विषादं नाटयित्वा परस्परमवलोकयतः ।)
राजा — बलवदस्वस्थशरीरा शकुन्तला दृश्यते । (सवितर्कम्।) तत्किमयमातपदोषः स्यात् । उत यथा मे मनसि वर्तते ।
(साभिलाषं निर्वर्ण्य।) अथवा कृतं संदेहेन ।
स्तनन्यस्तोशीरं शिथिलितमृणालैकवलयं
प्रियायाः साबाधं किमपि कमनीयं वपुरिदम् ।
समस्तापः कामं मनसिजनिदाघप्रसरयो-
र्न तु ग्रीष्मस्यैवं सुभगमपराद्धं युवतिषु ॥ ८ ॥
प्रियंवदा — (जनान्तिकम्।) अणसूए , तस्स राएसिणो पढमदंसणादो आरहिअ पजुस्सुआ विअ सउन्दला । किंणु क्खु से तणिमित्तो अअं आतङ्को भवे ।
(अनसूये , तस्य राजर्षेः प्रथमदर्शनादारभ्य पर्युत्सुकेव शकुन्तला । कि नु खलु तस्यास्तन्निमित्तोऽयमातङ्को भवेत् ?)
अनसूया — सहि , ममवि ईदिसी आसङ्का हिअअस्स । होदु । पुच्छिस्सं दाव णं । (प्रकाशम्।) सहि , पुच्छिदव्वासि किंपि । बलवंक्खु दे संदावो ।
(सखि , ममापीदृश्याशङ्का हृदयस्य । भवतु । प्रक्ष्यामि तावदेनाम् । सखि , प्रष्टव्यासि किमपि । बलवान्खलु ते संतापः ।)
शकुन्तला — (पूर्वोर्धेन शयनादुत्थाय।) हला , किं वत्तुकामासि ।
(हला , किं वक्तुकामासि ?)
अनसूया — हला सउन्दले , अणब्भन्तरा क्खु अम्हे मदणगदस्स वुत्तन्तस्स । किंदु जादिसी इतिहासणिबन्वेसु कामअमाणाणं अवत्था सुणीअदि तादिसीं दे पेक्खामि । कहेहि किंणिमित्तं दे संदावो । विआरं क्खु परमत्थदो अजाणिअ अणारम्भो पडिआरस्स ।
(हला शकुन्तले , अनभ्यन्तरे खल्वावां मदनगतस्य वृत्तान्तस्य । किंतु यादृशीतिहासनिबन्धेषु कामयमानानामवस्था श्रूयते तादृशीं तव पश्यामि । कथय किंनिमित्तं ते संतापः । विकारं खलु परमार्थतोऽज्ञात्वानारम्भः प्रतीकारस्य ।)
राजा — अनसूयामप्यनुगतो मदीयस्तर्कः ।
शकुन्तला — (आत्मगतम्।) बलिअं क्खु मे अहिणिवेसो । दाणिं वि सहसा एदाणं ण सक्कणोमि णिवेदिदुं ।
(बलवान्खलु मेऽभिनिवेशः । इदानीमपि सहसैतयोर्न शक्नोमि निवेदयितुम् ।)
प्रियंवदा — सहि सउन्दले , सुठु एसा भणादि । किं अत्तणो आतङ्कं उवेक्खसि । अणुदिअहं क्खु परिहीअसि अङ्गेहिं । केवलं लावण्णमई छाआ तुमं ण मुञ्चदि ।
(सखि शकुन्तले , सुष्ठुवेषा भणति । किमात्मन आतङ्कमुपेक्षसे । अनुदिवसं खलु परिहीयसेऽङ्गैः । केवलं लावण्यमयी छाया त्वां न मुञ्चति ।)
राजा — अवितथमाह प्रियंवदा । तथा हि ।
क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं
मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा ।
शोच्या च प्रियदर्शना च मदनक्लिष्ठेयमालक्ष्यते
पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥ ९ ॥
शकुन्तला — सहि , कस्स वा अण्णस्स कहइस्सं । आआसइत्तिआ दाणिं वो भविस्सं ।
(सखि , कस्य वान्यस्य कथयिष्यामि । आयासयित्रीदानीं वां भविष्यामि ।)
उभे — अदो एव्व क्खु णिब्बन्धो । सिणिद्धजणसंविभत्तं हि दुक्खं सज्झवेदणं होदि ।
(अत एव खलु निर्बन्धः । स्निग्धजनसंविभक्तं हि दुःखं सह्यवेदनं भवति ।)
राजा —
पृष्टा जनेन समदुःखसुखेन बाला
नेयं न वक्ष्यति मनोगतमाधिहेतुम् ।
दृष्टो विवृत्य बहुशोऽप्यनया सतृष्ण-
मत्रान्तरे श्रवणकातरतां गतोऽस्मि ॥ १० ॥
शकुन्तला — सहि , जदो पहुदि मम दंसणपहं आअदो सो तवोवणरक्खिदा राएसी- (इत्यर्धोक्तेन लज्जां नाटयति ।) सखि , यतः प्रभृति मम दर्शनपथमागतः स तपोवनरक्षिता राजर्षिः-
उभे — कथेदु पिअसही ।
(कथयतु प्रियसखी ।)
शकुन्तला — तदो आरहिअ तग्गदेण अहिलासेण एतदवत्थम्हि संवृत्ता ।
(तत आरभ्य तद्गतेनाभिलाषेणैतदवस्थास्मि संवृत्ता ।)
राजा — (सहर्षम् ।) श्रुतं श्रोतव्यम् ।
स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः ।
दिवस इवाभ्रश्यामस्तपात्यये जीवलोकस्य ॥ ११ ॥
शकुन्तला — तं जइ वो अणुमदं ता तह वट्ठह जह तस्स राएसिणो अणुकम्पणिजा होमि । अण्णहा अवस्सं सिञ्चध मे तिलोदअं ।
(तद्यदि वामनुमतं तदा तथा वर्तथां यथा तस्य राजर्षेरनुकम्पनीया भवामि । अन्यथावश्यं सिञ्चत मे तिलोदकम् ।)
राजा — संशयच्छेदि वचनम् ।
प्रियंवदा — (जनान्तिकम्।) अणसूये , दूरगअवम्महा अक्खमा इअं कालहरणस्स । जस्सि बद्धभावा ऐसा सो ललामभूदो पोरवाणं । ता जुत्तं से अहिलासो अहिणन्दिदुं ।
(अनसूये , दूरगतमन्मथाक्षमेयं कालहरणस्य । यस्मिन्बद्धभावैषा स ललामभूतः पौरवाणाम् । तद्युक्तमस्या अभिलाषोऽभिनन्दितुम् ।)
अनसूया — तह जह भणसि ।
(तथा यथा भणसि ।)
प्रियंवदा — (प्रकाशम्।) सहि , दिट्टिआ अणुरुवो दे अहिणिवेसो । साअरं उज्झिअ कहिं वा महाणई ओदरइ । को दाणिं सहआरं अन्तरेण अदिमुत्तलदं पल्लविदं सहेदि ।
(सखि , दिष्ट्यानुरूपस्तेऽभिनिवेशः । सागरमुज्झित्वा कुत्र वा महानद्यवतरति । क इदानीं सहकारमतरेणातिमुक्तलतां पल्लवितां सहते ?)
राजा — किमत्र चित्रं यदि विशाखे शशाङ्कलेखामनुवर्तेते ।
अनसूया — को उण उवाओ भवे जेण अविलम्बिअं णिहुअं अ सहीए मणोरमं संपादम्ह ।
(कः पुनरुपायो भवेद्येनाविलम्बितं निभृतं च सख्या मनोरथं संपादयावः ?)
प्रियंवदा — णिहुअंन्ति चिन्तणिज्जं भवे । सिग्धंत्ति सुअरं ।
(निभृतमिति चिन्तनीयं भवेत् । शीघ्रमिति सुकरम् ।)
अनसूया — कहं विअ ।
(कथमिव ?)
प्रियंवदा — णं सो राएसी इमस्सिं सिणिद्धदिट्ठीए सूइदाहिलासो इमाइं दिअहाइं पजाअरकिसो लक्खीअदि ।
(ननु स राजर्षिरेतस्यां स्निग्धदृष्टया सूचिताभिलाष एतान्दिवसान्प्रजागरकृशो लक्ष्यते ।)
राजा — सत्यमित्थंभूत एवास्मि । तथाहि ।
इदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतं
निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः ।
अनभिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात्
कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥ १२ ॥
प्रियंवदा — (विचिन्त्य।) हला , मअणलेहो से करोअदु । इमं देवदासेसावदेसेण सुमणोगोविदं करिअ से हत्थअं पावइस्सं ।
(हला , मदनलेखोऽस्य क्रियताम् । इमं देवताशेषापदेशेन सुमनोगोपितं कृत्वा तस्य हस्तं प्रापयिष्यामि ।)
अनसूया — रोअइ मे सुउमारो पओओ । किं वा सउन्दला भणादि ।
(रोचते मे सुकुमारः प्रयोगः । किं वा शकुन्तला भणति ?)
शकुन्तला — सहीणिओओवि विकप्पीअदि ।
(सखीनियोगोऽपि विकल्प्यते ।)
प्रियंवदा — तेण हि अत्तणो उवण्णासपुव्वं चिन्तेहि दाव किंपि ललिअपदबन्धणं ।
(तेन ह्यात्मन उपन्यासपूर्व चिन्तय तावत् किमपि ललितपदबन्धनम् ।)
शकुन्तला — हला , चिन्तेमि अहं । अवहीरणभीरुअं पुणो वेवइ मे हिअअं ।
(हला , चिन्तयाम्यहम् । अवधीरणभीरु पुनर्वेपते मे हृदयम् ।)
राजा — (सहर्षम् ।)
अयं स ते तिष्ठति संगमोन्सुको
विशङ्कसे भीरु यतोऽवधीरणाम् ।
लभेत वा प्रार्थयिता न वा श्रियं
श्रिया दुरापः कथमीप्सितो भवेत् ॥ १३ ॥
सख्यौ — अत्तगुणावमााणिणि , को दाणि सरीरणिव्वावत्तिअं सारदिअं जोसिणिं पडन्तेण वारेदि ।
(आत्मगुणावमानिनि , क इदानीं शरीरनिर्वापयित्रीं शारदीं ज्योत्स्नां पटान्तेन वारयति ?)
शकुन्तला — (सस्मितम्।) णिओइदा दाणिं म्हि । (इत्युपविष्टा चिन्तयति ।) नियोजितेदानीमस्मि ।
राजा — स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि । यतः
उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः ।
कण्टकितेन प्रथयति मय्यनुरागं कपोलेन ॥ १४ ॥
शकुन्तला — हला , चिन्तिदं मए गीदवत्थु । ण क्खु सण्णिहिदाणि उण लेहणसाहणाणि ।
(हला , चिन्तितं मया गीतवस्तु । न खलु संनिहितानि पुनर्लेखनसाधनानि ।)
प्रियंवदा — इमस्सिं सुओदरसुउमारे णलिणीपत्ते णहेहिं णिक्खित्तवण्णं करेहि ।
(एतस्मिञ्छुकोदरसुकुमारे नलिनीपत्रे नखैर्निक्षिप्तवर्णं कुरु ।)
शकुन्तला — (यथोक्तं रूपयित्वा।) हला , सुणुह दाणिं संगदत्थं ण वेति ।
(हला , शृणुतमिदानीं संगतार्थं न वेति ।)
उभे — अवहिद म्ह ।
(अवहिते स्वः ।)
शकुन्तला — (वाचयति ।)
तुज्झ ण आणे हिअअं मम उण कामो दिवावि रत्तिंपि ।
णिग्घिण तवेइ बलिअं तुइ वुत्तमणोरहाइं अङ्गाइं ॥ १५ ॥
(तव न जाने हृदयं मम पुनः कामो दिवापि रात्रावपि ।
निर्घृण तपति बलीयस्त्वयि वृत्तमनोरथान्यङ्गानि ।)
राजा — (सहसोपसृत्य ।)
तपति तनुगात्रि मदनस्त्वामनिशं मां पुनर्दहत्येव ।
ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः ॥ १६ ॥
सख्यौ — (सहर्षम् ।) साअदं अविलम्बिणो मणोरधस्स ।
(स्वागतमविलम्बिनो मनोरथस्य ।)
(शकुन्तलाभ्युत्थातुमिच्छति)
राजा — अलमलमायासेन ।
संदष्टकुसुमशयनान्याशुक्लान्तबिसभङ्गसुरभीणि ।
गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति ॥ १७ ॥
अनसूया — इदो सिलातलेक्कदेसं अलंकरेदु वअस्सो ।
(इतः शिलातलैकदेशमलंकरोतु वयस्यः ।)
(राजोपविशति । शकुन्तला सलज्जा तिष्ठति ।)
प्रियंवदा — दुवेणं पि वो अण्णोण्णाणुराओ पञ्चक्खो । सहीसिणेहो मं पुणरुत्तवादिणीं करेदि ।
(द्वयोरपि युवयोरन्योन्यानुरागः प्रत्यक्षः । सखीस्नेहो मां पुनरुक्तवादिनीं करोति ।)
राजा — भद्रे , नैतत्परिहार्यम् । विवक्षितं ह्यनुक्तमनुतापं जनयति ।
प्रियंवदा — आवण्णस्स विसअणिवासिणो जणस्स अत्तिहरेण रण्णा होदव्वं त्ति एसो वो धम्मो ।
(आपत्रस्य विषयनिवासिनो जनस्यार्तिहरेण राज्ञा भवितव्यमित्येष युष्माकं धर्मः ।)
राजा — नास्मात्परम् ।
प्रियंवदा — तेण हि इअं णो पिअसही तुमं उद्दिसिअ इमं अवत्थन्तरं भअवदा मअणेण आरोविदा । ता अरुहसि अब्भुववत्तीए जीविदं से अवलम्बिदुं ।
(तेन हीयमावयोः प्रियसखी त्वामुद्दिश्येदमवस्थान्तरं भगवता मदनेनारोपिता । तदर्हस्यभ्युपपत्त्या जीवितं तस्या अवलम्बितुम् ।)
राजा — भद्रे , साधारणोऽयं प्रणयः । सर्वथानुगृहीतोऽस्मि ।
शकुन्तला — (प्रियंवदामवलोक्य) हला , किं अन्तेउरविहरपज्जुस्सुअस्स राएसिणो उवरोहेण ।
(हला , किमन्तःपुरविरहपर्युत्सुकस्य राजर्षेरुपरोधेन ?)
राजा —
इदमनन्यपरायणमन्यथा
हृदयसंनिहिते हृदयं मम ।
यदि समर्थयसे मदिरेक्षणे
मदनबाणहतोऽस्मि हतः पुनः ॥ १८ ॥
अनसूया — वअस्स , बहुवल्लहा राआणो सुणीअन्ति । जह णो पिअसही बन्धुअणसोमणिजा ण होई तइ णिव्वतेहि ।
(वयस्य , बन्धुवल्लभा राजानः श्रूयन्ते । यथा नौ प्रियसखी बन्धुजनशोचनीया न भवति तथा निर्वर्तय ।)
राजा — भद्रे , किं बहुना ।
परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे ।
समुद्रवसना चोर्वी सखी च युवयोरियम् ॥ १९ ॥
उभे — णिव्वुद म्ह ।
(निर्वृते स्वः ।)
प्रियंवदा — (सदृष्टिक्षेपम् ।) अणसूए , जह एसो इदोदिण्णदिट्ठि उत्सुओ मिअपोदओ मादरं अण्णेसदि । एहि । संजोएम णं ।
(इत्युभे प्रस्थिते ।) (अनसूये , यथैष इतोदत्तदृष्टिरुत्सुको मृगपोतको मातरमन्विष्यति । एहि । संयोजयाव एनम् ।)
शकुन्तला — हला , असरण म्हि । अण्णदरा वो आअच्छदु ।
(हला , अशरणास्मि । अन्यतरा युवयोरागच्छतु ।)
उभे — पुहवीए जो सरणं सो तुह समीवे वट्टइ ।
(इति निष्क्रान्ते ।) (पृथिव्या यः शरणं स तव समीपे वर्तते ।)
शकुन्तला — कहं गदाओ एव्व ।
(कथं गते एव ?)
राजा — अलमावेगेन । नन्वयमाराधयिता जनस्तव समीपे वर्तते ।
किं शीतलैः क्लमविनोदिभिरार्द्रवातान्
संचारयामि नलिनीदलतालवृन्तैः ।
अङ्के निधाय करभोरु यथासुखं ते
संवाहयामि चरणावुत पद्मताम्रौ ॥ २० ॥
शकुन्तला — ण माणणीएसु अत्ताणं अवराहइस्स ।
(इत्युत्थाय गन्तुमिच्छति ।) (न माननीयेष्वात्मानमपराधयिष्ये ।)
राजा — सुन्दरि , अपरिनिर्वाणो दिवसः । इयं च ते शरीरावस्था ।
उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् ।
कथमातपे गमिष्यसि परिबाधापेलवैरङ्गैः ॥ २१ ॥
(इति बलादेनां निवर्तयति ।)
शकुन्तला — पोरव , रक्ख अविणअं । मअणसंतत्तावि ण हु अत्तणो पहवामि ।
(पौरव , रक्षाविनयम् । मदनसंतप्तापि न खल्वात्मनः प्रभवामि ।)
राजा — भीरु , अलं गुरुजनभयेन । दृष्ट्वा ते विदितधर्मा तत्रभवान्नात्र दोषं ग्रहीष्यति कुलपतिः । अपि च ।
गान्धर्वेण विवाहेन बह्वयो राजर्षिकन्यकाः ।
श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनन्दिताः ॥ २२ ॥
शकुन्तला — मुञ्च दाव मं । भूओ वि सहीजणं अणुमाणइस्सं ।
(मुञ्च तावन्माम् । भूयोऽपि सखीजनमनुमानयिष्ये ।)
राजा — भवतु । मोक्ष्यामि ।
शकुन्तला — कदा । कदा ?
राजा —
अपरिक्षतकोमलस्य यावत्
कुसुमस्येव नवस्य षट्पदेन ।
अधरस्य पिपासता मया ते
सदयं सुन्दरि गृह्यते रसोऽस्य ॥ २३ ॥
(इति मुखमस्याः समुन्नमयितुमिच्छति । शकुन्तला परिहरति नाट्येन ।)
(नेपथ्ये ।)
चक्कवाकवहुए , आमन्तेहि सहअरं । उवट्टिदा रअणी ।
(चक्रवाकवधूः , आमन्त्रयस्व सहचरम् । उपस्थिता रजनी ।)
शकुन्तला — (ससंभ्रमम् ।) पोरव , असंसअं मम सरीरवुत्तन्तोवलम्भस्स अज्जा गोदमी इदो एव्व आअच्छदि । जाव विडवन्तरिदो होहि ।
(पौरव , असंशयं मम शरीरवृत्तान्तोपलम्भायार्या गौतमीतएवागच्छति । यावद्विटपान्तरितो भव ।)
राजा — तथा । (इत्यात्मानमानृत्य तिष्ठति ।)
(ततः प्रविशति पात्रहस्ता गौतमी सख्यौ च ।)
सख्यौ — इदो इदो अजा गोतमी ।
(इत इत आर्या गौतमी ।)
गौतमी — (शकुन्तलामुपेत्य ।) जादे , अवि लहुसंदाबाई दे अङ्गाइं ।
(जाते , अपि लघुसंतापानि तेऽङ्गानि ?)
शकुन्तला — अजे , अत्थि मे विसेसो ।
(आर्ये , अस्ति मे विशेषः ।)
गौतमी — इमिणा दब्भोदपण णिराबाधं एव्व दे सरीरं भविस्सदि । (शिरसि शकुन्तलामभ्युक्ष्य) वच्छे , परिणदो दिअहो । एहि । उडजं एव्व गच्छम्ह ।
(अनेन दर्भोदकेन निराबाधमेव ते शरीरं भविष्यति । वत्से , परिणतो दिवसः । एहि । उटजमेव गच्छामः ।)
(इति प्रस्थिताः ।)
शकुन्तला — (आत्मगतम् ।) हिअअ , पढमं एव्व सुहोवणदे मणोरहे कादरभावं ण मुञ्चसि । साणुसअविहडिअस्स महं दे संपदं संदाबो । (पदान्तरे स्थित्वा । प्रकाशम् ।) लादावलअ संदावहारअ , आमन्तेमि तुमं भूओ वि परिमोअस्स ।
(इति दुःखेन निष्कान्ता शकुन्तला सहेतराभिः ।)
(हृदय , प्रथममेव सुखोपनते मनोरथे कातरभावं न मुञ्चसि । सानुशयविघटितस्य कथं ते सांप्रतं संतापः ? लतावलय , संतापहारक , आमंत्रये त्वां भूयोऽपि परिभोगाय ।)
राजा — (पूर्वस्थानमुपेत्य । सनिःश्वासम् ।) अहो विघ्नवत्यः प्रार्थितार्थसिद्धयः । मया हि
मुहुरङ्गुलिसंवृताधरोष्ठं
प्रतिषेधाक्षरविक्लवाभिरामम् ।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः
कथमप्युन्नमितं न चुम्बितं तु ॥ २४ ॥
क्व नु खलु संप्रति गच्छामि । अथवा । इहैव प्रियापरिभुक्तमुक्ते लतावलये मुहुर्तं स्थास्यामि । (सर्वतोऽवलोक्य)
तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियं
क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरर्पितः ।
हस्ताद्भ्रष्टमिदं विसाभरणमित्यासज्यमानेक्षणो
निर्गन्तुं सहसा न वेतसगृहाच्छक्नोमि शून्यादपि ॥ २५ ॥
(आकाशे ।)
राजन् ,
सायंतने सवनकर्मणि संप्रवृत्ते
वेदीं हुताशनवतीं परितः प्रकीर्णाः ।
छायाश्चरन्ति बहुधा भयमादधानाः
संध्यापयोदकपिशाः पिशिताशनानाम् ॥ २६ ॥
राजा — अयमयमागच्छामि । (इति निष्क्रान्तः ।)
इति तृतीयोऽङ्कः ।
Act 4
(ततः प्रविशतः कुसुमावचयं नाटयन्त्यौ सख्यौ ।)
अनसूया — हला पिअंवदे , जइ वि गन्धव्वेण विवाहविहिणा णिव्युत्तकल्लाणा सउन्दला अणुरुवभत्तगामिणी संवृत्तेत्ति निव्वुदं मे हिअअं , तह वि एत्तिअं चिन्तणिज्जं ।
(हला प्रियंवदे , यद्यपि गान्धर्वेण विवाहविधिना निर्वृत्तकल्याणा शकुन्तलानुरूपभर्तृगामिनी संवृत्तेति निर्वृतं मे हृदयम् , तथाप्येतावच्चिन्तनीयम् ।)
प्रियंवदा — कहं विअ ।
(कथमिव ।)
अनसूया — अज्ज सो राएसी इट्ठि परिसमाविअ इसीदिं विसज्जिदो अत्तणो णअरं पविसिअ अन्तेउरसमागदो इदोगदं वुत्तन्तं सुमरदि , वा ण वेत्ति ।
(अद्य स राजर्षिरिष्टिं परिसमाप्य ऋषिभिर्विसर्जित आत्मनो नगरं प्रविश्यान्तःपुरसमागत इतोगतं वृत्तान्तं स्मरति वा न वेति ।)
प्रियंवदा — वीसद्धा होहि । ण तादिसा आकिदिविसेसा गुणविरोहिणो होन्ति । किंदु तादो दाणिं इमं वुत्तन्तं सुणिअ ण आणे किं पडिवज्जिस्सदि त्ति ।
(विस्रब्धा भव । न तादृशा आकृतिविशेषा गुणविरोधिनी भवन्ति । किंतु तात इदानीमिमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति ।)
अनसूया — जह अहं देक्खामि , तह तस्स अणुमदं भवे ।
(यथाहं पश्यामि तथा तस्यानुमतं भवेत् ।)
प्रियंवदा — कहं विअ ।
(कथमिव ।)
अनसूया — गुणवदे कण्णआ पडिबादणिज्जेत्ति अअं दाव पढमो संकप्पो । तं जइ देव्वं एव्व संपादेदि , णं अप्पआसेण किदत्थो गुरुअणो ।
(गुणवते कन्यका प्रतिपादनीयेत्ययं तावत्प्रथमः संकल्पः । तं यदि दैवमेव संपादयति नन्वप्रयासेन कृतार्थो गुरुजनः ।)
प्रियंवदा — (पुष्पभाजनं विलोक्य ।) सहि , अवइदाहं बलिकम्मपज्जत्ताइं कुसुमाइं ।
(सखि , अवचितानि बलिकर्मपर्याप्तानि कुसुमानि ।)
अनसूया — णं पिअसहीए सउन्दलाए सोहम्गदेवआ अच्चणीआ ।
(ननु प्रियसख्याः शकुन्तलायाः सौभाग्यदेवतार्चनीया ।)
प्रियंवदा — जुज्जदि ।
(युज्यते ।)
(इति तदेव कर्मारभेते ।)
(नेपथ्ये ।)
अयमहं भोः ।
अनसूया — (कर्णं दत्त्वा ।) सहि , अदिधीणं विअ णिवेदिदं ।
(सखि , अतिथीनामिव निवेदितम् ।)
प्रियंवदा — णं उडजसंणिहिदा सउन्दला । (आत्मगतम् ।) अज्ज उण हिअएण असंणिहिदा ।
(ननूटजसंनिहिता शकुन्तला । अद्य पुनर्हदयेनासंनिहिता ।)
अनसूया — हो दु । अलं एत्तिएहिं कुसुमेहिं ।
(भवतु । अलमेतावद्भिः कुसुमैः ।)
(इति प्रस्थिते ।)
(नेपथ्ये ।)
आः अतिथिपरिभाविनी ,
विचिन्तयन्ती यमनन्यमानसा
तपोधनं वेत्सि न मामुपस्थितम् ।
स्मरिष्यति त्वां न स बोधितोऽपि सन्कथां
प्रमत्तः प्रथमं कृतामिव ॥ १ ॥
प्रियंवदा — हद्धी हद्धी । अप्पिअं एव्व संवृत्तं । कस्सिं पि पूआरुहे अवरद्धा सुण्णहिअआ सउन्दला । (पुरोऽवलोक्य ।) ण हु जस्सिं कस्सिं पि । एसो दुव्वासो सुलहकोवो महेसी । तह सविअ वेअबलुप्फुल्लाए दुव्वाराए गईए पडिणिवुत्तो । को अण्णो हुदवहादो दहिदुं पहविस्सदि ।
(हा धिक् हा धिक् । अप्रियमेव संवृत्तम् । कस्मिन्नपि पूजार्हेऽपराद्धा शून्यहृदया शकुन्तला । न खलु यस्मिन्कस्मिन्नपि । एष दुर्वासाः सुलभकोपो महर्षिः । तथा शप्त्वा वेगबलोत्फुल्लया दुर्वारया गत्या प्रतिनिवृत्तः । कोऽन्यो हुतवहाद्दग्धुं प्रभविष्यति ।)
अनसूया — गच्छ । पादेसु पणमिअ णिवत्तेहि णं , जाव अहं अग्घोदअं उवकप्पेमि ।
(गच्छ । पादयोः प्रणम्य निवर्तमैनं यावदहमर्घोदकमुपकल्पयामि ।)
प्रियंवदा — तह ।
(तथा ।)
(इति निष्क्रान्ता ।)
अनसूया — (पदान्तरे स्खलितं निरूप्य ।) अम्मो । आवेअक्खलिदाए गईए पब्भट्ठं मे अग्गहत्थादो पुप्फभाअणं ।
(इति पुष्पोच्चयं रूपयति ।)
(अहो । आवेगस्खलितया गत्या प्रभ्रष्टं ममाग्रहस्तात्पुष्पभाजनम् ।)
(प्रविश्य ।)
प्रियंवदा — सहि , पकिदिवक्को सो कस्स अणुणअं पडिगेण्हदि । किं पि उण साणुक्कोसो किदो ।
(सखि , प्रकृतिवक्रः स कस्यानुनयं प्रतिगृह्णाति । किमपि पुनः सानुक्रोशः कृतः ।)
अनसूया — (सस्मितम् ।) तस्सिं बहु एदं पि । कहेहि ।
(तस्मिन्बह्वेतदपि । कथय ।)
प्रियंवदा — जदा णिवत्तिदुं ण इच्छदि तदा विण्णविदो मए । भअवं , पढमं त्ति पेक्खिअ अविण्णादतवप्पहावस्स दुहिदुजणस्स भअवदा एक्को अवराहो मरिसिदव्वोत्ति ।
(यदा निवर्तितुं नेच्छति तदा विज्ञापितो मया । भगवन् , प्रथम इति प्रेक्ष्याविज्ञाततपःप्रभावस्य दुहितृजनस्य भगवतैकोऽपराधो मर्षितव्य इति ।)
अनसूया — तदो तदो ।
(ततस्ततः ।)
प्रियंवदा — तदो मे वअणं अण्णहाभवितुं णारिहदि । किंदु अहिण्णाणाभरणदंसणेण साबो णिवत्तिस्सदि त्ति मन्तअन्तो सअं अन्तरिहिदो ।
(ततो मे वचनमन्यथाभवितुं नार्हति । किंत्वभिज्ञानाभरणदर्शनेन शापो निवर्तिष्यत इति मन्त्रयन्स्वयमन्तर्हितः ।)
अनसूया — सक्कं दाणिं अस्ससितुं । अत्थि तेण राएसिणा संपत्थिदेण सणामहेअङ्कियं अङ्गुलीअअं सुमरणीअंत्ति सअं पिणद्धं । तस्सिं साहीणोबाआ सउन्दला भविस्सदि ।
(शक्यमिदानीमाश्वसितुम् । अस्ति तेन राजर्षिणा संप्रस्थितेन स्वनामधेयाङ्कितमङ्गुलीयकं स्मरणीयमिति स्वयं पिनद्धम् । तस्मिन्स्वाधीनोपाया शकुन्तला भविष्यति ।)
प्रियंवदा — सहि , एहि । देवकज्जं दाव णिव्वतेम्ह ।
(सखि , एहि । देवकार्यं तावन्निर्वर्तयावः ।)
(इति परिक्रामतः ।)
प्रियंवदा — (विलोक्य ।) अणसूए , पेक्ख दाव । वामहत्थोवहिदवअणा आलिहिदा विअ पिअसही । भत्तुगदाए चिन्ताए अत्ताणं पि ण एसा विभावेदि । किं उण आअन्तुअं ।
(अनसूये , पश्य तावत् । वामहस्तोपहितवदनालिखितेव प्रियसखी । भर्तगतया चिन्तयात्मानमपि नैषा विभावयति । किं पुनरागन्तुकम् ।)
अनसूया — पिअंवदे , दुवेणं एव्व णं णो मुद्दे एसो वुत्तन्तो चिट्ठदु । रक्खिदव्वा क्खु पकिदिपेलवा पिअसही ।
(प्रियंवदे , द्वयोरेव ननु नौ मुख एष वृत्तान्तस्तिष्ठतु । रक्षितव्या खलु प्रकृतिपेलवा प्रियसखी ।)
प्रियंवदा — को णाम उण्होदएण णोमालिअं सिञ्चेदि ।
(को नामोष्णोदकेन नवमालिकां सिञ्चति ।)
(इत्युभे निष्कान्ते ।)
विष्कम्भः ।
(ततः प्रवशति सुप्तोत्थितः शिष्यः ।)
शिष्यः — वेलोपलक्षणार्थमादिष्टोऽस्मि तत्रभवता प्रवासादुपावृत्तेन काश्यपेन । प्रकाशं निर्गतस्तावदवलोकयामि कियदवशिष्टं रजन्या इति । (परिक्रम्यावलोक्य च ।) हन्त प्रभातम् । तथा हि
यात्येकतोऽस्तशिखरं पतिरोषधीना-
माविष्कृतारुणपुरःसर एकतोऽर्कः ।
तेजोद्वयस्य युगपद्व्यसनोदयाभ्यां
लोको नियम्यत इवात्मदशान्तरेषु ॥ १ ॥
अपि च ।
अन्तर्हिते शशिनि सैव कुमुद्वती मे
दृष्टिं न नन्दयति संस्मरणीयशोभा ।
इष्टप्रवासजनितान्यबलाजनस्य
दुःखानि नूनमतिमात्रसुदुःसहानि ॥ २ ॥
अनसूया (प्रविश्यापटीक्षेपेण ।) — एवं णाम विसअपरम्मुहस्स वि जणस्स ण पदं ण विदिअं जधा तेण रण्णा सउन्दलाए अणज्जं आअरिदं ।
(एवं नाम विषयपराङ्मुखस्यापि जनस्य नैतन्न विदितं यथा तेन राज्ञा शकुन्तलायामनार्यमाचरितम् ।)
शिष्यः — यावदुपस्थितां होमवेलां गुरवे निवेदयामि ।
(इति निष्क्रान्तः ।)
अनसूया — पडिबुद्धा वि किं करिस्सं । ण मे उइदेसु वि णिअकरणिज्जेसु हत्थपाआ पसरन्ति । कामो दाणिं सकामो होदु । जेण असञ्चसंधे जणे सुद्धहिअआ सही पदं कारिदा । अहवा दुव्वाससावो एसो विआरेदि । अण्णहा कहं सो राएसी तारिसाणि मन्तिभ पत्तिअस्स कालस्स लेहमेतं पि ण विसज्जेदि । ता इदो अहिण्णाणं अङ्गुलीअअं से विसज्जेम । दुक्खसीले तवस्सिजणे को अब्भत्थीअदु । णं सहीगामी दोसो ति ववसिदा वि ण पारेमि पवासपडिणिउत्तस्स तादकस्सवस्स दुस्सन्तपरिणीदं आबण्णसत्तं सउन्दलं णिवेदिदुं । इत्थंगए अम्हेहि किं करणिज्जं ।
(प्रतिबुद्धापि किं करिष्ये । न म उचितेष्वपि निजकार्येषु हस्तपादं प्रसरति । काम इदानीं सकामो भवतु । येनासत्यसंधे जने शुद्धहृदया सखी पदं कारिता । अथवा दुर्वासःशाप एष विकारयति । अन्यथा कथं स राजर्षिस्तादृशानि मन्त्रयित्वैतावत्कालस्य लेखमात्रमपि न विसर्जयति । तदितोऽभिज्ञानमङ्गुलीयकं तस्य विसर्जयावः । दुःखशीले तपस्विजने कोऽभ्यर्थ्यताम् । ननु सखीगामी दोष इति व्यवसितापि न पारयामि प्रवासप्रतिनिवृत्तस्य तातकाश्यपस्य दुष्यन्तपरिणीतामापन्नसत्त्वां शकुन्तलां निवेदयितुम् । इत्थंगतेऽस्माभिः किं करणीयम् ।)
प्रियंवदा (प्रविश्य सहर्षम् ।) — सहि , तुवर तुवर सउन्दलाए पत्थाणकोदुअं णिव्वत्तिदुं ।
(सखि , त्वरस्व त्वरस्व शकुन्तलायाः प्रस्थानकौतुकं निर्वर्तयितुम् ।)
अनसूया — सहि , कहं एदं ।
(सखि , कथमेतत् ।)
प्रियंवदा — सुणाहि दाणिं । सुहसइदपुच्छिआ सउन्दलासआसं गदम्हि । तदो जाव एणं लज्जावणदमुहिं परिस्सजिअ सअं तादकस्लवेण एव्वं अहिणन्दिदं । दिट्ठिआ धुमाउलिददिट्ठिणो वि जअमाणस्स पाअए एव आहुदी पडिदा । वच्छे , सुसिस्सपरिदिण्णा विज्जा विअ असोअणिज्जा संवृत्ता । अज्ज एव्व इसिरक्खिदं तुमं भत्तणो सआसं विसज्जोमि त्ति ।
(श्रृणु इदानीम् । सुखशयितपृच्छिका शकुन्तलासकाशं गतास्मि । ततो यादवेनां लज्जावनतमुखीं परिष्वज्य स्वयं तातकाश्यपेनैवमभिनन्दितम् । दिष्टया धूमाकुलितदृष्टेरपि यजमानस्य पावक एवाहुतिः पतिता । वत्से , सुशिष्यपरिदत्ता विद्येवाशोचनीया संवृत्ता । अद्यैव ऋषिरक्षितां त्वां भर्तुः सकाशं विसर्जयामीति ।)
अनसूया — अह केण सूइदो तादकस्सवस्स वुत्तन्तो ।
(अथ केन सूचितस्तातकाश्यपस्य वृत्तान्तः ।)
प्रियंवदा — अग्गिसरणं पविट्ठस्स सरीरं विणा छन्दोमईए वाणिआए ।
(अग्निशरणं प्रविष्टस्य शरीरं विना छन्दोमय्या वाण्या ।)
अनसूया (सविस्मयं) — कहेहि ।
(कथय ।)
प्रियंवदा (संस्कृतमाश्रित्य ।) —
दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः ।
अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव ॥ ३ ॥
अनसूया (प्रियंवदामाश्लिष्य ।) — सहि , पिअं मे । किंतु अज एव्व सउन्दला णीअदित्ति उक्कण्ठासाधारणं परितोषं अणुहोमि ।
(सखि , प्रियं मे । किंत्वद्यैव शकुन्तला नीयत इत्युत्कण्ठासाधारणं परितोषमनुभवामि ।)
प्रियंवदा — सहि , अम्हे दाव उक्कण्ठं विणोदइस्सामो । सा वस्सिणी णिव्वुदा होदु ।
(सखि , आवां तावदुत्कष्ठां विनोदयिष्यावः । सा तपस्विनी निर्वृता भवतु ।)
अनसूया — तेन हि एदस्सिं चूदसाहावलम्बिदे णारिएरसमुग्गए एतणिमित्तं एव्व कालन्तरक्खमा णिक्खित्ता मए केसरमालिआ । ता इमं हत्थसंणिहिदं करेहि । जाव अहंपि से मिमलोअणं तित्थमित्तिअं दुव्वाकिसलमणित्ति मङ्गलसमालम्भणाणि विरएमि ।
(तेन ह्येतस्मिंश्चूतशाखावलम्बिते नारिकेलसमुद्गक एतन्निमित्तमेव कालान्तरक्षमा निक्षिप्ता मया केसरमालिका । तदिमां हस्तसंनिहितां कुरु । यावदहमपि तस्यै मृगरोचनां तीर्थमृत्तिकां दूर्वाकिसलयानीति मङ्गलसमालम्भनानि विरचयामि ।)
प्रियंवदा — तह करीअदु ।
(तथा क्रियताम् ।)
(अनसूया निष्क्रान्ता । प्रियंवदा नाट्येन सुमनसो गृह्णाति ।)
(नेपथ्ये ।)
गौतमि , आदिश्यन्तां शार्ङ्गरवमिश्राः शकुन्तलानयनाय ।
प्रियंवदा (कर्णं दत्त्वा ।) — अणसूए , तुवर तुवर । एदे क्खु हत्थिआउरगामिणो इसीओ सद्दावीअन्ति ।
(अनसूये , त्वरस्व त्वरस्व । एतं खलु हस्तिनापुरगामिन ऋषयः शब्दाय्यन्ते ।)
(प्रविश्य समालम्भनहस्ता ।)
अनसूया — सहि , एहि । गच्छम्ह ।
(सखि , एहि । गच्छावः ।)
(इति परिक्रामतः ।)
प्रियंवदा (विलोक्य ।) — एसा सुज्जोदय एव्व सिहामज्जिदा पडिच्छिदणीवारहत्याहिं सोत्थिवाअणकाहिं तावसीहिं अहिणन्दीअमाणा सउन्दला चिट्ठइ । उवसप्पम्ह णं ।
(एषा सूर्योदय एव शिखामज्जिता प्रतिष्ठितनीवारहस्ताभिः स्वस्तिवाचनिकाभिस्तापसीभिरभिनन्द्यमाना शकुन्तला तिष्ठति । उपसर्पाव एताम् ।)
(इत्युपसर्पतः ।)
(ततः प्रविशति यथोद्दिष्टव्यापारासनस्था शकुन्तला ।)
तापसीनामन्यतमा (शकुन्तलां प्रति ।) — जादे , भत्तुणो बहुमाणसूअअं महादेईसद्दं लहेहि ।
(जाते , भर्तुर्बहुमानसूचकं महादेवीशब्दं लभस्व ।)
द्वितीया — वच्छे , वीरप्पसविणी होहि ।
(वत्से , वीरप्रसविनी भव ।)
तृतीया — वच्छे , भत्तुणो बहुमदा होहि ।
(वत्से , भर्तुर्बहुमता भव ।)
(इत्याशिषो दत्त्वा गौतमीवर्जं निष्क्रान्ताः ।)
सख्यौ (उपसृत्य ।) — सहि सुहमजणं दे होदु ।
(सखि , सुखमज्जनं ते भवतु ।)
शकुन्तला — साअदं मे सहीणं । इदो णिसीदह ।
(स्वागतं मे सख्योः । इतो निषीदतम् ।)
उभे (मङ्गलपात्राप्यादाय । उपविश्य ।) — हला , सज्जा होहि । जाव मङ्गलसमालम्भणं विरएम ।
(हला , सज्जा भव । यावन्मङ्गलसमालम्भनं विरचयावः ।)
शकुन्तला — एदं पि बहु मन्तव्वं । दुल्लहं दाणिं मे सहीमण्डणं भविस्सदि त्ति ।
(इति बाष्पं विसृजति ।)
(एतदपि बहु मन्तव्यम् । दुर्लभमिदानीं मे सखीमण्डनं भविष्यतीति ।)
उभे — सहि , उइअं ण दे मङ्गलकाले रोइदुं ।
(इत्यश्रूणि प्रमृज्य नाट्येन प्रसाधयतः ।)
(सखि , उचितं न ते मङ्गलकाले रोदितुम् ।)
प्रियंवदा — आहरणोइदं रूवं अस्समसुलहेहिं पसाहणेहिं विप्पआरीअदि ।
(आभरणोचितं रूपमाश्रमसुलभैः प्रसाधनैर्विप्रकार्यते ।)
(प्रविश्योपायनहस्तौ ।)
ऋषिकुमारकौ — इदमलंकरणम् । अलंक्रियतामत्रभवती ।
(सर्वा विलोक्य विस्मिताः ।)
गौतमी — वच्छ णारअ , कुदो एदं ।
(वत्स नारद , कुत एतत् ।)
प्रथमः — तात काश्यपप्रभावात् ।
गौतमी — किं माणसी सिद्धी ।
(किं मानसी सिद्धिः ।)
द्वितीयः — न खलु । श्रूयताम् । तत्रभवता वयमाज्ञप्ताः शकुन्तलाहेतोर्वनस्पतिभ्यः कुसुमान्याहरतेति । तत इदानीं
क्षौमं केनचिदिन्दुपाण्डु तरुणा माङ्गल्यमाविष्कृतं
निष्ठयूतश्चरणोपभोगसुलभो लाक्षारसः केनचित् ।
अन्येभ्यो वनदेवताकरतलैरापर्वभागोत्थितै-
र्दत्तान्याभरणानि तत्किसलयोद्भेदप्रतिद्वन्द्विभिः ॥ ४ ॥
प्रियंवदा — हला , इमाए अब्भुववत्तीए सूहआ दे भत्तुणो गेहे अणुहोदव्वा राअलच्छित्ति ।
(हला , अनयाभ्युपपत्त्या सूचिता ते भर्तुर्गेहेऽनुभवितव्या राजलक्ष्मीरीति ।)
(शकुन्तला व्रीडां रूपयति ।)
प्रथमः — गौतम , एह्येहि । अभिषेकोत्तीर्णाय काश्यपाय वनस्पतिसेवां निवेदयावः ।
द्वितीयः — तथा ।
(इति निष्क्रान्तौ ।)
सख्यौ — अए , अणुवजुत्तभूसणो अअं जणो । चित्तकम्मपरिअएण असु दे आहरणविणिओअं करेम्ह ।
(अये , अनुपयुक्तभूषणोऽयं जनः । चित्रकर्मपरिचयेनाङ्गेषु ते आभरणविनियोगं कुर्वः ।)
शकुन्तला — जाणे वो णेउणं ।
(जाने वां नैपुणम् ।)
(उभे नाट्येनालंकुरुतः ।)
(ततः प्रविशति स्नानोत्तीर्णः काश्यपः ।)
काश्यपः —
यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया
कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् ।
वैक्लव्यं मम तावदीदृशमपि स्नेहादरण्यौकसः
पीड्यन्ते गृहिणः कथं न तनयाविश्लेषदुःखैर्नवैः ॥ ५ ॥
(इति परिक्रामति ।)
सख्यौ — हला सउन्दले अवसिदमण्डणासि । परिधेहि संपदं खोमजुअलं ।
(हला शकुन्तले , अवसितमण्डनासि । परिधत्स्व सांप्रतं क्षौमयुगलम् ।)
(शकुन्तलोत्थाय परिधत्ते ।)
गौतमी — जादे , एसो दे आणन्दपरिवाहिणा चक्खुणा परिस्सजन्तो विअ गुरू उवद्विदो । आआरं दाव पडिवज्जस्स ।
(जाते , एष त आनन्दपरिवाहिणा चक्षुषा परिष्वजमान इव गुरुरुपस्थितः । आचारं तावत्प्रतिपद्यस्व ।)
शकुन्तला (सव्रीडम् ।) — ताद , वन्दामि ।
(तात वन्दे ।)
काश्यपः — वत्से ,
ययातेरिव शर्मिष्ठा भर्तुर्बहुमता भव ।
सुतं त्वमपि सम्राजं सेव पूरुमवाप्नुहि ॥ ६ ॥
गौतमी — भअवं , वरो क्खु एसो ण आसिसा ।
(भगवन् , वरः खल्वेषो नाशीः ।)
काश्यपः — वत्से , इतः सद्योहुताग्नीन्प्रदक्षिणीकुरुष्व ।
[सर्वे परिक्रामन्ति ।]
काश्यपः (ऋक्छन्दसाशास्ते ।) —
अमी वेदिं परितः क्लृप्तधिष्ण्याः
समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः ।
अपघ्नन्तो दुरितं हव्यगन्धै-
र्वैतानास्त्वां वह्नयः पावयन्तु ॥ ७ ॥
प्रतिष्ठस्वेदानीम् । (सदृष्टिक्षेपम् ।) क्व ते शार्ङ्गरवमिश्राः ।
(प्रविश्य ।)
शिष्यः — भगवन् , इमे स्मः ।
काश्यपः — भगिन्यास्ते मार्गमादेशय ।
शार्ङ्गरवः — इत इतो भवती ।
(सर्वे परिक्रामन्ति ।)
काश्यपः — भो भोः संनिहितास्तपोवनतरवः ,
पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या
नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् ।
आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः
सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥ ८ ॥
(कोकिलरवं सूचयित्वा)
अनुमतगमना शकुन्तला
तरुभिरियं वनवासबन्धुभिः ।
परभृतविरुतं कलं यथा
प्रतिवचनीकृतमेभिरीदृशम् ॥ ९ ॥
(आकाशे ।)
रम्यान्तरः कमलिनीहरितैः सरोभि-
श्छायाद्रुमैर्नियमितार्कमयूखतापः ।
भूयात्कुशेशयरजोमृदुरेणुरस्याः
शान्तानुकूलपवनश्च शिवश्च पन्थाः ॥ १० ॥
(सर्वे सविस्मयमाकर्णयन्ति ।)
गौतमी — जादे , णादिजणसिणिद्धाहिं अणुण्णादगणासि तवोवणदेवदाहिं । पणम भअवदीणं ।
(जाते , ज्ञानिजनस्निग्धाभिरनुज्ञातगमनासि तपोवनदेवताभिः । प्रणम भगवतीभ्यः ।)
शकुन्तला (सप्रणामं परिक्रम्य । जनान्तिकम् ।) — हला पिअंवदे , णं अज्जउत्तदंसणुस्सुआए वि अस्समपदं परिञ्चअन्तीए दुक्खेण मे चलणा पुरदो पवट्टन्ति ।
(हला प्रियंवदे , नन्वार्यपुत्रदर्शनोत्सुकाया अप्याश्रमपदं परित्यजन्त्या दुःखेन मे चरणौ पुरतः प्रवर्तते ।)
प्रियंवदा — ण केवलं तवोवणविरहकादरा सही एव्व । तुए उवट्टीविओअस्स तवोवणस्स वि दाव समवत्था दीसह ।
(न केवलं तपोवनविरहकातरा सख्येव । त्वयोपस्थितवियोगस्य तपोवनस्यापि तावत्समवस्था दृश्यते ।)
उग्गलिअदब्भकवला मिआ परिञ्चत्तणञ्चणा मोरा ।
ओसरिअपण्डुपत्ता मुअन्ति अस्सू विअ लदाओ ॥ ११ ॥
उद्गलितदर्भकवला मृग्यः परित्यक्तनर्तना मयूराः ।
अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ॥
शकुन्तला (स्मृत्वा ।) — ताद , लदाबहिणिअं वणजोसिणिं दाव आमन्तइस्सं ।
(तात , लताभगिनीं वनज्योत्स्नां तावदामन्त्रयिष्ये ।)
काश्यपः — अवैमि ते तस्यां सोदर्यस्नेहम् । इयं तावद्दक्षिणेन ।
शकुन्तला (लतामुपेत्य ।) — वणजोसिणी , चूदसंगता वि मं पञ्चालिङ्ग इदोगदाहिं साहाबाहाहिं । अज्जप्पहुदि दूरपरिवत्तिणी दे खु भविस्सं ।
(वनज्योत्स्ने , चूतसंगतापि मां प्रत्यालिङ्गतोगताभिः शाखावाहाभिः । अद्यप्रभृति दूरपरिवर्तिनी ते खलु भविष्यामि ।)
काश्यपः —
संकल्पितं प्रथममेव मया तवार्थे
भर्तारमात्मसदृशं सुकृतैर्गता त्वम् ।
चूतेन संश्रितवती नवमालिकेय-
मस्यामहं त्वयि च संप्रति वीतचिन्तः ॥ १२ ॥
इतः पन्थानं प्रतिपद्यस्व ।
शकुन्तला (सख्यौ प्रति ।) — हला , एसा दुवेणं वो हत्थे णिक्खेवो ।
(हला , एषा द्वयोर्युवयोर्हस्ते निक्षेपः ।)
सख्यौ — अअं जणो कस्स हत्थे समप्पिदो ।
(इति बाष्पं विहरतः ।)
(अयं जनः कस्य हस्ते समर्पितः ।)
काश्यपः — अनसूये , अलं रुदित्वा । ननु भवतीभ्यामेव स्थिरीकर्तव्या शकुन्तला ।
(सर्वे परिक्रामन्ति ।)
शकुन्तला — ताद , एसा उडजपज्जन्तचारिणी गब्भमन्थरा मिअवहू जदा अणघप्पसवा होइ तदा मे कंपि पिअणिवेदइत्तअं विसज्जइस्सह ।
(तात एषोटजपर्यंतचारिणी गर्भमन्थरा मृगवधूर्यदानघप्रसवा भवति तदा मह्यं कमपि प्रियनिवेदयितृकं विसर्जयिष्यथ ।)
काश्यपः — नेदं विस्मरिष्यामः ।
काश्यपः — वत्से ,
यस्य त्वया व्रणविरोपणमिङ्गुदीनां
तैलं न्यषिच्यत मुखे कुशसूचिविद्धे ।
श्यामाकमुष्टिपरिवर्धितको जहाति
सोऽयं न पुत्रकृतकः पदवीं मृगस्ते ॥ १३ ॥
शकुन्तला (गतिभङ्गं रूपयित्वा ।) — को णु क्खु एसो णिवसणे मे सज्जइ ।
(इति परावर्तते ।)
(को नु खल्वेष निवसने मे सज्जते ।)
शकुन्तला — वच्छ , किं सहवासपरिञ्चइणिं मं अणुसरसि । अचिरप्पसूदाए जणणीए विणा वड्ढिदो एव्व । दाणिं पि मए विरहिदं तुमं तादो चिन्तइस्सदि । णिवत्तेहि दाव ।
(इति रुदती प्रस्थिता ।)
(वत्स , किं सहवासपरित्यागिनीं मामनुसरसि । अचिरप्रसूतया जनन्या विना वर्धित एव । इदानीमपि मया विरहितं त्वां तातश्चिन्तयिष्यति । निवर्तस्व तावत् ।)
काश्यपः —
उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं
बाष्पं कुरु स्थिरतया विरतानुबन्धम् ।
अस्मिन्नलक्षितनतोन्नतभूमिभागे
मार्गे पदानि खलु ते विषमीभवन्ति ॥ १४ ॥
शार्ङ्गरवः — भगवन् , ओदकान्तं स्निग्धो जनोऽनुगन्तव्य इति श्रूयते । तदिदं सरस्तीरम् । अत्र संदिश्य प्रतिगन्तुमर्हसि ।
काश्यपः — तेन हीमां क्षीरवृक्षच्छायामाश्रयामः ।
(सर्वे परिक्रम्य स्थिताः ।)
काश्यपः (आत्मगतम् ।) — किं नु खलु तत्रभवतो दुष्यन्तस्य युक्तरूपमस्माभिः संदेष्टव्यम् । (इति चिन्तयति ।)
शकुन्तला (जनान्तिकम् ।) — हला , पेक्ख । णलिणीपत्तन्तरिदं वि सहअरं अदेक्खन्ती आदुरा चक्कवाई आरडदि दुक्करं अहं करेमि त्ति ।
(हला , पश्य नलिनीपत्रान्तरितमपि सहचरमपश्यन्त्यातुरा चक्रवाक्यारौति दुष्करमहं करोमीति ।)
अनसूया — सहि , मा एव्वं मन्तेहि ।
(सखि , मा एवं मन्त्रयस्व ।)
एसा वि पिएण विणा गमेइ रअणिं विसाअदीहअरं ।
गरुअं पि विरहदुक्खं आसाबन्धो सहावेदि ॥ १५ ॥
(एषापि प्रियेण विना गमयत रजनीं विषाददीर्घतराम् ।
गुर्वपि विरहदुःखमाशाबन्धः साहयति ॥)
काश्यपः — शार्ङ्गरव , इति त्वया मद्वचनात्स राजा शकुन्तलां पुरस्कृत्य वक्तव्यः ।
शार्ङ्गरवः — आज्ञापयतु भवान् ।
काश्यपः —
अस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मन-
स्त्वय्यस्याः कथमध्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् ।
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया
भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥ १६ ॥
शार्ङ्गरवः — गृहीतः संदेशः ।
काश्यपः — वत्से , त्वमिदानीमनुशासनीयासि । वनौकसोऽपि सन्तो लौकिकज्ञा वयम् ।
शार्ङ्गरवः — न खलु धीमतां कश्चिदविषयो नाम ।
काश्यपः — सा त्वमितः पतिकुलं प्राप्य
शुश्रूषस्व गुरुन्कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥ १७ ॥
कथं वा गौतमी मन्यते ।
गौतमी — पत्तिओ वहूजणस्य उवदेसो । जादे , एदं क्खु सव्वं ओधारेहि ।
(एतावान्वधूजनस्योपदेशः । जाते , एतत्खलु सर्वमवधारय ।)
काश्यपः — वत्से , परिष्वजस्व मां सखीजनं च ।
शकुन्तला — ताद , इदो एव्व किं पिअंवदामिस्साओ सहीओ णिवत्तिस्सन्ति ।
(तात , इत एव किं प्रियंवदामिश्राः सख्यो निवर्तिष्यन्ते ।)
काश्यपः — इमे अपि प्रदेये । न युक्तमनयोस्तत्र गन्तुम् । त्वया सह गौतमी यास्यति ।
शकुन्तला (पितरमाश्लिष्य ।) — कहं दाणिं तादस्स अङ्कादो परिब्भट्ठा मलअतडुम्मूलिआ चन्दणलदा विअ दसन्तरे जीविअं धारइस्सं ।
(कथमिदानीं तातस्याङ्कात्परिभ्रष्टा मलयतटोन्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्ये ।)
काश्यपः — वत्से , किमेवं कातरासि ।
अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदे
विभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला ।
तनयमचिरात्प्राचीवार्कं प्रसूय च पावनं
मम विरहजां न त्वं वत्से शुचं गणयिष्यसि ॥ १८ ॥
(शकुन्तला पितुः पादयोः पतति ।)
काश्यपः — यदिच्छामि ते तदस्तु ।
शकुन्तला (सख्यावुपेत्य ।) — हला , दुवे वि मं समं एव्व परिस्सजह ।
(हला , द्वे अपि मां सममेव परिष्वजेथाम् ।)
सख्यौ (तथा कृत्वा ।) — सहि , जइ णाम सो राआ पञ्चहिण्णाणमन्थरो भवे तदो से इमं अत्तणामहेअङ्किअं अङ्गुलीअअं दंसेहि ।
(सखि , यदि नाम स राजा प्रत्यभिज्ञानमन्थरो भवेत्ततस्तस्येदमात्मनामधेयाङ्कितमङ्गुलीयकं दर्शय ।)
शकुन्तला — इमिणा संदेहेण वो आकम्पिदम्हि ।
(अनेन संदेहेन वामाकम्पितास्मि ।)
सख्यौ — मा भाआहि । अदिसिणेहो पावसङ्की ।
(मा भैषीः । अतिस्नेहः पापशङ्की ।)
शार्ङ्गरवः — युगान्तरमारूढः सविता । त्वरतामत्रभवती ।
शकुन्तला (आश्रमाभिमुखी स्थित्वा ।) — ताद , कदा णु भूओ तवोवणं पेक्खिस्सं ।
(तात , कदा नु भूयस्तपोवनं प्रेक्षिष्ये ।)
काश्यपः — श्रूयताम् ।
भूत्वा चिराय चतुरन्तमहीसपत्नी
दौष्यन्तमप्रतिरथं तनयं निवेश्य ।
भर्त्रा तदर्पितकुटुम्बभरणं सार्वं
शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् ॥ १९ ॥
गौतमी — जादे , परिहीअदि गमणवेला । णिवत्तेहि पिदरं । अहवा चिरेण वि पुणो पुणो एसा एवं मन्तइस्सदि । णिवत्तदु भवं ।
(जाते , परिहीयते गमनवेला । निवर्तय पितरम् । अथवा चिरेणापि पुनः पुनरेषैवं मन्त्रयिष्यते । निवर्ततां भवान् ।)
काश्यपः — वत्से , उपरुध्यते तपोऽनुष्ठानम् ।
शकुन्तला (भूयः पितरमाश्लिष्य ।) — तवच्चरणपीडिदं तादसरीरं । ता मा अदिमेत्तं मम किदे उक्कण्ठिदुम् ।
(तपश्चरणपीडितं तातशरीरम् । तन्मातिमात्रं मम कृत उत्कण्ठितुम् ।)
काश्यपः (सनिःश्वासम् ।) —
शममेष्यति मम शोकः कथं नु वत्से त्वया रचितपूर्वम् ।
उटजद्वारविरूढं नीवारबलिं विलोकयतः ॥ २० ॥
गच्छ । शिवास्ते पन्थानः सन्तु ।
(निष्क्रान्ता शकुन्तला सहयायिनथ ।)
सख्यौ (शकुन्तलां विलोक्य ।) — हद्धी हद्धी । अन्तरिहिदा सउन्दला वणराईए ।
(हा धिक् , हा धिक् । अन्तर्हिता शकुन्तला वनराज्या ।)
काश्यपः (सनिःश्वासम् ।) — अनसूये , गतवती वां सहधर्मचारिणी । निगृह्य शोकमनुगच्छतं मां प्रस्थितम् ।
उभे — ताद , सउन्दलाविरहिदं सुण्णं विअ तवोवणं कहं पविसामो ।
(तात , शकुन्तलाविरहितं शून्यमिव तपोवनं कथं प्रविशावः ।)
काश्यपः — स्नेहप्रवृत्तिरेवंदर्शिनी । (सविमर्शं परिक्रम्य ।) हन्त भोः , शकुन्तलां पतिकुलं विसृज्य लब्धमिदानीं स्वास्थ्यम् । कुतः
अर्थो हि कन्या परकीय एव
तामद्य संप्रेष्य परिग्रहीतुः ।
जातो ममायं विशदः प्रकामं
प्रत्यर्पितन्यास इवान्तरात्मा ॥ २१ ॥
(इति निष्क्रान्ताः सर्वे)
चतुर्थोऽङ्कः ।
Act 5
(ततः प्रविशत्यासनस्थो राजा विदूषकश्च ।)
विदूषकः — (कर्णं दत्त्वा ।) भो वअस्स , संगीदसालन्तरे अवधाणं देहि । कलविसुद्धाए गीदीए सरसंजोओ सुणीअदि । जाणे तत्तहोदी हंसवदिआ वण्णपरिअअं करेदि न्ति ।
(भो वयस्य , संगीतशालान्तरेऽवधानं देहि । कलविशुद्धाया गीतेः स्त्ररसंयोगः श्रूयते । जाने तत्रभवती हंसपदिका वर्णपरिचयं करोतीति ।)
राजा — तूष्णीं भव । यावदाकर्णयामि ।
(आकाशे गीयते ।)
अहिणवमहुलोलुवो तुमं
तह परिचुम्बिअ चूअमञ्जरिं ।
कमलवसइमेत्तणिव्वुदो
महुअर विम्हरिओ सि णं कहं ॥ १ ॥
अभिनवमधुलोलुपस्त्वं तथा परिचुम्ब्य चूतमञ्जरीम् ।
कमलवसतिमात्रनिर्वृतो मधुकर विस्मृतोऽस्येनां कथम् ॥
राजा — अहो रागपरिवाहिनी गीतिः ।
विदूषकः — किं दाव गीदीए अवगदो अक्खरत्थो ।
(किं तावद्गीत्या अवगतोऽक्षरार्थः ।)
राजा — (स्मितं कृत्वा ।) सकृत्कृतप्रणयोऽयं जनः । तदस्या देवीं वसुमतीमन्तरेण महदुपालम्भं गतोऽस्मि । सखे माठव्य , मद्वचनादुच्यतां हंसपदिका । निपुणमुपालब्धोऽस्मीति ।
विदूषकः — जं भवं आणवेदि । (उत्थाय ।) भो वअस्स , गहीदस्स ताए परकीएहिं हत्थोहिं सिहण्डए ताडीअमाणस्स अच्छराए वीदराअस्स विअ णत्थि दाणिं मे मोक्खो ।
(यद्भवानाज्ञापयति । भो वयस्य , गृहीतस्य तया परकीयैर्हस्तैः शिखण्डके ताड्यमानस्याप्सरसा वीतरागस्यैव नास्तीदानीं मे मोक्षः ।)
राजा — गच्छ । नागरिककृत्वा संज्ञापयैनाम् ।
विदूषकः — का गई ।
(इति निष्कान्तः ।) (का गतिः ।)
राजा — (आत्मगतम् ।) किं नु खलु गीतार्थमाकर्ण्येष्टजनविरहादृतेऽपि बलवदुत्कण्ठितोऽस्मि । अथवा ।
रम्याणि वीक्ष्य मधुराञ्च निशम्य शब्दा-
न्पर्युत्सुकीमवति यत्सुखितोऽपि जन्तुः ।
तश्चेतसा स्मरति नूनमबोधपूर्वे
भावस्थिराणि जननान्तरसौहृदानि ॥ २ ॥
(इति पर्याकुलस्तिष्ठति ।)
(ततः प्रविशति कञ्चुकी)
कञ्चुकी — अहो नु खल्वीदृशीमवस्थां प्रतिपन्नोऽस्मि ।
आचार इत्यवहितेन मया गृहीता
या वेत्रयष्टिरवरोधगृहेषु रामः ।
काले गते बहुतिथे मम सैव जाता
प्रस्थानविक्लवगतेरवलम्बनार्था ॥ ३ ॥
भोः , कामं धर्मकार्यमनतिपात्यं देवस्य । तथापीदानीमेव धर्मासनादुत्थिताय पुनरुपरोधकारि कम्पशिष्यागमनमस्मै नोत्सहे निवेदितुम् । अथवाविभ्रमोऽयं लोकतन्त्राधिकारः । कुतः ।
भानुः सकृद्युक्ततुरङ्ग एव
रात्रिंदिवं गन्धवहः प्रयाति ।
शेषः सदैवाहितभूमिभारः
षष्ठांशवृत्तेरपि धर्म एषः ॥ ४ ॥
यावन्नियोगमनुतिष्ठामि । (परिक्रम्यावलोक्य च ।) एष देवः
प्रजाः प्रजाः स्वा इव तन्त्रयित्वा
निषेवते श्रान्तमना विविक्तम् ।
यूथानि संचार्य रविप्रतप्तः
शीतं दिवा स्थानमिव द्विपेन्द्रः ॥ ५ ॥
(उपगम्य ।) जयतु जयतु देवः । एते खलु हिमगिरेरुपत्यकारण्यवासिनः काश्यपसंदेशमादाय सस्त्रीकास्तपस्विनः संप्राप्ताः । श्रुत्वा देवः प्रमाणम् ।
राजा — (सादरम् ।) किं काश्यपसंदेशहारिणः ।
कञ्चुकी — अथ किम् ।
राजा — तेन हि मद्वचनाद्विज्ञाप्यतामुपाध्यायः सोमरातः । अमूनाश्रमवासिनः श्रौतेन विधिना सत्कृत्य स्वयमेव प्रवेशयितुमर्हतीति । अहमप्यत्र तपस्विदर्शनोचिते प्रदेशे स्थितः प्रतिपालयामि ।
कञ्चुकी — यदाज्ञापयति देवः । (इति निष्कान्तः ।)
राजा — (उत्थाय ।) वेत्रवति , अग्निशरणमार्गमादेशय ।
प्रतीहारी — इदो इदो देवो ।
(इत इतो देवः ।)
राजा — (परिक्रामति । अधिकारखेदं निरूप्य ।) सर्वः प्रार्थितमर्थमधिगम्य सुखी संपद्यते जन्तुः । राज्ञां तु चरितार्थता दुःखोत्तरैव ।
औत्सुक्यमात्रमवसादयति प्रतिष्ठा
क्लिश्नाति लब्धपरिपालनवृत्तिरेव ।
नातिश्रमापनयनाय यथा श्रमाय
राज्यं स्वहस्तघृतदण्डमिवातपत्रम् ॥ ६ ॥
(नेपथ्ये ।)
वैतालिकौ — विजयतां देवः ।
प्रथमः —
स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः
प्रतिदिनमथवा ते वृत्तिरेवंविधैव ।
अनुभवति हि मूर्ध्ना पादपस्तीत्वमुष्णं
शमयति परितापं छायया संश्रितानाम् ॥ ७ ॥
द्वितीयः —
नियमयसि विमार्गप्रस्थितानात्तदण्डः
प्रशमयसि विवादं कल्पले रक्षणाय ।
अतनुषु विभवेषु ज्ञातयः सन्तु नाम
त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम् ॥ ८ ॥
राजा — एते क्लान्तमनसः पुनर्नवीकृताः स्मः । (इति परिक्रामति ।)
प्रतीहारी — अहिणवसम्मज्जससिरीओ सणिहिद होमधेणूअग्गिसरणालिन्दो | आरुहदु देवो ।
(अभिनवसंमार्जनसश्रीकः संनिहितहोमधेनुरग्निशरणालिन्दः । आरोहतु देवः ।)
राजा — (आरुह्य परिजनांसाबलम्बी तिष्ठति ।) वेत्रवति , किमुद्दिश्य भगवता काश्यपेन मत्सकाशमृषयः प्रेषिताः स्युः ।
किं तावद्धतिनामुपोढतपसां विघ्नैस्तपो दूषितं
धर्मारण्यचरेषु केनचिदुत प्राणिष्वसञ्चेष्टितम् ।
आहोस्वित्प्रसवो ममापचरितैर्विष्टम्भितो वीरुधा-
मित्यारूढबहुप्रतर्कमपरिच्छेदाकुलं मे मनः ॥ ९ ॥
प्रतीहारी — सुचरिदणन्दिणो इसीओ देवं सभाजइदुं आअदेत्ति तक्केमि ।
(सुचरितनन्दिन ऋषयो देवं सभाजयितुमागता इति तर्कयामि ।)
(ततः प्रविशन्ति गौतमीसहिताः शकुन्तलां पुरस्कृत्य मुनयः ।)
[ पुरश्चैषां कञ्चुकी पुरोहितश्च । ]
कञ्चुकी — इत इतो भवन्तः ।
शार्ङ्गरवः — शारद्वत ,
महाभागः कामं नरपतिरभिन्नस्थितिरसौ
न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते ।
तथापीदं शश्वत्परिचितविविक्तेन मनसां
जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव ॥ १० ॥
शारद्वतः — स्थाने भवाम्पुरप्रवेशादित्थंभूतः संवृत्तः । अहमपि
अभ्यक्तमिव स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् ।
बद्धमिव स्वैरगतिर्जनमिह सुखसङ्गिनमवैमि ॥ ११ ॥
शकुन्तला — (निमित्तं सूचयित्वा ।) अम्महे , किं मे वामेदरं अणं विप्फुरदि ।
(अहो , किं मे वामेतरन्नयनं विस्फुरति ।)
गौतमी — जादे पडिहदं अमङ्गलं । सुहाइं दे भत्तुकुलदेवदावो वितरन्दु ।
(इति परिक्रामति ।) (जाते , प्रतिहतममङ्गलम् । सुखानि ते भर्तृकुलदेवता वितरन्तु ।)
पुरोहितः — (राजानं निर्दिश्य ।) भो भोस्तपस्विनः असावत्रभवान्वर्णाश्रमाणां रक्षिता प्रागेव मुक्तासनो वः प्रतिपालयति । पश्यतैनम् ।
शार्ङ्गरवः — भो महाब्राह्मण , काममेतदभिनन्दनीयम् । तथापि वयमत्र मध्यस्थाः । कुतः ।
भवन्ति नम्रास्तरवः फलागमै-
र्नवाम्बुभिर्भूरिविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः
स्वभाव एवैष परोपकारिणाम् ॥ १२ ॥
प्रतीहारी — देव , पसण्णमुहवण्णा दीसन्ति । जाणामि वीसद्धकजा इसीओ ।
(देव प्रसन्नमुखवर्णा दृश्यन्ते । जानामि विश्रब्धकार्या ऋषयः ।)
राजा — (शकुन्तलां दृष्ट्वा ।) अथात्रभवती
कास्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या ।
मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ॥ १३ ॥
प्रतीहारी — देव , कुदुहलगब्भोपहिदो ण मे तक्को पसरदि । णं दंसणीआ उण से आकिदी लक्खीअदि ।
(देव , कुतूहलगर्भोपहितो न मे तर्कः प्रसरति । ननु दर्शनीया पुनरस्या आकृतिर्लक्ष्यते ।)
राजा — भवतु । अनिर्वर्णनीयं परकलत्रम् ।
शकुन्तला — (हस्तमुरसि कृत्वा । आत्मगतम्) हिअअ, किं एव्वं वेवसि । अज्जउत्तस्स भावं ओधारिअ धीरं दाव होहि ।
(हृदय , किमेवं वेपसे । आर्यपुत्रस्य भावमवधार्य श्रीरं तावद्भव ।)
पुरोहितः — (पुरो गत्वा ।) एते विधिवदर्चितास्तपस्विनः । अस्ति कश्चिदेषामुपाध्यायसंदेशः । तं देवः श्रोतुमर्हति ।
राजा — अवहितोऽस्मि ।
ऋषयः — (हस्तानुद्यम्य) विजयस्व राजन् ।
राजा — सवानभिवादये ।
ऋषयः — इष्टेन युज्यस्व ।
राजा — अपि निर्विघ्नतपसो मुनयः ।
ऋषयः —
कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि ।
तमस्तपति धर्मांशौ कथमाविर्भविष्यति ॥ १४ ॥
राजा — अर्थवान्खलु मे राजशब्दः । अथ भगवांल्लोकानुग्रहाय कुशली काश्यपः ।
ऋषयः — स्वाधीनकुशलाः सिद्धिमन्तः । स भवन्तमनामयप्रश्नपूर्वकमिदमाह ।
राजा — किमाज्ञापयति भगवान् ।
शार्ङ्गरवः — यन्मिथः समयादिमां मदीयां दुहितरं भवानुपायंस्ततन्मया प्रीतिमता युवयोरनुज्ञातम् । कुतः ।
त्वमर्हतां प्राग्रसरः स्मृतोऽसि नः
शकुन्तला मूर्तिमती च सत्क्रिया ।
समानयंस्तुल्यगुणं वधूवरं
चिरस्य वाच्यं न गतः प्रजापतिः ॥ १५ ॥
तदिदानीमापन्नसत्त्वा प्रतिगृह्यतां सहधर्मचरणायेति ।
गौतमी — अज्ज , किंपि वत्तकामम्हि वत्तुकामम्हि । ण ण मे वअणावसरो अत्थि । कहंन्ति ।
(आर्य , किमपि वक्तुकामास्मि । न मे वचनावसरोस्ति । कथमिति ।)
णावेक्खिओ गुरुअणो इमीअ ण तुप वि पुच्छिदो बन्धू ।
एक्कक्कमेव्व चरिए भणामि किं एकमेक्कस्स ॥ १६ ॥
(नापेक्षितो गुरुजनोऽनया न त्वयापि पृष्टो बन्धुः ।
एकैकमेव चरिते भणामि किमेकैकम् ।)
शकुन्तला — (आत्मगतम् ।) किं णु क्खु अज्जउत्तो भणादि ।
(किं नु खल्वार्यपुत्रो भणति ।)
राजा — किमिदमुपन्यस्तम् ।
शकुन्तला — (आत्मगतम् ।) पावओ क्खु एसो वअणोवण्णासो ।
(पादकः खल्वेष वचनोपन्यासः ।)
शार्ङ्गरवः — कथमिदं नाम । भवन्त एव सुतरां लोकवृत्तान्तनिष्णाताः ।
सतीमपि ज्ञातिकुलैकसंश्रयां
जनोऽन्यथा भर्तृमतीं विशङ्कते ।
अतः समीपे परिणेतुरिष्यते
तदप्रियापि प्रमदा स्वबन्धुभिः ॥ १७ ॥
राजा — किं चात्रभवती मया परिणीतपूर्वा ।
शकुन्तला — (सविषादम् । आत्मगतम् ।) हिअअ संपदं दे आसङ्का ।
(हृदय , सांप्रतं त आशङ्का ।)
शार्ङ्गरवः —
किं कृतकार्यद्वेषाद्धर्मं प्रति विमुखतोचिता राज्ञ: ।
राजा — कुतोऽयमसत्कल्पनाप्रश्नः ।
शार्ङ्गरवः —
मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु ॥ १८ ॥
राजा — विशेषेणाधिक्षिप्तोऽस्मि ।
गौतमी — जादे , मुहुत्तअं मा लज्ज । अवणइस्सं दाव दे ओउण्ठणं । तदो तुमं भट्टा अहिजाणिस्सदि ।
(इति यथोक्तं करोति ।) (जाते , मुहूर्तं मा लज्जस्व । अपनेष्यामि तावत्तेऽवगुण्ठनम् । ततस्त्वां भर्ताभिज्ञास्यति ।)
राजा — (शकुन्तलां निर्वर्ण्य । आत्मगतम् ।)
इदमुपनतमेवं रूपमक्लिष्टकान्ति
प्रथमपरिगृहीतं स्यान्न वेत्यव्यवस्यन् ।
भ्रमर इव विभाते कुन्दमन्तस्तुषारं
न खलु च परिभोक्तुं नैव शक्नोमि हातुम् ॥ १९ ॥
(इति विचारयन् स्थितः ।)
प्रतीहारी — अहो धम्मावेक्खिदा भट्टिणो । इदिसं णाम सुहोवणदं रूवं देक्खिअ को अण्णो विआरेदि ।
(अहो धर्मांपेक्षिता भर्तुः । ईदृशं नाम मुखोपनतं रूपं दृष्ट्वा कोऽन्यो विचारयति ।)
शार्ङ्गरवः — भो राजन् , किमिति जोषमास्यते ।
राजा — भोस्तपोधनाः , चिन्तयन्नपि न खलु स्वीकरणमत्रभवत्याः स्मरामि । तत्कथमिमामभिव्यक्तसत्त्वलक्षणां प्रत्यात्मानं क्षेत्रिणमाशङ्कमानः प्रतिपत्स्ये ।
शकुन्तला — (अपवार्य ।) अज्जस्स परिणए एव्व संदेहो । कुदो दाणिं मे दूराहिरोहिणी आसा ।
(आर्यस्य परिणय एव संदेहः । कुत इदानीं मे दूराधिरोहिण्याशा ।)
शार्ङ्गरवः — मा तावत्
कृताभिमर्शामनुमन्यमानः
सुतां त्वया नाम मुनिर्विमान्यः ।
मुष्टं प्रतिग्राहयता स्वमर्थं
पात्रीकृतो दस्युरिवासि येन ॥ २० ॥
शारद्वतः — शार्ङ्गरव , विरम त्वमिदानीम् । शकुन्तले , वक्तव्यमुक्तमस्माभिः । सोऽयमत्र भवानेवमाह । दीयतामस्मै प्रत्ययप्रतिवचनम् ।
शकुन्तला — (अपवार्य ।) इमं अवत्थन्तरं गदे तारिसे अणुराए किं वा सुमराविदेण । अत्ता दाणिं मे सोअणीओ त्ति ववसिदं पदं ।
(प्रकाशम्) अज्जउत्त , (इत्यर्धोक्ते ।) संसइदे दाणिं परिणए ण एसो समुदाआरो । पोरव , ण जुत्तं णाम दे तह पुरा अस्समपदे सहावृत्ताणहिअअं इमं जणं समअपुव्वं पतारिअ ईदिसेहिं अक्खरेहिं पञ्चाचक्खिदुं ।
(इदमवस्थान्तरं गते तादृशेऽनुरागे कि वा स्मारितेन । आत्मदानीं मे शोचनीय इति व्यवसितमेतत् । आर्यपुत्र । संशयित इदानीं परिणये नैष समुदाचारः । पौरव , न युक्तं नाम ते तथा पुराश्रमपदे स्वभावोत्तानहृदयमिमं जनं समयपूर्व प्रतार्येदृशैरक्षरैः प्रत्याख्यातुम् ।)
राजा — (कर्णौ पिधाय ।) शान्तं पापम् ।
व्यपदेशमाविलयितुं किमीहसे जनमिमं च पातयितुम् ।
कूलंकषेव सिन्धुः प्रसन्नमम्भस्तटतरुं च ॥ २१ ॥
शकुन्तला — होदु । जइ परमत्थदो परपरिग्गहसङ्किणा तुए एव्वं पउत्तं ता अहिण्णाणेण इमिणा तुह आसङ्कं अवणइस्सं ।
(भवतु । यदि परमार्थतः परपरिग्रहशङ्किना त्वयैवं प्रवृत्तं तदभिज्ञानेनानेन तवाशङ्कामपनेष्यामि ।)
राजा — उदारः कल्पः ।
शकुन्तला — (मुद्रास्थानं परामृश्य) हद्धी । अङ्गुलीअअसुण्णा मे अङ्गुली ।
(इति सविषादं गौतमीमवेक्षते ।) (हा धिक् । अङ्गुलीयकशून्या मेऽङ्गुलिः ।)
गौतमी — णूणं दे सक्कावदारब्भन्तरे सचीतित्थसलिलं वन्दमाणाए पब्भट्टं अङ्गुलीअअं ।
(नूनं ते शक्रावताराभ्यन्तरे शचीतीर्थसलिलं वन्दमानायाः प्रभ्रष्टमङ्गुलीयकम् ।)
राजा — (सस्मितम् ।) इदं तत्प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते ।
शकुन्तला — एत्थ दाव विहिणा दंसिदं पहुत्तणं । अवरं दे कहिस्सं ।
(अत्र तावद्विधिना दर्शितं प्रभुत्वम् । अपरं ते कथयिष्यामि ।)
राजा — श्रोतव्यमिदानीं संवृत्तम् ।
शकुन्तला — णं एक्कस्सिं दिअहे णोमालिआमण्डवे णलिणीपत्तभाअणगदं उदअं तुह हत्थे संणिहिदं आसि ।
(नन्वेकस्मिन्दिवसे नवमालिका मण्डपे नलिनीपत्रभाजनगतमुदकं तव हस्ते संनिहितमासीत् ।)
राजा — शृणुमस्तावत् ।
शकुन्तला — तक्खणं सो मे पुत्तकिदओ दीहापङ्गो णाम मिअपोदओ उवट्ठिओ । तुए अअं दाव पढमं पिअउ ति अणुअम्पिणा उवच्छन्दिदो उअएण । ण उण दे अपरिचआदो हत्थब्भासं उगवदो | पच्छा तस्सिं एव्व मए गहिदे सलिले णेण किदो पणओ । तदा तुमं इत्थं पहसिदो सि । सव्वो सगन्धेसु विस्ससदि । दुवेवि एत्थ आरण्णआ ति ।
(तत्क्षणे स मे पुत्रकृतको दीर्घापाङ्गो नाम मृगपोतक उपस्थितः । त्वयायं तावत्प्रथमं पिबत्वित्यनुकम्पिनोपच्छन्दित उदकेन । न पुनस्तेऽपरिचयाद्धस्ताभ्याशमुपगतः । पश्चात्तस्मिन्नेव मया गृहीते सलिलेऽनेन कृतः प्रणयः । तदा त्वमित्थं प्रहसितोऽसि । सर्वः सगन्धेषु विश्वसिति । द्वावप्यत्रारण्यकाविति ।)
राजा — एवमादिभिरात्मकार्यनिर्वर्तिनीनामनृतमयवाङ्ग्मधुभिराकृष्यन्ते विषयिणः ।
गौतमी — महाभाअ , ण अरुहसि एव्वं मन्तिदुं । तवोवणसंवड्ढिदो अणभिष्णो अअं जणो कइदवस्स ।
(महाभाग , नार्हस्येवं मन्त्रयितुम् । तपोवनसंवर्धितोऽनभिज्ञ्योयं जनः कैतवस्य ।)
राजा — तापसवृद्धे,
स्त्रीणामशिक्षितपटुत्वममानुषीषु
संदृश्यते किमुत याः प्रतिबोधवत्यः ।
प्रागन्तरिक्षगमनात्स्वमपत्यजात-
मन्यैर्द्विजैः परभृताः खलु पोषयन्ति ॥ २२ ॥
शकुन्तला — (सरोषम् ।) अणज्ज , अत्तणो हिअआणुमाणेण पेक्खसि । को दाणिं अण्णो धम्मकञ्चुअप्पवेसिणो तिणच्छण्णकूवोवमस्स तव अणुकिदिं पडिवदिस्सदि ।
(अनार्य , आत्मनो हृदयानुमानेन पश्यसि । क इदानीमन्यो धर्मकञ्चुकप्रवेशिनस्तृणच्छन्नकूपोपमस्य तवानुकृतिं प्रतिपत्स्यते ।)
राजा — (आत्मगतम् ।) संदिग्धबुद्धिं मां कुर्वन्नकैतव इवास्याः कोपो लक्ष्यते । तथा ह्यनया
मय्येव विस्मरणदारुणचित्तवृत्तौ
वृत्तं रहः प्रणयमप्रतिपद्यमाने ।
भेदाद्भुवोः कुटिलयोरतिलोहिताक्ष्या
भग्नं शरासनमिवातिरुषा स्मरस्य ॥ २३ ॥
(प्रकाशम् ।) भद्रे , प्रथितं दुष्यन्तस्य चरितम् । तथापीदं न लक्षये ।
शकुन्तला — सुट्ठु दाव अ सच्छन्दचारिणी किदम्हि जा अहं इमस्स पुरुवंसप्पञ्चएण मुहमहुणो हिअअट्ठिअविसस्स हत्थब्भासं उवगदा । (इति पटान्तेन मुखमावृत्य रोदिति ।)
(सुष्ठु तावदत्र स्वच्छन्दचारिणी कृतास्मि याहमस्य पुरुवंशप्रत्ययेन मुखमधोर्हृदयस्थितविषस्य हस्ताभ्याशमुपगता ।)
शार्ङ्गरवः — इत्थमामकृतत्मप्रतिहतं चापलं दहति ।
अतः परीक्ष्य कर्तव्यं विशेषात्संगतं रहः ।
अज्ञातहृदयेयेष्वेवं वैरीभवति सौहृदम् ॥ २४ ॥
राजा — अयि भोः , किमत्रभवतीप्रत्ययादेवास्मान्संभृतदोषैः क्षिणुथ ।
शार्ङ्गरवः — (सासूयम् ।) श्रुतं भवद्भिरधरोत्तरम् ।
आ जन्मनः शाठ्यंमशिक्षितो य-
स्तस्याप्रमाणं वचनं जनस्य ।
परातिसंधानमधीयते यै-
र्विद्येति ते सन्तु किलाप्तवाचः ॥ २५ ॥
राजा — भोः सत्यवादिन् , अभ्युपगतं तावदस्माभिरेवम् । किं पुनरिमामतिसंधाय लभ्यते ।
शार्ङ्गरवः — विनिपातः ।
राजा — विनिपातः पौरवैः प्रार्थ्यत इति न श्रद्धेयम् ।
शारद्वतः — शार्ङ्गरव , किमुत्तरेण । अनुष्ठितो गुरोः संदेशः । प्रतिनिवर्तामहे वयम् । (राजानं प्रति ।)
तदेषा भवतः कान्ता त्यज वैनां गृहाण वा ।
उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी ॥ २६ ॥
गौतमी , गच्छाग्रतः । (इति प्रस्थिताः)
शकुन्तला — कहं इमिणा किदवेण विप्पलद्ध म्हि । तुम्हे वि मं परिञ्चअध | (इत्यनुप्रतिष्ठते ।)
(कथमनेन कितवेन विप्रलब्धास्मि । यूयमपि मां परित्यजथ |)
गौतमी — (स्थित्वा) वच्छ सङ्गरव , अनुगच्छदि इअं क्खु जो करुणपरिदेविणी सउन्दला । पञ्चादेसपरुसे भत्तरि किं वा मे पुत्तिआ करेदु ।
(वत्स शार्ङ्गरव , अनुगच्छतीयं खलु नः करुणपरिदेविनी शकुन्तला । प्रत्यादेशपरुषे भर्तरि किं वा मे पुत्रिका करोतु ।)
शार्ङ्गरवः — (सरोषं निवृत्य) किं पुरोभागिनि , स्वातन्त्र्यमवलम्बसे ।
(शकुन्तला भीता वेपते ।)
शार्ङ्गरवः — शकुन्तले ,
यदि यथा वदति क्षितिपस्तथा
त्वमसि किं पितुरुत्कुलया त्वया ।
अथ तु वेत्सि शुचि व्रतमात्मनः
पतिकुले तव दास्यमपि क्षमम् ॥ २७ ॥
तिष्ठ । साधयामो वयम् ।
राजा — भोस्तपस्विन् , किमत्रभवतीं विप्रलभसे । कुतः
कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव ।
वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखो वृत्तिः ॥ २८ ॥
शार्ङ्गरवः — यदा तु पूर्ववृत्तमन्यसङ्गाद्विस्मृतो भवांस्तदा कथमधर्मभीरुः ।
राजा — भवन्तमेवात्र गुरुलाघवं पृच्छामि ।
मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये
दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांसुलः ॥ २९ ॥
पुरोहितः — (विचार्य) यदि तावदेवं क्रियताम् ।
राजा — अनुशास्तु मां भवान् ।
पुरोहितः — अत्रभवती तावदाप्रसवादस्मद्गृहे तिष्ठतु । कुत इदमुच्यत इति चेत् । त्वं साधुभिरुद्दिष्टः प्रथममेव चक्रवर्तिनं पुत्रं जनयिष्यसीति । स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नो भविष्यति , अभिनन्द्य शुद्धान्तमेनां प्रवेशयिष्यसि । विपर्यये तु पितुरस्याः समीपनयनमवस्थितमेव ।
राजा — यथा गुरुभ्यो रोचते ।
पुरोहितः — वत्से , अनुगच्छ माम् ।
शकुन्तला — भअवदि वसुहे , देहि मे विवरं ।
(भगवति वसुधे , देहि मे विवरम् ।) (इति रुदती प्रस्थिता । निष्क्रान्ता सह पुरोधसा , तपस्विभिश्च)
(राजा शापव्यवहितस्मृतिः शकुन्तलागतमेव चिन्तयति ।)
(नेपथ्ये ।)
आश्चर्यम् ।
राजा — (आकर्ण्य) किं नु खलु स्यात् ।
(प्रविश्य ।)
पुरोहितः — (सविस्मयम् ।) देव , अद्भुत खलु संवृत्तम् ।
राजा — किमिव ।
पुरोहितः — देव , परावृत्तेषु कण्वशिष्येषु
सा निन्दन्ती स्वानि भाग्यानि बाला
बाहुत्क्षेपं क्रन्दिन्तुं च प्रवृत्ता ।
राजा — किं च ।
पुरोहितः —
स्त्रीसंस्थानं चाप्सरस्तीर्थमारा-
दुक्षिप्यैनां ज्योतिरेकं जगाम ॥ ३० ॥
(सर्वे विस्मयं रूपयन्ति ।)
राजा — भगवन् प्रागपि सोऽस्माभिरर्थः प्रत्यादिष्ट एव । किं वृथा तर्केणान्विष्यते । विश्राम्यतु भवान् ।
पुरोहितः — (विलोक्य ।) विजयस्व । (इति निष्कान्तः ।)
राजा — वेत्रवति , पर्याकुलोऽस्मि । शयनभूमिमार्गमादेशय ।
प्रतीहारी — इदो इदो देवो ।
(इत इतो देवः ।) (इति प्रस्थितः ।)
राजा —
कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् ।
बलवत्तु दूयमानं प्रत्याययतीव मां हृदयम् ॥ ३१ ॥
(इति निष्क्रान्ताः सर्वे ।)
पञ्चमोऽङ्कः ।
Act 6
षष्ठोऽङ्कः।
( ततः प्रविशति नागरिकः श्यालः पश्चाद्वद्धपुरुषमादाय रक्षिणौ च । )
रक्षिणौ — (ताडयित्वा ।) अले कुम्भिलआ , कहेहि कहिं तुए एशे मणिबन्धणुकिण्णणामहेए लाअकीए अङ्गुलीअए शमाशादिए । (अरे कुम्भिलक, कथय कुत्र त्वयैतन्मणिबन्धनोत्कीर्णनामधेय राजकीयमङ्गुलीयकं समासादितम् ।)
पुरुषः — (भीतिनाटितकेन ।) पशीदन्तु भावमिश्शे । हगे णईदिशकम्मकाली । (प्रसीदन्तु भावमिश्राः । अहं नेदृशकर्मकारी ।)
प्रथमः — किं खु शोहणे बम्हणेत्ति कलिअ लण्णा पडिग्गहे दिण्णे । (किं खलु शोभनो ब्राह्मण इति कृत्वा राज्ञा प्रतिग्रहो दत्तः ।)
पुरुषः — शुणध दाणिं । हगे शक्कावदालब्भन्तलवाशी धीवले । (श्रृणुतेदानीम् । अहं शकावताराभ्यन्तरवासी धीवरः ।)
द्वितीयः — पाडच्चला , किं अम्हेहिं जादी पुच्छिदा । (पाटच्चर , किमस्माभिर्जातिः पृष्टा ।)
श्यालः — सूअअ , कहेदु सव्वं अणुक्रमेण । मा णं अन्तरा पडिबन्धह । (सूचक , कथयतु सर्वमनुक्रमेण । मैनमन्तरे प्रतिबन्धय ।)
उभौ — जं आवुत्ते आणवेदि । कहेहि । (यदांवुत्त आज्ञापयति । कथय ।)
पुरुषः — अहके जालुग्गालादीहिं मच्छवन्धणोवाएहिं कुडुम्बभलणं कलेमि । (अहं जालोद्गालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि ।)
श्यालः — (विहस्य ।) विसुद्धो दाणिं आजीवो । (विशुद्ध इदानीमाजीवः ।)
सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम् ।
पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः ॥ १ ॥
श्यालः — तदो तदो । (ततस्ततः ।)
पुरुषः — एक्करिंश दिअशे खण्डशो लोहिअमच्छे मए कप्पिदे जाव तश्श उदलब्भन्तले एदं लदणभाशुलं अङ्गुलीअअं देक्खिजं । पच्छा अहके शे विक्कआअ दंशअन्ते गहिदे भावमिश्शेहिं । मालेह वा मुञ्चेह वा । अअं शे आश्रमवुत्तन्ते । (एकस्मिन्दिवसे खण्डशो रोहितमत्स्यो मया कल्पितो यावत् तस्योदराभ्यन्तर इदं रत्नभासुरमङ्गुलीयं दृष्टम् । पश्चादहं तस्य विक्रयाय दर्शयन्गृहीतो भावमित्रैः । मारयत वा मुश्चत वा । अयमस्यागमवृत्तान्तः ।)
श्यालः — जाणुअ , विस्सगन्धी गोहादी मच्छबन्धो एव्व णिस्संसअं । अङ्गुलीअअदंसणं से विमरिसिदव्वं । राउलं एवगच्छामो । (जानुक , विस्रगन्धी गोधादी मत्स्यबन्ध एव निःसंशयम् । अङ्गुलीयक-दर्शनमस्य विमर्शयितव्यम् । राजकुलमेव गच्छामः ।)
रक्षिणौ — तह । गच्छ अले गण्ठिभेदअ । (तथा । गच्छ अरे ग्रन्थिभेदक ।)
( सर्वे परिक्रामन्ति । )
श्यालः — सूअअ , इमं पुरदुआरे अप्पमत्ता पडिवालह । जाव इमं अङ्गुलीअअं जहागमणं भट्टिणो णिवेदिअ तदो सासणं पडिच्छिअ णिक्कमामि । (सूचक , इमं पुरद्वारेऽप्रमत्तौ प्रतिपालयतम् । यावदिदमङ्गुलीयकं यथागमनं भर्तुर्निवेद्य ततः शासनं प्रतीक्ष्य निष्क्रमामि ।)
उभौ — पविशदु आवुत्ते शामिपशादश्श । (प्रविशत्वावुत्तः स्वामिप्रसादाय ।)
( इति निष्क्रान्तः श्यालः । )
प्रथमः — जाणुअ , चिलाअदि क्खु आवुत्ते । (जानुक , चिरायते खल्वावुत्तः ।)
द्वितीयः — णं अवशलोवशप्पणीआ लाआणो । (नन्ववसरोपसर्पणीया राजानः ।)
प्रथमः — जाणुअ , फुलन्ति मे हत्था इमश वज्झश्श शुमणो पिणद्धुं । (इति पुरुषं निर्दिशति ।) (जानुक , स्फुरतो मम हस्तावस्य वध्यस्य सुमनसः पिनद्धुम् ।)
पुरुषः — ण अलुहदि भावे अकालणमालणे भविदुं । (नार्हति भावोऽकारणमारणो भवितुम् ।)
द्वितीयः — (विलोक्य ।) एशे अम्हाणं शामी पत्तहत्थे लाअशाशणं पडिच्छिअ इदोमुहे देक्खीअदि । गिद्धबली भविश्शशि । शुणो मुहं वा देक्खिश्शशि । (एष नौ स्वामी पत्रहस्तो राजशासनं प्रतीक्ष्येतोमुखो दृश्यते । गृध्रबलिर्भविष्यसि , शुनो मुखं वा द्रक्ष्यसि ।)
( प्रविश्य । )
श्यालः — सूअअ , मुञ्चेदु एसो जालोअजीवी । उववण्णो स्खु अङ्गुलीअस्स आअमो । (सूचक , मुच्यतामेष जालोपजीवी । उपपन्नः खल्वङ्गुलीयस्यागमः ।)
सूचकः — जह आवुत्ते भणादि । (यथावुत्तो भणति ।)
द्वितीयः — एशे जमशदणं पविशिअ पडिणिवुत्ते । (इति पुरुषं परिमुक्तबन्धनं करोति ।) (एष यमसदनं प्रविश्य प्रतिनिवृत्तः ।)
पुरुषः — (श्यालं प्रणम्य ।) भट्टा , अथ कीलिशे मे आजीवे । (भर्तः , अथ कीदृशो मे आजीवः ।)
श्यालः — एसो भट्टिणा अङ्गुलीअअमुल्लसम्मिदो पसादो वि दाविदो । (इति पुरुषायार्थं प्रयच्छति ।) (एष भर्त्राङ्गुलीयकमूल्य समितःप्रसादोऽपि दापितः ।)
पुरुषः — (सप्रणामं प्रतिगृह्य ।) भट्टा , अणुग्गहीदम्हि । (भर्तः , अनुगृहीतोऽस्मि ।)
सूचकः — एशेणाम अणुग्गहिदे जे शूलादो अवदालिअ हत्थिक्खन्धे पडिट्ठाविदे । (एष नामानुगृहीतो यच्छूलादवतार्य हस्तिस्कन्धे प्रतिष्ठापितः ।)
जानुकः — आवृत्त , पालिदोशिअं कहेदि तेण अङ्गुलीएण भट्टिणो शम्मदेण होदव्वं । (आवृत्त , पारितोषिकं कथयति तेनाङ्गुलीयकेन भर्तुः संमतेन भवितव्यम् ।)
श्यालः — ण तस्सिं महारुहं रदणं भट्टिणो बहुमदं त्ति तक्केमि । तस्स दंसणेण भट्टिणो अभिमदो जणो सुमराविदो । मुहुत्तअं पकिदिगम्भीरो वि पज्जुसुअणअणो आसि । (न तस्मिन्महार्ह रत्नं भर्तुर्बहुमतमिति तर्कयामि । तस्य दर्शनेन भर्तुरभिमतो जनः स्मारितः । मुहूर्त प्रकृतिगम्भीरोऽपि पर्युत्सुकनयन आसीत् ।)
सूचकः — शेविदं णाम आवृत्तेण । (सेवितं नामावुत्तेन ।)
जानुकः — णं भणाहि । इमश्श कए मच्छिआभन्तुणोति । (इति पुरुषमसूयया पश्यति ।) (ननु भण । अस्य कृते मात्स्यिकभर्तुरिति ।)
पुरुषः — भट्टालके , इदो अद्धं तुम्हाणं शुमणोमुलं होदु । (भहारक , इतोऽर्थं युष्माकं सुमनोमूल्यं भवतु ।)
जानुकः — एत्तके जुज्जई । (एतावद्युज्यते ।)
श्यालः — धीवर , महत्तरो तुमं पिअवअस्सओ दाणि मे संवृत्तो । कादम्बरीसक्खिअं अम्हाणं पढमसोहिदं इच्छीअदि । ता सोण्डआपणं एव्व गच्छामो । (धीवर , महत्तरस्त्वं प्रियवयस्यक इदानीं मेसंवृत्तः । कादम्बरीसाक्षिकमस्माकं प्रथमसौ हृदमिष्यते । तच्छौण्डिकापणमेव गच्छामः ।)
( इति निष्क्रान्ताः सर्वे । )
प्रवेशकः ।
( ततः प्रविशत्याकाशयानेन सानुमती नामाप्सराः । )
सानुमती — णिव्वत्तिदं मए पज्जा अणिग्वत्तणिज्जं अच्छरातित्थसण्णिज्झं जाव साहुजणस्स अभिसेअकालो त्ति । संपदं इमस्स राएसिणो उदन्तं पच्चक्खिकरिस्सं । णं मेणआसंबन्धे सरीरभूदा मे सउन्दला । ताए अ दुहिदुणिमित्तं आदिट्ठपुव्वम्हि । (समन्तादवलोक्य ।) किं णु क्खु उदुच्छवे वि णिरुच्छवारम्भं विअ राअउलं दीसइ । अत्थि मे विहवो पणिधाणेण सव्वं परिण्णादुं । किंदु सहीए आदरो मए माणइदव्वो । होदु । इमाणं एव्व उज्जाणपालिआणं तिरक्खरिणीपडिच्छण्णा पस्सवत्तिणी भविअ उवलहिस्स । (इति नाट्येनावतीर्य स्थिता ।) (निर्वर्तितं मया पर्याय-निर्वर्तनीयमप्सरस्तीर्थसांनिध्यं यावत्साधुजनस्याभिषेककाल इति । सांप्रतमस्य राजर्षेरुदन्तं प्रत्यक्षीकरिष्यामि । ननु मेनकासंबन्धेन शरीरभूता मेशकुन्तला । तथा च दुहितृनिमित्तमादिष्टपूर्वास्मि । किं नु खलु ऋतूत्सवेऽपि निरुत्सवारम्भमिव राजकुलं दृश्यते । अस्ति मे विभवः प्रणिधानेन सर्वं परिज्ञातुम् । किं तु सख्या आदरो मया मानयितव्यः । भवतु । अनयोरेवोद्यानपालिकयोस्तिरस्करिणीप्रतिच्छन्ना पार्श्ववर्तिनी भूत्वोपलस्ये ।)
( ततः प्रविशति चूताङ्कुर मवलोयन्ती चेटी । अपरा च पृष्ठतस्तस्याः । )
आताम्रहरितपाण्डुर वसन्तमासस्य जीवसर्वस्व ।
दृष्टोऽसि चूतकोरक ऋतुमङ्गल त्वां प्रसादयामि ॥ २ ॥
द्वितीया — परहुदिए , किं एआइणी मन्तेसि । (परभृतिके , किमेकाकिनी मन्त्रयसे ।)
प्रथमा — महुअरिए चूदकलिअं देक्खिअ उम्मत्तिआ परहुदिआ होदि । (मधुकरिके , चूतकलिकां दृष्ट्वोन्मत्ता परभृतिका भवति ।)
द्वितीया — (सहर्ष त्वरयोगपम्य ।) कहं उवठ्ठिदो महुमासो । (कथमुपस्थितो मधुमासः ।)
प्रथमा — महुअरिए , तव दाणिं कालो एसो मदविब्भमगीदाण । (मधुकरिके , तवेदानीं काल एष मदविभ्रमगीतानाम् ।)
द्वितीया — सहि, अवलम्ब मं । जाव अग्गपादट्ठिआ भविअ चूदकलिअं गेव्हिअ कामदेवश्चणं करेमि । (सखी, अवलम्बस्व मां यावदग्रपादस्थिता भूत्वा चूतकलिकां गृहीत्वा कामंदेवार्चनं करोमि ।)
प्रथमा — जइ मम वि क्खु अद्धं अच्चणफलस्स । (यदि ममापि खल्वर्धमर्चनफलस्य ।)
द्वितीया — अकहिदे वि एदं संपज्जइ जदो एक्कं एव्व णो जीविदं दुधा द्विदं सरीरं । (सखीमवलम्ब्य स्थिता चूताङ्कुरं गृह्णाति ।) अए , अप्पडिबुद्धो वि चूदप्पसवो एत्थ बन्धणभङ्गसुरभी होदि । (कपोतहस्तकं कृत्वा ।) (अकथितेऽप्येतत्संपद्यते यत एकमेव नौ जीवितं द्विधा स्थितं शरीरम् । अये , अप्रतिबुद्धोऽपि चूतप्रसवोऽत्र बन्धनभङ्गसुरभिर्भवति ।)
त्वमसि मया चूताङ्कुर दत्तः कामाय गृहीतधनुषे ।
पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिकः शरो भव ॥ ३ ॥
( इति चूताङ्कुरं क्षिपति । )
( प्रविश्यापटीक्षेपेण कुपितः )
कञ्चुकी — मा तावत् । अनात्मज्ञे , देवेन प्रतिषिद्धे वसन्तोत्सवे त्वमाम्म्रकलिकाभङ्ग किमारभसे ।
उभे — (भीते) पसीददु अज्जो । अग्गहीदत्थाओ अम्हे । (प्रसीदत्वार्यः । अगृहीतार्थे आवाम् ।)
कञ्चुकी — न किल श्रुतं युवाभ्यां यद्वासन्तिकैस्तरुभिरपि देवस्य शासनं प्रमाणीकृतं तदाश्रयिभिः पत्रिभिश्च । तथाहि
चूतानां चिरनिर्गतापि कलिका बध्नाति न स्वं रजः
संनद्धं यदपि स्थितं कुरबकं तत्कोरकावस्थया ।
कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानां रुतं
शङ्के संहरति स्मरोऽपि चकितस्तूणार्धकृष्टं शरम् ॥ ४ ॥
उभे — णत्थि संदेहो । महाप्पहावो राएसी । (नास्ति संदेहः । महाप्रभावो राजर्षिः ।)
प्रथमा — अज्ज कदि दिअहाइं अम्हाणं मित्तावसुणा रट्ठिएण भट्टिणो पाअमूलं पेसिदाणं । इत्थं अ णो पमदवणस्स पालणकम्म समप्पिदं । ता आअन्तुअदाए अस्सुदपुब्वो अम्देहिं एसो वुत्तन्तो । (आर्य , कति दिवसान्यावयोर्मित्रावसुना राष्ट्रीयेण भर्तुः पादमूलं प्रेषितयोः । इत्थं च नौ प्रमदवनस्य पालनकर्म समर्पितम् । तदागन्तुकतयाश्रुतपूर्व आवाभ्यामेष वृत्तान्तः ।)
कञ्चुकी — भवतु । न पुनरेवं प्रवर्तितव्यम् ।
उभे — अज्ज , कोदूहलं णो । जदि इमिणा जणेण सोदव्वं कहेदु भवं किंणिमित्तं भट्टिणा वसन्तुस्सवो पडिसिद्धो । (आर्य , कौतूहलं नौ । यद्यनेन जनेन श्रोतव्यं कथयतु भवान् किंनिमित्तं भर्त्रा वसन्तोत्सवः प्रतिषिद्धः ।)
सानुमती — उस्सवप्पिआ क्खु मणुस्सा । गुरणा कारणेण होदव्वं । (उत्सवप्रियाः खलु मनुष्याः । गुरुणा कारणेन भवितव्यम् ।)
कञ्चुकी — बहुलीभूतमेतत्किं न कथ्यते । किमत्रभवत्योः कर्णपंथ नायातं शकुन्तलाप्रत्यादेशकौलीनम् ।
उभे — सुदं रट्टिअमुहादो जाव अङ्गुलीअअदंसणं । (श्रुतं राष्ट्रीय मुखाद्यावदङ्गुलीयकदर्शनम् ।)
कञ्चुकी — तेन ह्यल्पं कथयितव्यम् । यदैव खलु स्वाङ्गुलीयकदर्शनादनुस्मृतं देवेन सत्यमूढपूर्वा मे तत्रभवती रहसि शकुन्तला मोहात्प्रत्यादिष्टेति । तदाप्रभृत्येव पश्चात्तापमुपगतो देवः । तथाहि ।
रम्यं द्वेष्टि यथापुरा प्रकृतिभिर्न प्रत्यहं सेव्यते
शय्याप्रान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः ।
दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा
गोत्रेषु स्खलितस्तदा भवति च व्रीडाविलक्षश्चिरम् ॥ ५ ॥
सानुमती — पिअं मे । (प्रियं मे ।)
कञ्चुकी — अस्मात्प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातः ।
उभे — जुज्जइ । (युज्यते ।)
( नेपथ्ये । )
एदु एदु भवं । (एतुं एतु भवान् ।)
कञ्चुकी — (कर्ण दत्त्वा ।) अये , इत एवाभिवर्तते देवः । स्वकमनुष्ठीयताम् ।
उभे — तह । (इति निष्क्रान्ते) (तथा ।)
( ततः प्रविशति पश्चात्तापसदृशवेषो राजा विदूषकः प्रतीहारी च । )
कञ्चुकी — (राजानमवलोक्य ।) अहो सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषाणाम् । एवमुत्सुकोऽपि प्रियदर्शनो देवः । तथाहि ।
प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठार्पितं
बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः ।
चिन्ताजागरणप्रताम्रनयनस्तेजोगुणादात्मनः
संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते ॥ ६ ॥
सानुमती — (राजानं दृष्ट्वा ।) ठाणे क्खु पश्चादेसविमाणिदा वि इमस्स किदे सउन्दला किलम्मदि । (स्थाने खलु प्रत्यादेशविमानिताप्यस्य कृते शकुन्तला क्लाम्यति)
राजा — (ध्यानमन्दं परिक्रम्य ।)
प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम् ।
अनुशयदुःखायेदं हतहृदयं संप्रति विबुद्धम् ॥ ७ ॥
सानुमती — णं ईदिसाणि तवस्सिणीए भाअहेआणि । (नन्वीदृशानि तपस्विन्या भागधेयानि ।)
विदूषकः — (अपवार्य ।) लङ्घिदो एसो भूओ वि सउन्दलावाहिणा । ण आणे कहं चिकिच्छिदव्वो भविस्सदि त्ति ।
कञ्चुकी — (उपगम्य ।) जयतु जयतु देवः । महाराज , प्रत्यवेक्षिताः प्रमदवनभूमयः । यथाकाममध्यास्तां विनोदस्थानानि महाराजः ।
राजा — वेत्रवति , मद्वचनादमात्यमार्यपिशनुं ब्रूहि । चिरप्रबोधान्न संभावितमस्माभिरद्य धर्मासनमध्यासितुम् । यत्प्रत्यवेक्षितं पौरकार्यमार्येण तत्पत्रमारोप्य दीयतामिति ।
प्रतीहारी — जं देवो आणवेदि । (इति निष्कान्ता ।) (यद्देव आज्ञापयति ।)
राजा — वातायन , त्वमपि स्वं नियोगमशून्यं कुरु ।
कञ्चुकी — यदाज्ञापयति देवः । (इति निष्कान्तः ।)
विदूषकः — किदं भवदा णिम्मच्छिअं । संपदं सिसिरातवच्छेअरमणीए इमस्सिं पमदवणुद्दे से अत्ताणं रमइस्ससि । (कृतं भवता निर्मक्षिकम् । सांप्रतं शिशिरातपच्छेदरमणीयेऽस्मिन्प्रमदवनोद्देश आत्मानं रमयिष्यसि ।)
राजा — वयस्य , रन्ध्रोपनिपतिनो ऽनर्था इति यदुच्यते तद्व्यभिचारि वचः । कुतः ।
मुनिसुताप्रणयस्मृतिरोधिना
मम च मुक्तमिदं तमसा मनः ।
मनसिजेन सखे प्रहरिष्यता
धनुषि चूतशरच निवेशितः ॥ ८ ॥
विदूषकः — चिट्ठ दाव । इमिणा दैण्डकट्ठेण कन्दप्पवाणं णासइस्सामि । (इति दण्डकाष्ठमुद्यम्य चूताङ्कुरं पातयितुमिच्छति ।) (तिष्ठ तावत् । अनेन दण्डकाष्टेन कन्दर्पबाणं नाशयिष्यामि ।)
राजा — (सस्मितम् ।) भवतु । दृष्टं ब्रह्मवर्चसम् । सखे , क्वोपविष्टः प्रियायाः किंचिदनुकारिणीषु लतासु दृष्टिं विलोभयामि ।
विदूषकः — णं आसण्णपरिआरिआ चदुरिआ भवदा संदिट्ठा । माहवीमण्डवे इमं वलं अदिवाहिस्सं । तहिं मे चित्तफलअगदं सहत्थलिहिदं तत्तहोदीए सउन्दलाए पडिकिदिं आणेहिति । (नन्वासनपरिचारिका चतुरिका भवता संदिष्टा । माधवीमण्डप इमां वेलामतिवाहयिष्ये । तत्र मे चित्रफलकगतां स्वहस्तलिखितां तत्रभवत्याः शाकुन्तलायाः प्रतिकृतिमानयेति ।)
राजा — ईदृशं हृदयविनोदस्थानम् । तन्तमेव मार्गमादेशय ।
विदूषकः — इदो इदो भवं । (इत इतो भवान् ।)
( उभौ परिक्रामतः । सानुमत्यनुगच्छति । )
विदूषकः — एसो मणिसिलापट्टअसणाहो माहवीमण्डवो उबहाररमणिज्जदार णिस्संसअं साअदेण विअ णो पडिच्छदि । ता पविसिअ णिसीददु भवं । (एष मणिशिलापट्टकसनाथो माधवीमण्डप उपहाररमणीयतया निःसंशयं स्वागतेनेव नौ प्रतीच्छति । तत्प्रविश्य निषीदतु भवान् ।)
( उभौ प्रवेशं कृत्वोपविष्टौ । )
सानुमती — लदासंस्सिदा देक्खिस्सं दाव सहीए पडिकिदिं । तदो से भत्तुणो बहुमुहं अणुराअं णिवेदइस्सं । (इति तथा कृत्वा स्थिता ।) (लतासंश्रिता द्रक्ष्यामि तावत्सख्याः प्रतिकृतिम् । ततोऽस्या भर्तुर्बहुमुखमनुरागं निवेदयिष्यामि ।)
राजा — सखे, सर्वमिदानीं स्मरामि शकुन्तलायाः प्रथमवृत्तान्तम् । कथितवानस्मि भवते च । स भवान्प्रत्यादेशवेलायां मत्समीपगतो नासीत् । पूर्वमपि न त्वया कदाचित्संकीर्तितं तत्रभवत्या नाम । कश्चिदहमिव विस्मृतवानसि त्वम् ।
विदूषकः — ण विसुमरामि । किंतु सव्वं कहिअ अवसाणे उण तुए परिहासविअप्पओ एसो ण भूदत्थोत्ति आचक्खिदं । मए वि मिप्पिण्डबुद्धिणा तह एव्व गहीदं । अहवा भविदव्वदाक्खु बलवदी । (न विस्मरामि । किंतु सर्वं कथयित्वावसाने पुनस्त्वया परिहासविजल्प एष न भूतार्थ इत्याख्यातम् । मयापि मृत्पिण्डबुद्धिना तथैव गृहीतम् । अथवा भवितव्यता खलु बलवती ।)
सानुमती — एव्वं णेदं । (एवमेवैतत् ।)
राजा — (ध्यात्वा ।) सखे , त्रायस्व माम् ।
विदूषकः — भो, किं एदं । अणुववण्णं क्खु ईदिसं तुइ । कदा वि सप्पुरिसा सोअपत्तप्पाणो ण होन्ति । णं पवादे वि णिक्कम्पा गिरीओ । (भोः , किमेतत् । अनुपपन्नं खल्वीदृशं त्वयि । कदापि सत्पुरुषा शोकपात्रात्मानो न भवन्ति । ननु प्रवातेऽपि निष्कम्पा गिरयः ।)
राजा — वयस्य, निराकरणविक्लवायाः प्रियायाः समवस्थामनुस्मृत्य बलवदशरणोऽस्मि । सा हि
इतः प्रत्यादेशात्स्वजनमनुगन्तुं व्यवसिता
मुहस्तिष्ठेत्युश्चैर्वदति गुरुशिष्ये गुरुसमे ।
पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती
मयि क्रूरे यत्तत्सविषमिव शल्यं दहति माम् ॥ ९ ॥
सानुमती — अम्महे । ईदिसी सकज्जपरदा । इमस्स संदावेण अहं रमामि । (अहो । ईदृशी स्वकार्यपरता । अस्य संतापेनाहं रमे ।)
विदूषकः — भो, अत्थि मे तक्को । केण वि तत्तद्दोदी आआसचारिणा णीदेत्ति । (भोः , अस्ति मे तर्कः । केनापि तत्रभवत्याकाशचारिणा नीतेति ।)
राजा — कः पतिदेवतामन्यः परामर्हुमुत्सहेत । मेनका किल सख्यास्ते जन्मप्रतिष्ठेति श्रुतवानस्मि । तत्सहचारिणीभिः सखी ते हृतेति मे हृदयमाशङ्कते ।
सानुमती — संमोहो क्खु विम्हअणिज्जो ण पडिबोहो । (संमोहः खलु विस्मयनीयो न प्रतिबोधः ।)
विदूषकः — जइ एव्वं अत्थि क्खु समाअमो कालेण तत्तहोदीए । (यद्यעवमस्ति खलु समागमः कालेन तत्रभवत्या ।)
राजा — कथमित्र ।
विदूषकः — ण क्खु मादापिदरा भत्तुविओअदुक्खिदं दुहिदरं देक्खिदुं पारेन्ति । (न खलु मातापितरौ भर्तृवियोगदुःखितां दुहितरं द्रष्टुं पारयतः ।)
राजा — वयस्य ,
स्वप्नो नु माया नु मतिभ्रमो नु
क्लिष्टं नु तावत्फलमेव पुण्यम् ।
असंनिवृत्त्यै तदतीतमव
मनोरथा नाम तटप्रपाताः ॥ १० ॥
विदूषकः — मा एवं । णं अङ्गुलीअअं एव्व णिदंसणं अवस्संभावी अचिन्तणिज्जो समाअमो होदि ति । (मैवम् । नन्वङ्गुलीयकमेव निदर्शनमवश्यंभाव्यचिन्तनीयः समागमो भवतीति ।)
राजा — (अङ्गुलीयकं विलोक्य ।) अये , इदं तावदसुलभस्थानभ्रंशि शोचनीयम् ।
तव सुचरितमङ्गुलीय नूनं
प्रतनु ममेव विभात्र्यते फलेन ।
अरुणनखमनोहरासु तस्या-
श्चयुतमसि लब्धपदं यदङ्गुलीषु ॥ ११ ॥
सानुमती — जइ अण्णहत्थगदं भवे सच्चं एव्व सोअणिजं भवे । (यद्यन्यहस्तगतं भवेत्सत्यमेव शोचनीयं भवेत् ।)
विदूषकः — भो , इअं णाममुद्दा केण उग्घदेण तत्तद्दोदीप हत्यसंसग्गं पाविदा । (भोः , इयं नाममुद्रा केनोद्धातेन तत्रभवत्या हस्तसंसर्ग प्रापिता ।)
सानुमती — मम वि कोदूहलेण आआरिदो एसो । (ममापि कौतूहलेनाकारित एषः ।)
राजा — श्रूयताम् । स्वनगराय प्रस्थितं मां प्रिया सबाष्पमाह । कियच्चिरेणार्यपुत्रः प्रतिपत्तिं दास्यतीति ।
विदूषकः — तदो तदो । (ततस्ततः ।)
राजा — पञ्चादिमां मुद्रां तदङ्गुलौ निवेशयता मया प्रत्यभिहिता ।
एकैकमत्र दिवसे दिवसे मदीयं
नामाक्षरं गणय गच्छसि यावदन्तम् ।
तावत्प्रिये मदवरोधगृहप्रवेशं
नेता जनस्तव समीपमुपैष्यतीति ॥ १२ ॥
तच्च दारुणात्मना मया मोहान्नानुष्ठितम् ।
सानुमती — रमणीओ क्खु अवही विहिणा विसंवादिदो । (रमणीयः खल्ववधिर्विधिना विसंवादितः ।)
विदूषकः — कहं धीवलकप्पिअस्स लोहिअमच्छस्स उदलब्भन्तले आसि । (कथं धीवरकल्पितस्य रोहितमत्स्यस्योदराभ्यन्तर आसीत् ।)
राजा — शचीतीर्थं वन्दमानायाः सख्यास्ते हस्ताद्गङ्गास्रोतसि परिभ्रष्टम् ।
विदूषकः — जुज्जइ । (युज्यते ।)
सानुमती — अदो एव्व तवस्सिणीए सउन्दलाए अधम्मभीरुणो इमस्स राएसिणो परिणए संदेहो आसि । अहवा ईदिसो अणुराओ अहिण्णाणं अवेक्खदि । कहं विम एदं । (अत एव तपस्विन्याः शकुतलाया अधर्मभीरोरस्य राजर्षेः परिणये संदेह आसीत् । अथवेदृशोऽनुरागोऽभिज्ञानमपेक्षते । कथमिवैतत् ।)
राजा — उपालप्स्ये तावदिदमङ्गुलीयकम् ।
विदूषकः — (आत्मगतम् ।) गहीदो णेण पन्था उम्मत्तआणं । (गृहीतोऽनेन पन्था उन्मत्तानाम् ।)
राजा —
कथं नु तं बन्धुरकोमलाङ्गुलिं
करं विहायासि निमग्नमम्भसि ।
अथवा ।
अचेतनं नाम गुणं न लक्षये-
न्मयैव कस्मादवधीरिता प्रिया ॥ १३ ॥
विदूषकः — (आत्मगतम् ।) कहं बुभुक्खाए खादिदव्वो म्हि । (कथं बुभुक्षया खादितव्योऽस्मि ।)
राजा — अकारणपरित्यक्ते अनुशयतप्तहृदयस्तावदनुकंम्प्यतामयं जनः पुनर्दशनेन ।
( प्रविश्यापटीक्षेपेण चित्रफलकहस्ता )
चतुरिका — इअं चित्तगदा भट्टिणी । (इति चित्रफलकं दर्शयति ।) (इयं चित्रगता भट्टिनी ।)
विदूषकः — साहु वअस्स , महुरावत्थाणदंसणिजो भावाणुप्पवेसो । क्खलदि विअ मे दिट्ठी णिण्णुण्णअप्पदेसेसु । (साधु वयस्य , मधुरावस्थानदर्शनीयो भावानुप्रवेशः । स्खलतीव मे दृष्टिर्निम्नोन्नतप्रदेशेषु ।)
सानुमती — अम्मो एसा राएसिणो णिउणदा । जाणे सही अग्गदो मे वट्टदित्ति । (अहो एषा राजर्षेनिपुणता । जाने सख्यग्रतो मे वर्तत इति ।)
राजा —
यद्यत्साधु न चित्रे स्यात्क्रियते तत्तदन्यथा ।
तथापि तस्या लावण्यं रेखया किंचिदन्वितम् ॥ १४ ॥
सानुमती — सरिसं एदं पच्छादावगुरुणो सिणेहस्स अणवलेवस्स अ । (सदृशमेतत्पश्चात्तापगुरोः स्नेहस्यानवलेपस्य च ।)
विदूषकः — भो , दाणिं तिण्णि तत्थहोदीओ दीसन्ति । सव्वाओ अ दंसणीआओ । कदमा इत्थ तत्तहोदी सउन्दला । (भोः , इदानीं तिस्रस्तत्रभवत्यो दृश्यन्ते । सर्वाश्च दर्शनीयाः । कतमात्र तत्रभवती शकुन्तला ।)
सानुमती — अणभिण्णो क्खु ईदिसस्स वस्स मोहदिट्ठी अअं जणो । (अनभिज्ञः खल्वीदृशस्य रूपस्य मोघदृष्टिरयं जनः ।)
राजा — त्वं तावत्कतमां तर्कयसि ।
विदूषकः — तक्केमि जा एसा सिढिलकेसबन्धणुव्वन्तकुसुमेण केसन्तेण उब्भिण्णसेअबिन्दुणा वअणेण विसेसदो ओसरीआहिं बाहाहिं अवसेअसिणिद्धतरुणपल्लवस्स चूअपाअवस्स पासे इसिपरिस्सन्ता विअ आलिहिदा सा सउन्दला । इदराओ सहीओत्ति । (तर्कयामि यैषा शिथिलकेशबन्धनोद्वान्तकुसुमेन केशान्तेनोद्भिन्नस्वेदबिन्दुना वदनेन विशेषतोऽपसृताभ्यां बाहुभ्यामवसेकस्निग्धतरुणपल्लवस्य चूतपादपस्य पार्श्व ईषत्परिश्रान्तेवालिखिता सा शकुन्तला । इतरे सख्याविति ।)
राजा — निपुणो भवान् । अस्त्यत्र मे भावचिह्नम् ।
स्विन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः ।
अश्रु च कपोलपतितं दृश्यमिदं वर्तिकोच्छ्वासात् ॥ १५ ॥
चतुरिके , अर्धलिखितमेतद्विनोदस्थानम् । गच्छ । वर्तिकां तावदानय ।
चतुरिका — अज माठव्व , अवलम्ब चित्तफलअं जाव आअच्छामि । (आर्य माठव्य , अवलम्बस्व चित्रफलकं यावदागच्छामि ।)
राजा — अहमेवैतदवलम्बे । (इति यथोक्तं करोति ।)
( निष्क्रान्ता चेटी । )
राजा — अहं हि
साक्षात्प्रियामुपगतामपहाय पूर्व
चित्रार्पितां पुनरिमां बहु मन्यमानः ।
स्त्रोतोवहां पथि निकामजलामतीत्य
जातः सखे प्रणयवान्मृगतृष्णिकायाम् ॥ १६ ॥
विदूषकः — (आत्मगतम् ।) एसो अत्तभवं णदिं अदिक्कमिअ मिअतिण्हिआं संकन्तो । (प्रकाशम् ।) भो , अवरं किं एत्थ लिहिदव्वं । (एषोत्रभवान्नदीमतिक्रम्य मृगतृष्णिकां संक्रान्तः । भोः , अपरं किमत्र लिखितव्यम् ।)
सानुमती — जो जो पदसो सहीए मे अहिरूवो तं तं आलिहिदुकामो भवे । (यो यः प्रदेशः सख्या मेऽभिरूपस्तं तमालिखितुकामो भवेत् ।)
राजा — श्रूयताम् ।
कार्या सैकतलीनहंसमिथुना स्त्रोतोवहा मालिनी
पादास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः ।
शाखालम्बितवल्कलस्य च तरोर्निर्मातुमिच्छाम्यधः
शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥ १७ ॥
विदूषकः — (आत्मगतम् ।) जह अहं देक्खामि पूरिदव्वं णेण चित्तफलअं लम्बकुचाणं तावसाणं कदम्बेहिं । (यथाहं पश्यामि पूरितव्यमनेन चित्रफलकं लम्बकूर्चानां तापसानां कदम्बैः ।)
राजा — वयस्य , अन्यभ्य शकुन्तलायाः प्रसाधनमभिप्रेतं विस्मृतमस्माभिः ।
विदूषकः — किं विअ । (किमिव ।)
सानुमती — वणवासस्स सो उमारस्स अ जं सरिसं भविस्सदि । (वनवासस्य सौकुमार्यस्य च यत्सदृशं भविष्यति ।)
राजा —
कृतं न कर्णार्पितबन्धनं सखे
शिरीषमागण्डविलम्बिकेसरम् ।
न वा शरश्चन्द्र मरीचिकोमलं
मृणालसूत्रं रचितं स्तनान्तरे ॥ १८ ॥
विदूषकः — भो , किं णु तत्तहोदी रत्तकुवलअपल्लवसोहिणा अग्गहत्थेण मुहं आवारिअ चइदचइदा विअ ठिआ । (सावधानं निरूप्य दृष्ट्वा ।) आ , एसो दासीए पुत्तो कुसुमरसपाडच्चरो तत्सहोदीप वअणं अहिलङ्घदि महुअरो । (भोः , किं नु तत्रभवती रक्तकुवलयपल्लवशोभिनाग्रहस्तेन मुखमावार्य चकितचकितेव स्थिता । आः , एष दास्याः पुत्रः कुसुम रसपटच्चरस्तत्रभवत्या वदनमभिलङ्घति मधुकरः ।)
राजा — ननु वार्यतामेष घृष्टः ।
विदूषकः — भवं एव्व अविणीदाणं सासिदा इमस्स वारणे पहविस्सदि । (भवानेवाविनीतानां शासितास्य वारणे प्रभविष्यति ।)
राजा — युज्यते । अयि भोः , कुसुमलताप्रियातिथे , किमत्र परिपतनखेदमनुभवसि ।
एषा कुसुमनिषण्णा तृषितापि सती भवन्तमनुरक्ता ।
प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति ॥ १९ ॥
सानुमती — अज्ज अभिजादं क्खु एसो वारिदो । (अद्याभिजातं खल्वेष वारितः ।)
विदूषकः — पडिसिद्धा वि वामा एसा जादी । (प्रतिषिद्धापि वामैषा जातिः ।)
राजा — एवं भोः , न मे शासने तिष्ठसि । श्रूयतां तर्हि संप्रति ।
अक्लिष्टबालतरुपल्लवलोभनीयं
पीतं मया सदयमेव रतोत्सवेषु ।
बिम्बाधरं स्पृशसि चेभ्द्रमरप्रियाया-
स्त्वां कारयामि कमलोदरबन्धनस्थम् ॥ २० ॥
विदूषकः — एव्वं तिक्खदण्डस्स किं ण भाइस्सदि । (प्रहस्य । आत्मगतम् ।) एदो दाव उम्मत्तो । अहं पि पदस्स सङ्गेण ईदिसवण्णो विअ संवुत्तो । (प्रकाशम् ।) भो , चित्तं क्खु एदं । (एवं तीक्ष्णदण्डस्य किं न भेष्यति । एष तावदुन्मत्तः । अहमप्येतस्य सङ्गेनेदृशवर्ण इव संवृत्तः । भोः , चित्रं खल्ヴェतत् ।)
राजा — कथं चित्रम् ।
सानुमती — अहं पि दाणिं अणवगदत्था , किं उण जहालिहिदाणुभावी एसो । (अहमपीदानीमनवगतार्था , किं पुनर्यथालिखितानुभाव्येषः ।)
राजा — वयस्य , किमिदमनुष्ठितं पौरोभाग्यम् ।
दर्शनसुखमनुभवतः साक्षादिव तन्मयेन हृदयेन ।
स्मृतिकारिणा त्वयां मे पुनरपि चित्रीकृता कान्ता ॥ २१ ॥
( इति बाष्पं विहरति । )
सानुमती — पुव्वावरविरोही अपुव्वो एसो विरहमग्गो । (पूर्वापरविरोध्यपूर्व एष विरहमार्गः ।)
राजा — वयस्य , कथमेवमविश्रान्त दुःखमनुभवामि ।
प्रजागरात्खिलीभूतस्तस्याः स्वप्ने समागमः ।
बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि ॥ २२ ॥
सानुमती — सव्वहा पमज्जिदं तुए पश्चादेसदुक्खं सउन्दलाए । (सर्वथा प्रमार्जितं त्वया प्रत्यादेशदुःखं शकुन्तलायाः ।)
( प्रविश्य । )
चतुरिका — जेदु जेदु भट्टा । वट्टिआकरण्डअं गेण्हिअ इदोमुहं पत्थिदम्हि । (जयतु जयतु भर्ता । वर्तिकाकरण्डकं गृहीत्वेतोमुखं प्रस्थितास्मि ।)
राजा — किं च ।
चतुरिका — सो मे हत्थादो अन्तरा तरलिआदुदीआए देवीए वसुमदीप अहं अज्जउत्तस्स उवणइस्सं त्ति सबलक्कारं गहीदो । (स मे हस्तादन्तरा तरलिकाद्वितीयया देवी वसुमत्याहमेवार्यपुत्रस्योपनेष्यामीति सबलात्कारं गृहीतः ।)
विदूषकः — दिट्ठिआ तुमं मुक्का । (दिष्टया त्वं मुक्ता ।)
चतुरिका — जाव देवीए विडवलग्गं उत्तरीअं तरलिआ मोचेदि ताव मए णिव्वाहिदो अत्ता । (यावद्देव्या विटपलममुत्तरीयं तरलिका मोचयति तावन्मया निर्वाहित आत्मा ।)
राजा — वयस्य , उपस्थिता देवी बहुमानगर्विता च भवानिमां प्रतिकृतिं रक्षतु ।
विदूषकः — अत्ताणं त्ति भणाहि । (चित्रफलकमादायोत्थाय च ।) जइ भवं अन्तेउरकालकूडादो मुञ्चीअदि तदो मं मेहप्पडिच्छन्दे पासादे सहावेहि । (इति द्रुतपदं निष्क्रान्तः ।) (आत्मानमिति भण । यदि भवानन्तःपुरकालकूटान्मोक्ष्यते तदा मां मेघप्रतिच्छन्दे प्रासादे शब्दापय ।)
सानुमती — अण्णसंकन्तहिअओ वि पढमसंभावणं अवेक्खदि । सिढिलसोहदो दाणिं एसो । (अन्यसंक्रान्तहृदयोऽपि प्रथमसंभावनामपेक्षते । शिथिलसौहार्द इदानीमेषः ।)
( प्रविश्य पत्रहस्ता । )
प्रतीहारी — जेदु जेदु देवो । (जयतु जयतु देवः ।)
राजा — वेत्रवति , न खल्वन्तरा दृष्टा त्वया देवी ।
प्रतीहारी — अह इं । पत्तहत्थं मं देक्खिअ पडिणिउत्ता । (अथ किम् । पत्रहस्तां मां प्रेक्ष्य प्रतिनिवृत्ता ।)
राजा — कार्यशा कार्योपरोधं मे परिहरति ।
प्रतीहारी — देव , अमच्चो विण्णवेदि । अत्थजादस्स गणणाबहुलदाए एक्कं एव्व पोरकज्जं अवेक्खिदं तं देवो पत्तारूढं पच्चक्खीकरेदु त्ति । (देव , अमात्यो विज्ञापयति । अर्थजातस्य गणनाबहुलतयैकमेव पौरकार्यमवेक्षितं तद्देवः पत्रारूढं प्रत्यक्षीकरोत्विति ।)
राजा — इतः पत्रिकां दर्शय ।
( प्रतीहार्युपनयति । )
राजा — (अनुवाच्य ।) कथम् । समुद्रव्यवहारी सार्थवाहो धनमित्रो नाम नौव्यसने विपन्नः । अनपत्यच किल तपस्वी । राजगामी तस्यार्थसंचय इत्येतदमात्येन लिखितम् । (सविषादम् ।) कष्टं खल्वनपत्यता । बहुधनत्वाद्बहुपत्नीकेन तत्रभवता भवितव्यम् । विचार्यतां यदि काचिदापन्नसत्त्वा तस्य भार्यासु स्यात् ।
प्रतीहारी — देव , दाणिं एव्व साकेदअस्स सेट्ठिणो दुहिआ णिव्वुत्तपुंसवणा जाआ से सुणिअदि । (देव , इदानीमेव साकेतस्य श्रेष्ठिनो दुहिता निर्वृत्तपुंसवना जायास्य श्रूयते ।)
राजा — ननु गर्भः पित्र्यं रिक्थमर्हति । गच्छ एवममात्यं ब्रूहि ।
प्रतीहारी — जं देवो आणवेदि । (इति प्रस्थिता) (यद्देव आज्ञापयति ।)
राजा — एहि तावत् ।
प्रतीहारी — इअम्हि । (इयमस्मि ।)
राजा — किमनेन संततिरस्ति नास्तीति ।
येन येन वियुज्यन्ते प्रजाः स्निग्धेन बन्धुना ।
स स पापादृते तासां दुष्यन्त इति घुष्यताम् ॥ २३ ॥
प्रतीहारी — एवं णाम घोसइदवं । (निष्क्रम्य । पुनः प्रविश्य ।) काले पवुट्ठं विअ अहिणन्दिदं देवस्स सासणम् । (एवं नाम घोषयितव्यम् । काले प्रवृष्टमिवाभिनन्दितं देवस्य शासनम् ।)
राजा — (दीर्घमुष्णं च निःश्वस्य ।) एवं भोः संततिच्छेदनिरवलम्बानां कुलानां मूलपुरुषावसाने संपदः परमुपतिष्ठन्ति । ममाप्यन्ते पुरुवंशश्रियः एष वृत्तान्तः ।
प्रतीहारी — पडिहदं अमङ्गलम् । (प्रतिहतममङ्गलम् ।)
राजा — धिङ्मामुपस्थितश्रेयो ऽवमानिनम् ।
सानुमती — असंसअं सहि एव्व हिअए करिअ णिन्दिदो णेण अप्पा । (असंशयं सखीमेव हृदये कृत्वा निन्दितोऽनेनात्मा ।)
राजा —
संरोपितेऽप्यात्मनि धर्मपत्नी
त्यक्ता मया नाम कुलप्रतिष्ठा ।
कल्पिष्यमाणा महते फलाय
वसुंधरा काल इवोप्तबीजा ॥ २४ ॥
सानुमती — अपरिच्छिण्णा दाणिं दे संददी भविस्सदि । (अपरिच्छिन्नेदानीं ते संततिर्भविष्यति ।)
चतुरिका — (जनान्तिकम् ।) अप इमिणा सत्थवाहवुत्तन्तेण दिउणुव्वेओ भट्टा । णं अस्सासिदुं मेहप्पडिच्छन्दादो अज्जं माठव्वं गेण्हिअ आअच्छ । (अयि , अनेन सार्थवाहवृत्तान्तेन द्विगुणोद्वेगो भर्ता । एनमाश्वासयितुं मेघप्रतिच्छन्दादार्यं माठव्यं गृहीत्वागच्छ ।)
प्रतीहारी — सुट्ठु भणासि । (इति निष्कान्ता ।) (सुष्ठु भणसि ।)
राजा — अहो दुष्यन्तस्य संशयमारूढाः पिण्डभाजः । कुतः ।
अस्मात्परं बत यथाश्रुति संभृतानि
को नः कुले निवपनानि नियच्छतीति ।
नूनं प्रसूतिविकलेन मया प्रसिक्तं
धौताश्रुशेषमुदकं पितरः पिबन्ति ॥ २५ ॥
( इति मोहमुपगतः । )
चतुरिका — (ससंभ्रममवलोक्य ।) समस्ससदु भट्टा । (समाश्वसितु भर्ता)
सानुमती — हद्धी हद्धी । सदि क्खु दीवे ववधाणदोसेण एसो अन्धआरदोसं अणुहोदि । अहं दाणिं एव्व णिव्वुदं करोमि । अहवा सुदं मए सउन्दलं समस्सासअन्तीए महेन्दजणणीए मुहादो जण्णभाओस्सुआ देवा एव्व तह अणुचिट्ठिस्सन्ति जह अइरेण धम्मपदिणिं भट्टा अहिणन्दिस्सदित्ति । ता जुत्तं एदं कालं पडिपालिदुं । जाव इमिणा वुत्तन्तेण पिअसहिं समस्सासेमि । (इत्युद्धान्तकेन निष्क्रान्ता ।) (हा धिक् हा धिक् । सति खलु दीपे व्यवधानदोषेणैषोऽन्धकारदोषमनुभवति । अहमिदानीमेव निर्वृत्तं करोमि । अथवा श्रुतं मया शकुन्तलां समाश्वासयन्त्या महेन्द्रजनन्या मुखाद्यज्ञभागोत्सुका देवा एव तथानुष्टास्यन्ति यथाऽचिरेण धर्मपत्नीं भर्ताभिर्नान्दष्यतीति । तद्युक्तमेतं कालं प्रतिपालयितुम् । यावदनेन वृत्तान्तेन प्रियसखीं समाश्वासयामि ।)
( नेपथ्ये । )
अब्ब म्हणणं अब्बम्हण्णं । (अब्राह्मण्यम् , अब्रह्मण्यम् ।)
राजा — (प्रत्यागतप्राणः कर्ण दत्त्वा ।) अये , माठव्यस्येवार्तस्वरः । कः कोऽत्र भोः ।
( प्रविश्य । )
प्रतीहारी — (ससंभ्रमम् ।) परित्ताअदु देवो संसअगदं वअस्सं । (परित्रायतां देवः संशयगतं वयस्यम् ।)
राजा — केनात्तगन्धो माणवकः ।
प्रतीहारी — अदिट्ठरूवेण केण वि सत्तेण अदिक्कमिअ महप्पडिच्छन्दस्स पासादस्स अग्गभूमिं आरोविदो । (अदृष्टरूपेण केनापि सत्त्वेनातिक्रम्य मेघप्रतिच्छन्दस्य प्रासादस्याग्रभूमिमारोपितः ।)
राजा — (उत्थाय ।) मा तावत् । ममापि सत्त्वैरभिभूयन्ते गृहाः । अथवा ।
अहन्यहन्यात्मन एव ताव-
ज्ज्ञातुं प्रमादस्खलितं न शक्यम् ।
प्रजासु कः केन पथा प्रयाती-
त्यशेषतो वेदितुमस्ति शक्तिः ॥ २६ ॥
( नेपथ्ये । )
भो , वअस्स , अविहा अविहा । (भो वयस्य , अविहा अविहा ।)
राजा — (गतिभेदेन परिक्रामन् ।) सखे , न भेतव्यं न भेतव्यम् । (नेपथ्ये ।) (पुनस्तदेव पठित्वा ।) कहं ण भाइस्सं । एस मं को वि पच्छावणदसिरोहरं इक्खुं विअ तिन्हभङ्गं करेदि । (कथं न भेष्यामि । एष मां कोऽपि पश्चादवनतशिरोधरमिक्षुमिव त्रिभङ्गं करोति ।)
राजा — (सदृष्टिक्षेपम् ।) धनुस्तावत् ।
( प्रविश्य शार्ङ्गहस्ता । )
यवनी — भट्टा , एदं हत्थावाबसहिदं सरासणं । (भर्तः , एतद्धस्तावापसहितं शरासनम् ।)
( राजा सशरं धनुरादत्ते । )
( नेपथ्ये । )
एष त्वामभिनवकण्ठशोणितार्थी
शार्दूलः पशुमिव हन्मि चेष्टमानम् ।
आर्तानां भयमपनेतुमात्तधन्वा
दुष्यन्तस्तव शरणं भवत्विदानीम् ॥ २७ ॥
राजा — (सरोषम् ।) कथं मामेवोद्दिशति । तिष्ठ कुणपाशन ,त्वमिदानीं न भविष्यसि । (शार्ङ्गमारोप्य ।) वेत्रवति , सोपानमार्गमादेशय ।
प्रतीहारी — इदो इदो देवो । (सर्वे सत्वरमुपसर्पन्ति ।) (इत इतो देवः ।)
राजा — (समन्ताद्विलोक्य ।) शून्यं खल्विदम् ।
( नेपथ्ये । )
अविहा अविहा । अहं अत्तभवन्तं पेक्खामि । तुमं मं ण पेक्खसि । बिडालग्गहीदो मूसओ विअ णिरासो म्हि जीविदे संवृत्तो । (अविहा अविहा । अहमत्रभवन्तं पश्यामि । त्वं मां न पश्यसि । विडालगृहीतो मूषिक इव निराशोऽस्मि जीविते संवृत्तः ।)
राजा — भोस्तिरस्करिणीगर्वित , मदीयं शस्त्रं त्वां द्रक्ष्यति । एष तमिषु संदधे,
यो हनिष्यति वध्यं त्वां रक्ष्यं रक्षति च द्विजम् ।
हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ॥ २८ ॥
( इत्यस्त्रं संधत्ते । )
( ततः प्रविशति विदूषकमुत्सृज्य मातलिः । )
मातलिः —
कृताः शरव्यं हरिणा तवासुराः
शरासनं तेषु विकृष्यतामिदम् ।
प्रसादसौम्यानि सतां सुहृज्जने
पतन्ति चक्षूंषि न दारुणाः शराः ॥ २९ ॥
राजा — (अस्त्रमुपसंहरन् ।) अये मातलिः । स्वागतं महेन्द्रसारथये ।
( प्रविश्य । )
विदूषकः — अहं जेण इट्ठिपसुमारं मारिदो सो इमिणा साअदेण अहिणन्दीअदि । (अहं येनेष्टिपशुमारं मारितः सोऽनेन स्वागतेनाभिनन्द्यते ।)
मातलिः — (सस्मितम् ।) आयुष्मन् श्रूयतां यदस्मि हरिणा भवत्सकाशं प्रेषितः ।
राजा — अवहितोऽस्मि ।
मातलिः — अस्ति कालनेमिप्रसूतिर्दुर्जयो नाम दानवगणः ।
राजा — अस्ति । श्रुतपूर्वं मया नारदात् ।
मातलिः —
सख्युस्ते स किल शतक्रतोरजय्य-
स्तस्य त्वं रणशिरसि स्मृतो निहन्ता ।
उच्छेत्तुं प्रभवति यन्न सप्तसप्ति-
स्तन्नैशं तिमिरमपाकरोति चन्द्रः ॥ ३० ॥
स भवानात्तशस्त्र एव इदानीं तमैन्द्ररथमारुह्य विजयाय प्रतिष्ठताम् ।
राजा — अनुगृहीतोऽहमनया मघवतः संभावनया । अथ माटव्यं प्रति भवता किमेवं प्रत्युक्तम् ।
मातलिः — तदपि कथ्यते । किंचिन्निमित्तादपि मनःसंतापादायुष्मान्मया विक्लवो दृष्टः । पश्चात्कोपयितुमायुष्मन्तं तथा कृतवानस्मि । कुतः ।
ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते ।
प्रायः स्वं महिमानं क्षोभात्प्रतिपद्यते हि जनः ॥ ३१ ॥
राजा — (जनान्तिकम् ।) वयस्य , अनतिक्रमणीया दिवस्पतेराज्ञा । तदत्र परिगतार्थे कृत्वा मद्वचनादमात्यपिशुनं ब्रूहि ।
त्वन्मतिः केवला तापत्परिपालयतु प्रजाः ।
अधिज्यमिदमन्यस्मिन्कर्मणि व्यापृतं धनुः ॥ ३२ ॥
इति ।
विदूषकः — जं भवं आणवेदि । (इति निष्क्रान्तः ।) (यद्भवानाज्ञापयति ।)
मातलिः — आयुष्मान्रथमारोहतु ।
( राजा रथाधिरोहणं नाटयति । )
( इति निष्क्रान्ताः सर्वे । )
षष्ठोऽङ्कः ।
Act 7
सप्तमोऽङ्कः।
( ततः प्रविशत्याकाशयानेन रथाधिरूढो राजा मातलिच । )
राजा — मातले, अनुष्ठितनिदेशोऽपि मघवतः सत्क्रियाविशेषादनुपयुक्तमिवात्मानं समर्थये ।
मातलिः — (सस्मितम्।) आयुष्मन्, उभयमप्यपरितोषं समर्थये । प्रथमोपकृतं मरुत्वतः
प्रतिपत्त्या लघु मन्यते भवान् ।
गणयत्यवदानविस्मितो
भवतः सोऽपि न सत्क्रियागुणान् ॥ १॥
राजा — मातले, मा, मैवम् । स खलु मनोरथानामप्यभूमिर्विसर्जनावसरसत्कारः ।
मम हि दिवौकसां समक्षमर्धासनोपवेशितस्य
अन्तर्गतप्रार्थनमन्तिकस्थं
जयन्तमुद्वीक्ष्य कृतस्मितेन ।
आमृष्टवक्षोहरिचन्दनाङ्का
मन्दारमाला हरिणा पिनद्धा ॥ २ ॥
मातलिः — किमिव नामायुष्मानमरेश्वरान्नार्हति । पश्य ।
सुखपरस्य हरेरुभयैः कृतं
त्रिविदमुद्धृतदानवकण्टकम् ।
तव शरैरधुना नतपर्वभिः
पुरुषकेसरिणश्च पुरा नखैः ॥ ३ ॥
राजा — अत्र खलु शतक्रतोरेव महिमा स्तुत्यः । सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः
संभावनागुणमवेहि तमीश्वराणाम् ।
किंवाभविष्यदरुणस्तमसां विभेत्ता
तं चेत्सहस्रकिरणो धुरि नाकरिष्यत् ॥ ४ ॥
मातलिः — सदृशमेवैतत् । (स्तोकमन्तरमतीत्य।) आयुष्मन्, इतः पश्य नाकपृष्ठप्रतिष्ठितस्य सौभाग्यमात्मयशसः ।
विच्छित्तिशेषैः सुरसुन्दरीणां
वर्णैरमी कल्पलतांशुकेषु ।
विचिन्त्य गीतक्षममर्थजातं
दिवौकसस्त्वश्चरितं लिखन्ति ॥ ५ ॥
राजा — मातले, असुरसंप्रहारोत्सुकेन पूर्वेद्युर्दिवमधिरोहता न लक्षितः स्वर्गमार्गः । कतरस्मिन्मरुतां पथि वर्तामहे ।
मातलिः —
त्रिस्रोतसं वहति यो गगनप्रतिष्ठां
ज्योतींषि वर्तयति च प्रविभक्तरश्मिः ।
तस्य द्वितीयहरिविक्रमनिस्तमस्कं
वायोरिमं परिवहस्य वदन्ति मार्गम् ॥ ६ ॥
राजा — मातले, अतः खलु सबाह्यान्तःकरणो ममान्तरात्मा प्रसीदति । (रथाङ्गमवलोक्य।) मेघपदवीमवतीर्णौ स्वः ।
मातलिः — कथमवगम्यते ।
राजा — अयमरविवरेभ्यश्चातकैर्निष्पतद्भि-
र्दीप्तैरचिरभासां तेजसा चानुलिप्तैः ।
गतमुपरि घनानां वारिगर्भोदराणां
पिशुनयति रथस्ते सीकरक्लिन्ननेमिः ॥ ७ ॥
मातलिः — क्षणादायुष्मान्स्वाधिकारभूमौ वर्तिष्यते ।
राजा — (अधोऽवलोक्य।) वेगावतरणादाश्चर्यदर्शनः संलक्ष्यते मनुष्यलोकः । तथाहि ।
शैलानामवरोहतीव शिखरादुन्मज्जतां मेदिनी
पर्णाभ्यन्तरलीनतां विजयति स्कन्धोदयात्पादपाः ।
संतानैस्तनुभावनष्टसलिला व्यक्ति भजन्त्यापगाः
केनाप्युत्क्षिपतेव पश्य भुवनं मत्पार्श्वमानीयते ॥ ८ ॥
मातलिः — साधु दृष्टम् । (सबहुमानमवलोक्य।) अहो, उदाररमणीया पृथिवी ।
राजा — मातले, कतमोऽयं पूर्वापरसमुद्रावगाढः कनकरसनिस्यन्दी सांध्य इव मेघपरिघः सानुमानालोक्यते ।
मातलिः — आयुष्मन्, एष खलु हेमकूटो नाम किंपुरुषपर्वतस्तपःसंसिद्धिक्षेत्रम् । पश्य ।
स्वायंभुवान्मरीचेर्यः प्रबभूव प्रजापतिः ।
सुरासुरगुरुः सोऽत्र सपत्नीकस्तपस्यति ॥ ९ ॥
राजा — तेन ह्यनतिक्रमणीयानि श्रेयांसि । प्रदक्षिणीकृत्य भगवन्तं गन्तुमिच्छामि ।
मातलिः — प्रथमः कल्पः ।
(नाट्येनावतीर्णौ।)
राजा — (सविस्मयम्।)
उपोढशब्दा न रथाङ्गनेमयः
प्रवर्तमानं न च दृश्यते रजः ।
अभूतलस्पर्शतया निरुन्धत-
स्तवावतीर्णोऽपि रथो न लक्ष्यते ॥ १० ॥
मातलिः — एतावानेव शतक्रतोरायुष्मतश्च विशेषः ।
राजा — मातले, कतमस्मिन्प्रदेशे मारीचाश्रमः ।
मातलिः — (हस्तेन दर्शयति।)
वल्मीकाधनिमनमग्मूर्तिरुरसा संदष्टसर्पत्वचा
कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसंपीडितः ।
अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलं
यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥ ११ ॥
राजा — नमस्ते कष्टतपसे ।
मातलिः — (संयतप्रग्रहं रथं कृत्वा।) महाराज, एतावदितिपरिवर्धितमन्दारवृक्षं प्रजापतेराश्रमं प्रविष्टौ स्वः ।
राजा — स्वर्गादधिकतरं निर्वृतिस्थानम् । अमृतह्रदमिवावगाढोऽस्मि ।
मातलिः — (रथं स्थापयित्वा।) अवतरत्वायुष्मान् ।
राजा — (अवतीर्य।) मातले, भवान्कथमिदानीम् ।
मातलिः — संयन्त्रितो मया रथः । वयमप्यवतरामः । (तथा कृत्वा।) इत आयुष्मन् । (परिक्रम्य।) दृश्यन्तामत्रभवतामृषीणां तपोवनभूमयः ।
राजा — ननु विस्मयादवलोकयामि ।
प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने
तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया ।
ध्यानं रत्नशिलातलेषु विबुधस्त्रीसंनिधौ संयमो
यत्काङ्क्षन्ति तपोभिरन्य मुनयस्तस्मिस्तपस्यन्त्यमी ॥ १२ ॥
मातलिः — उत्सर्पिणी खलु महतां प्रार्थना । (परिक्रम्य आकाशे।) अये वृद्धशाकल्य, किमनुतिष्ठति भगवान्मारीचः । किं ब्रवीषि । दाक्षायण्या पतिव्रताधर्ममधिकृत्य पृष्टस्तस्यै महर्षिपत्नीसहितायै कथयतीति ।
राजा — (कर्णं दत्त्वा।) अये, प्रतिपाल्यावसराः खलु मुनयः ।
मातलिः — (राजानमवलोक्य।) अस्मिन्नशोकवृक्षमूले तावदास्तामायुष्मान्, यावत्त्वामिन्द्रगुरवे निवेदयितुमन्तरान्वेषी भवामि ।
राजा — यथा भवान्मन्यते । (इति स्थितः।)
मातलिः — आयुष्मन् साधयाम्यहम् । (इति निष्क्रान्तः।)
राजा — (निमित्तं सूचयित्वा।)
मनोरथाय नाशंसे किं बाहो स्पन्दसे वृथा ।
पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ॥ १३ ॥
(नेपथ्ये।)
मा क्खु चावलं करेहि । कहं गदो एव अत्तणो पकिदि ।
(मा खलु चापलं कुरु । कथं गत एवात्मनः प्रकृतिम् ।)
राजा — (कर्णं दत्त्वा।) अभूमिरियमविनयस्य । को नु खल्वेष निषिध्यते । (शब्दानुसारेणावलोक्य। सविस्मयम्।) अये, को नु खल्वयमनुबध्यमानस्तपस्विनीभ्यामबालसत्वो बालः । अर्धपीतस्तनं मातुरामर्दक्लिष्टकेसरम् । प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति ॥ १४॥
(ततः प्रविशति यथानिर्दिष्टकर्मा तपस्विनीभ्यां बालः।)
बालः — जिम्भ सिङ्ग दन्ताई दे गणइस्सं ।
(जृम्भस्व सिंह, दन्तास्ते गणयिष्ये ।)
प्रथमा — अविणीद, किं णो अपच्चणिव्विसेसाणि सत्ताणि विप्पअरेसि । हन्त, वड्डइ दे संरम्भो । ठाणे क्खु इसिजणेण सव्वदमणो त्ति किदणामहेओ सि ।
(अविनीत, किं नोऽपत्यनिर्विशेषाणि सत्त्वानि विप्रकरोषि । हन्त, वर्धते तव संरम्भः । स्थाने खलु ऋषिजनेन सर्वदमन इति कृतनामधेयोऽसि ।)
राजा — किं नु खलु बालेऽस्मिन्नौरस इव पुत्रे स्निह्यति मे मनः । नूनमनपत्यता मां वत्सलयति ।
द्वितीया — एसा क्खु केसरिणी तुमं लङ्घइदि जह से पुत्तअं ण मुञ्चसि ।
(एषा खलु केसरिणी त्वां लङ्घयिष्यति यदि तस्याः पुत्रकं न मुञ्चसि ।)
बालः — (सस्मितम्।) अम्हहे, बलिअं क्खु भीदो म्हि । (इत्यधरं दर्शयति।)
(अहो, बलीयः खलु भीतोऽस्मि ।)
राजा —
महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे ।
स्फुलिङ्गावस्थया वह्निरेधापेक्षा इव स्थितः ॥ १५ ॥
प्रथमा — वच्छ, एदं बालमिइन्दअं मुञ्च । अवरं दे कीलणअं दाइस्सं ।
(वत्स, एनं बालमृगेन्द्रं मुञ्च । अपरं ते क्रीडनकं दास्यामि ।)
बालः — कहिं । देहि णं । (इति हस्तं प्रसारयति।)
(कुत्र । देह्येतत् ।)
राजा — कथं चक्रवर्तिलक्षणमप्यनेन धार्यते । तथा ह्यस्य
प्रलोभ्यवस्तुप्रणयप्रसारितो
विभाति जालग्रथिताङ्गुलिः करः ।
अलक्ष्यपत्रान्तरमिद्धरागया
नवोषसा भिन्नमिवैकपङ्कजम् ॥ १६ ॥
द्वितीया — सुव्वदे, ण सक्को एसो वाआमेत्तेण विरमाविदुं । गच्छ तुमं । ममकेरए उडअए मक्कण्डेअस्स इसिकुमारअस्स वण्णचित्तिदो मित्तिआमोरओ चिट्ठदि । तं से उवहर ।
(सुव्रते, न शक्य एष वाचामात्रेण विरमयितुम् । गच्छ त्वम् । मदीय उटजे मार्कण्डेयस्यर्षिकुमारस्य वर्णचित्रितो मृत्तिकामयूरस्तिष्ठति । तमस्योपहर ।)
प्रथमा — तह । (इति निष्क्रान्ता।)
(तथा ।)
बालः — इमिणा एव्व दाव कीलिस्सं । (इति तापसीं विलोक्य हसति।)
(अनेनैव तावत्क्रीडिष्यामि ।)
राजा — स्पृहयामि खलु दुर्ललितायास्मै ।
आलक्ष्यदन्तमुकुलाननिमित्तहासै-
व्यक्तवर्णरमणीयवचःप्रवृत्तीन् ।
अङ्काश्रयप्रणयिनस्तनयान्वहन्तो
धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥ १७ ॥
तापसी — होदु । ण मं अअं गणेदि । (पार्श्वमवलोकयति।) को पत्थ इसिकुमाराणं । (राजानमवलोक्य।) भद्दमुह, एहि दाव । मोअएहि इमिणा दुम्मोअहत्थग्गहेण डिम्भलीलाए बाहीअमाणं बालमिइन्दअम् ।
(भवतु । न मामयं गणयति । कोऽत्र ऋषिकुमाराणाम् । भद्रमुख, एहि तावत् । मोचयानेन दुर्मोचहस्तग्रहेण डिम्भलीलया बाध्यमानं बालमृगेन्द्रम् ।)
राजा — (उपगम्य । सस्मितम्।) अयि भो महर्षिपुत्र ।
एवमाश्रमविरुद्धवृत्तिना
संयमः किमिति जन्मतस्त्वया ।
सत्त्वसंश्रयसुखोऽपि दूष्यते
कृष्णसर्पशिशुनेव चन्दनम् ॥ १८ ॥
तापसी — भद्दमुह, ण क्खु अअं इसिकुमारओ ।
(भद्रमुख, न खल्वयं ऋषिकुमारः ।)
राजा — आकारसदृशं चेष्टितमेवास्य कथयति । स्थानप्रत्ययाच्च वयमेवंतर्किणः । (यथाभ्यर्थितमनुतिष्ठन्बालस्पर्शमुपलभ्य। आत्मगतम्।)
अनेन कस्यापि कुलाङ्कुरेण
स्पृष्टस्य गात्रेषु सुखं ममैवम् ।
कां निर्वृतिं चेतसि तस्य कुर्या-
द्यस्यायमङ्कात्कृतिनः प्ररूढः ॥ १९ ॥
तापसी — (उभौ निर्वर्ण्य।) अच्छरिअं अच्छरिअं ।
(आश्चर्यमाश्चर्यम् ।)
राजा — आर्ये, किमिव ।
तापसी — इमस्स बालअस्स दे वि संवादिणी आकिदी त्ति विम्हाविदम्हि । अपरिइदस्य वि दे अप्पडिलोमो संवृत्तो त्ति ।
(अस्य बालकस्य तेऽपि संवादिन्याकृतिरिति विस्मापितास्मि । अपरिचितस्यापि तेऽप्रतिलोमः संवृत्त इति ।)
राजा — (बालकमुपलालयन्।) नचेन्मुनिकुमारोऽयम्, अथ कोऽस्य व्यपदेशः ।
तापसी — पुरुवंसो ।
(पुरुवंशः ।)
राजा — (आत्मगतम्।) कथमेकान्वयो मम । अतः खलु मदनुकारिणमेनमत्रभवती मन्यते । अस्त्येतत्पौरवाणामन्त्यं कुलव्रतम् ।
भवनेषु रसाधिकेषु पूर्व
क्षितिरक्षार्थमुशन्ति ये निवासम् ।
नियतैकयतिव्रतानि पश्चा-
तरुमूलानि गृहीभवन्ति तेषाम् ॥ २० ॥
(प्रकाशम्।) न पुनरात्मगत्या मानुषाणामेष विषयः ।
तापसी — जह भद्दमुहो भणादि । अच्छरासंबन्धेण इमस्स जणणी पत्थ देवगुरुणो तवोवणे पसूदा ।
(यथा भद्रमुखो भणति । अप्सरःसंबन्धेनास्य जनन्यत्र देवगुरोस्तपोवने प्रसूता ।)
राजा — (अपवार्य।) हन्त, द्वितीयमिदमाशाजननम् । (प्रकाशम्।) अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी ।
तापसी — को तस्स धम्मदारपरिच्चाइणो णाम संकीतिदुं चिन्तिस्सदि ।
(कस्तस्य धर्मदारपरित्यागिनो नाम संकीर्तयितुं चिन्तयिष्यति ।)
राजा — (स्वगतम्।) इयं खलु कथा मामेव लक्ष्यीकरोति । यदि तावदस्य शिशोर्मातरं नामतः पृच्छामि । अथवानार्यः परदारव्यवहारः ।
(प्रविश्य मृण्मयूरहस्ता ।)
तापसी — सव्वदमण, सउन्दलावण्णं पेक्ख ।
(सर्वदमन, शकुन्तलावण्यं प्रेक्षस्व ।)
बालः — (सद्दष्टिक्षेपम्।) कहिं वा मे अज्जा ।
(कुत्र वा मम माता ।)
उभे — णामसारिस्सेण वञ्चिदो माउवच्छलो ।
(नामसादृश्येन वञ्चितो मातृवत्सलः ।)
द्वितीया — वच्छ, इमस्स मित्तिआमोरअस्स रम्मत्तणं देख त्ति भणिदो सि ।
(वत्स, अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि ।)
राजा — (आत्मगतम्।) किंवा शकुन्तलेत्यस्य मातुराख्या । सन्ति पुनर्नामधेयसादृश्यानि । अपि नाम मृगतृष्णितेव नाममात्रप्रस्तावो मे विषादाय कल्पते ।
बालः — अज्जुए, रोअदि मे एसो भद्दमोरओ । (इति क्रीडनकमादत्ते।)
(मातः, रोचते म एष भद्रमयूरः ।)
प्रथमा — (विलोक्य सोद्वेगम्।) अम्हहे, रक्खाकरण्डअं से मणिबन्धे ण दीसदि ।
(अहो, रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते ।)
राजा — अलमलमावेगेन नन्विदमस्य सिंहशावविमर्दात्परिभ्रष्टम् । (इत्यादातुमिच्छति।)
उभे — मा क्खु एदं अवलम्ब । कहं गहिदं णेण । (इति विस्मयादुरोनिहितहस्ते परस्परमवलोकयतः।)
(माखल्विदमवलम्बस्व । कथं गृहीतमनेन ।)
राजा — किमर्थं प्रतिषिद्धा स्मः ।
प्रथमा — सुणादु महाराओ । एसा अवराजिदा णाम ओसही इमस्स जादकम्मसमए भअवदा मारीएण दिण्णा । एतां किल मादापिदरो अप्पाणं च वज्जिअ अवरो भूमिपडिदं ण गेहादि ।
(शृणोतु महाराजः । एषापराजिता नामौषधिरस्य जातकर्मसमये भगवता मारीचेन दत्ता । एतां किल मातापितरावात्मानं च वर्जयित्वापरो भूमिपतितां न गृह्णाति ।)
राजा — अथ गृह्णाति ।
प्रथमा — तदो तं सप्पो भविअ दंसह ।
(ततस्तं सर्पो भूत्वा दशति ।)
राजा — भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया ।
उभे — अणेअसो ।
(अनेकशः ।)
राजा — (सहर्षम् । आत्मगतम्।) कथमिव संपूर्णमपि मे मनोरथं नाभिनन्दामि । (इति बालं परिष्वजते।)
द्वितीया — सुव्वदे, एहि । इमं वुत्तन्तं णिअमव्वाबुडाए सउन्दलाए णिवेदेम्ह ।
(सुव्रते, एहि । इमं वृत्तान्तं नियमव्यापृतायै शकुन्तलायै निवेदयावः ।)
(इति निष्क्रान्ते ।)
बालः — मुञ्च मं । जाव अज्जुए सआसं गमिस्सं ।
(मुञ्च माम् । यावन्मातुः सकाशं गमिष्यामि ।)
राजा — पुत्रक, मया सहैव मातरमभिनन्दिष्यसि ।
बालः — मम क्खु तादो दुस्सन्दो । ण तुमं ।
(मम खलु तातो दुष्यन्तः । न त्वम् ।)
राजा — (सस्मितम्।) एष विवाद एव प्रत्याययति ।
(ततः प्रविशत्येकवेणीधरा शकुन्तला ।)
शकुन्तला — विआरकाले वि पकिदित्थं सवदमणस्स ओसहिं सुणिअ ण मे आसा आसि अत्तणो भाअहेएसु । अहवा जह साणुमदीए आचक्खिदं तह संभावीअदि एदं ।
(विकारकालेऽपि प्रकृतिस्थां सर्वदमनस्यौषधिं श्रुत्वा न म आशासीदात्मनो भागधेयेषु । अथवा यथा सानुमत्याख्यातं तथा संभाव्यत एतत् ।)
राजा — (शकुन्तलां विलोक्य।) अये, सेयमत्रभवती शकुन्तला ।
यैषा
वसने परिधूसरे वसाना
नियमक्षाममुखी धृतैकवेणिः ।
अतिनिष्करुणस्य शुद्धशीला
मम दीर्घं विरहव्रतं बिभर्ति ॥ २१ ॥
शकुन्तला — (पश्चात्तापविवर्णं राजानं दृष्ट्वा।) ण क्खु अज्जउत्तो विअ । तदो को एसो दाणिं किदरक्खामङ्गलं दारअं मे गत्तसंसग्गेण दूसेदि ।
(न खल्वार्यपुत्र इव । ततः क एष इदानीं कृतरक्षामङ्गलं दारकं मे गात्रसंसर्गेण दूषयति ।)
बालः — (मातरमुपेत्य।) अज्जुए, एसो कोवि पुरिसो मं पुत्तेत्ति आलिङ्गदि ।
(मातः, एष कोऽपि पुरुषो मां पुत्र इत्यालिङ्गति ।)
राजा — प्रिये, क्रौर्यमपि मे त्वयि प्रयुक्तमनुकूलपरिणामं संवृत्तम् । यदाहमिदानीं त्वया प्रत्यभिज्ञातमात्मानं पश्यामि ।
शकुन्तला — (आत्मगतम्।) हिअअ, समस्सस समस्सस । परिक्वत्त मत्थरेण अणुअम्पिअम्हि देव्वेण । अज्जउत्तो क्खु एसो ।
(हृदय, समाश्वसीहि समाश्वसीहि । परित्यक्तमत्सरेणानुकम्पितास्मि दैवेन । आर्यपुत्रः खल्वेषः ।)
राजा — प्रिये,
स्मृतिभिन्नमोहतमसो दिष्टया प्रमुखे स्थितासि मे सुमुखि ।
उपरागान्ते शशिनः समुपगता रोहिणी योगम् ॥ २२ ॥
शकुन्तला — जेदु जेदु अज्जउत्तो । (इत्यर्धोक्ते बाष्पकण्ठी विरमति।)
(जयतु जयत्वार्यपुत्रः ।)
राजा — सुन्दरि,
बाष्पेण प्रतिषिद्धेऽपि जयशब्दे जितं मया ।
यत्ते दृष्टमसंस्कारं पाटलोष्ठपुटं मुखम् ॥ २३ ॥
बालः — अज्जुए, को एसो ।
(मातः, क एषः ।)
शकुन्तला — वच्छ, दे भाअहेआणि पुच्छेहि ।
(वत्स, ते भागधेयानि पृच्छ ।)
राजा — (शकुन्तलायाः पादयोः प्रणिपत्य।)
सुतनु हृदयात्प्रत्यादेशव्यलीकमपैतु ते
किमपि मनसः संमोहो मे तदा बलवानभूत् ।
प्रबलतमसामेवंप्रायाः शुभेषु प्रवृत्तयः
श्रमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया ॥ २४ ॥
शकुन्तला — उठेदु अज्जउत्तो । णूणं मे सुअरिअप्पडिबन्धअं पुराकिदं तेसु दिअहेसु परिणाममुहं आसि जेण साणुकोसो वि अज्जउत्तो मइ विरसो संवृत्तो ।
(उत्तिष्ठत्वार्यपुत्रः । नूनं मे सुचरितप्रतिबन्धकं पुराकृतं तेषु दिवसेषु परिणाममुखमासीद्येन सानुक्रोशोऽप्यार्यपुत्रो मयि विरसः संवृत्तः ।)
(राजोत्तिष्ठति।)
शकुन्तला — अह कहं अज्जउत्तेण सुमरिदो दुक्खभाई अअं जणो ।
(अथ कथमार्यपुत्रेण स्मृतो दुःखभाग्ययं जनः ।)
राजा — उद्धृतविषादशल्यः कथयिष्यामि ।
मोहान्मया सुतनु पूर्वमुपेक्षितस्ते
यो बाष्पबिन्दुरधरं परिबाधमानः ।
तं तावदाकुटिलपक्ष्मविलग्नमद्य
बाष्पं प्रमृज्य विगतानुशयो भवेयम् ॥ २५ ॥
(इति यथोक्तमनुतिष्ठति।)
शकुन्तला — (नाममुद्रां दृष्ट्वा।) अज्जउत्त, एदं तं अङ्गुलीअअं ।
(आर्यपुत्र, एतत्तदङ्गुलीयकम् ।)
राजा — अस्मादङ्गुलीयोपलम्भात्खलु स्मृतिरुपलब्धा ।
शकुन्तला — विसमं किदं णेण जं तदा अज्जउत्स पच्चअकाले दुल्लहं आसि ।
(विषमं कृतमनेन यत्तदार्यपुत्रस्य प्रत्ययकाले दुर्लभमासीत् ।)
राजा — तेन तु समवायचिह्नं प्रतिपद्यतां लता कुसुमम् ।
शकुन्तला — ण से विस्ससामि । अज्जउत्तो एवं णं धारेदु ।
(नास्या विश्वसिमि । आर्यपुत्र एवैतद्धारयतु ।)
(ततः प्रविशति मातलिः।)
मातलिः — दिष्ट्या धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन चायुष्मान् वर्धते ।
राजा — अभूत्संपादितस्वादुफलो मे मनोरथः । मातले, न खलु विदितोऽयमाखण्डलेन वृत्तान्तः स्यात् ।
मातलिः — (सस्मितम्।) किमीश्वराणां परोक्षम् । एत्वायुष्मान् । भगवान्मारीचस्ते दर्शनं वितरति ।
राजा — शकुन्तले, अवलम्ब्यतां पुत्रः । त्वां पुरस्कृत्य भगवन्तं द्रष्टुमिच्छामि ।
शकुन्तला — जिहेमि अज्जउत्तेण सह गुरुसमीवं गन्तुं ।
(जिहेम्यार्यपुत्रेण सह गुरुसमीपं गन्तुम् ।)
राजा — अप्याचरितव्यमभ्युदयकालेषु । एह्येहि ।
(सर्वे परिक्रामन्ति।)
(ततः प्रविशत्यदित्या सार्धमासनस्थो मारीचः।)
मारीचः — (राजानमवलोक्य।) दाक्षायणि,
पुत्रस्य ते रणशिरस्ययमग्रयायी
दुष्यन्त इत्यभिहितो भुवनस्य भर्ता ।
चापेन यस्य विनिवर्तितकर्म जातं
तत्कोटिमत्कुलिशमाभरणं मघोनः ॥ २६ ॥
अदितिः — संभावणीआणुभावास्या आकिदी ।
(संभावनीयानुभावास्याकृतिः ।)
मातलिः — आयुष्मन्, एतौ पुत्रप्रीतिपिशुनेन चक्षुषा दिवौकसां पितरावायुष्मन्तमवलोकयतः । तावुपसर्प ।
राजा — मातले एतौ
प्राहुर्द्वादशधा स्थितस्य मुनयो यत्तेजसः कारणं
भर्तारं भुवनत्रयस्य सुषुवे यद्यज्ञभागेश्वरम् ।
यस्मिन्नात्मभवः परोऽपि पुरुषश्चक्रे भवायास्पदं
द्वन्द्वं दक्षमरीचिसंभवमिदं तत्स्रष्टुरेकान्तरम् ॥ २७ ॥
मातलिः — अथ किम् ।
राजा — (उपगम्य।) उभाभ्यामपि वासवानुयोज्यो दुष्यन्तः प्रणमति ।
मारीचः — वत्स, चिरं जीव । पृथिवीं पालय ।
अदितिः — वच्छ अप्पडिरहो होहि ।
(वत्स अप्रतिरथो भव ।)
शकुन्तला — दारअसहिदा वो पादवन्दणं करेमि ।
(दारकसहिता वां पादवन्दनं करोमि ।)
मारीचः — वत्से,
आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः ।
आशीरन्या न ते योग्या पौलोमीसदृशी भव ॥ २८ ॥
अदितिः — जाते, भत्तुणो अभिमदा होहि । अवस्सं दीहाऊ वच्छओ उहअकुलणन्दणो होदु । उवविसह ।
(जाते, भर्तुरभिमता भव । अवश्यं दीर्घायुर्वत्स उभयकुलनन्दनो भवतु । उपविशत ।)
(सर्वे प्रजापतिमभित उपविशन्ति।)
मारीचः — (एकैकं निर्दिशन्।)
दिष्ट्या शकुन्तला साध्वी सदपत्यमिदं भवान् ।
श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम् ॥ २९ ॥
राजा — भगवन्, प्रागभिप्रेतसिद्धिः । पश्चाद्दर्शनम् । अतोऽपूर्वः खलु वोऽनुग्रहः । कुतः ।
उदेति पूर्व कुसुमं ततः फलं
घनोदयः प्राक्तदन्तरं पयः ।
निमित्तनैमित्तिकयोरयं क्रम-
स्तव प्रसादस्य पुरस्तु संपदः ॥ ३० ॥
मातलिः — एवं विधातारः प्रसीदन्ति ।
राजा — भगवन्, इमामाज्ञाकरीं वो गान्धर्वेण विवाहविधिनोपयम्य कस्यचित्कालस्य बन्धुभिरानीतां स्मृतिशैथिल्यात्प्रत्यादिशन्नपराद्धोऽस्मि तत्रभवतो युष्मत्सगोत्रस्य कण्वस्य । पश्चादङ्गुलीयकदर्शनाद्रूढपूर्वी तद्दुहितरमवगतोऽहम् । तच्चित्रमिव मे प्रतिभाति ।
यथा गजो नेति समक्षरूपे
तस्मिन्नपक्रामति संशयः स्यात् ।
पदानि दृष्ट्वा तु भवत्प्रतीति-
स्तथाविधो मे मनसो विकारः ॥ ३१ ॥
मारीचः — वत्स, अलमात्मापराधशङ्कया । संमोहोऽपि त्वय्यनुपपन्नः । श्रूयताम् ।
राजा — अवहितोऽस्मि ।
मारीचः — यदैवाप्सरस्तीर्थावतरणात्प्रत्यक्षवैक्लव्यां शकुन्तलामादाय मेनका दाक्षायणीमुपगता तदैव ध्यानादवगतोऽस्मि दुर्वाससः शापादियं तपस्विनी सहधर्मचारिणी त्वया प्रत्यादिष्टा नान्यथेति । स चायमङ्गुलीयकदर्शनावसानः ।
राजा — (सोच्छ्रासम्।) एष वचनीयान्मुक्तोऽस्मि ।
शकुन्तला — (स्वगतम्।) दिट्ठिआ अकारणपच्चादेसो ण अज्जउत्तो । ण हु सत्तं अत्ताणं सुमरेमि । अहवा पत्तो मए स हि साबो विरहसुण्णहिअआए ण विदिदो । अदो सहीहिं संदिट्ठम्हि भत्तुणो अङ्गुलीअअं दंसइदव्वं ति ।
(दिष्टयाकारणप्रत्यादेशो नार्थपुत्रः । न खलु शप्तमात्मानं स्मरामि । अथवा प्राप्तो मया स हि शापो विरहशून्यहृदयया न विदितः । अतः सखीभ्यां संदिष्टास्मि भर्तुरङ्गुलीयकं दर्शयितव्यमिति ।)
मारीचः — वत्से, चरितार्थासि । सहधर्मचारिणं प्रति न त्वया मन्युः कार्यः । पश्य ।
शापादसि प्रतिहता स्मृतिरोधरूक्षे
भर्तर्यपेततमसि प्रभुता तथैव ।
छाया न मूर्च्छति मलोपहतप्रसादे
शुद्धे तु दर्पणतले सुलभावकाशा ॥ ३२ ॥
राजा — यथाह भगवान् ।
मारीचः — वत्स, कञ्चिदभिनन्दितस्त्वया विधिवदस्माभिरनुष्टितजातकर्मा पुत्र एव शाकुन्तलेयः ।
राजा — भगवन्, अत्र खलु मे वंशप्रतिष्ठा । (बालं हस्तेन गृह्णाति।)
मारीचः — तथा भाविनमेनं चक्रवर्तिनमवगच्छतु भवान् । पश्य ।
रथेनानुद्धातस्तिमितगतिना तीर्णजलधिः
पुरा सप्तद्वीपां जयति वसुधामप्रतिरथः ।
इहायं सत्त्वानां प्रसभमनात्सर्वदमनः
पुनर्यास्यत्याख्यां भरत इति लोकस्य भरणात् ॥ ३३ ॥
राजा — भगवता कृतसंस्कारे सर्वमस्मिन्वयमाशास्महे ।
अदितिः — भअवं, इमाए दुहिदुमणोरहसंपत्तीए कण्वो वि दाव सुदवित्थारो करीअदु । दुहिदुवच्छला मेणभा इह पव्व उपचरन्ती चिट्ठदि ।
(भगवन्, अनया दुहितृमनोरथसंपत्त्या कण्वोऽपि तावच्छुतविस्तारः क्रियताम् । दुहितृवत्सला मेनकैहैवोपचरन्ती तिष्ठति ।)
शकुन्तला — (आत्मगतम्।) मणोरहो क्खु मे भणिदो भअवदीए ।
(मनोरथः खलु मे भणितो भगवत्या ।)
मारीचः — तपःप्रभावात्प्रत्यक्षं सर्वमेव तत्रभवतः ।
राजा — अतः खलु मम नातिक्रुद्धो मुनिः ।
मारीचः — तथाप्यसौ प्रियमस्माभिः प्रष्टव्यः । कः कोऽत्र भोः ।
(प्रविश्य।)
शिष्यः — भगवन्, अयमस्मि ।
मारीचः — गालव, इदानीमेव विहायसा गत्वा मम वचनात्तत्र भवते कण्वाय प्रियमावेदय । यथा पुत्रवती शकुन्तला तच्छापनिवृत्तौ स्मृतिमता दुष्यन्तेन प्रतिगृहीतेति ।
शिष्यः — यदाज्ञापयति भगवान् । (इति निष्क्रान्तः।)
मारीचः — वत्स, त्वमपि स्वापत्यदारसहितः सख्युराखण्डलस्य रथमारुह्य ते राजधानीं प्रतिष्ठस्व ।
राजा — यदाज्ञापयति भगवान् ।
मारीचः — अपि च ।
तव भवतु बिडौजाः प्राज्यवृष्टिः प्रजासु
त्वमपि विततयशः वज्रिणं प्रीणयस्व ।
युगशतपरिवर्तानेवमन्योन्यकृत्यै-
र्नयतमुभयलोकानुग्रहश्लाघनीयैः ॥ ३४ ॥
राजा — भगवन्, यथाशक्ति श्रेयसे यतिष्ये ।
मारीचः — वत्स, किं ते भूयः प्रियमुपकरोमि ।
राजा — अतः परमपि प्रियमस्ति । यदिह भगवान्प्रियं कर्तुमिच्छति तर्हीदमस्तु । (भरतवाक्यम्।)
प्रवर्ततां प्रकृतिहिताय पार्थिवः
सरस्वती श्रुतमहतां महीयताम् ।
ममापि च क्षपयतु नीललोहितः
पुनर्भवं परिगतशक्तिरात्मभूः ॥ ३५ ॥
(इति निष्क्रान्ताः सर्वे)
सप्तमोऽङ्कः।
समाप्तमिदमभिज्ञानशाकुन्तलं नाम नाटकम्॥